________________
७४८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'क्यो वा' (४।३।८१) इत्यत्र यकोऽपि वालुग् इत्यनेन भिषजिता भिषज्यिता इत्यादि प्रक्रिया स्पष्टा । धातोरिति किम् ? नानो मा भूत् । कण्डूः कण्ड्वौ कण्ड्वः । कण्डूग् इति गकारः फलवति कर्तरि आत्मनेपदार्थः । 'कण्डूण गात्रविघर्षणे' । 'महीङ् वृद्धौ पूजायां च' डकार आत्मनेपदार्थः । सर्वत्र महीयते पूजां लभते । 'हृणीं रोषणे लज्जायां च । 'फलेन मूलेन च वारिभूरुहां मुने५रिवेत्थं मम यस्य वृत्तयः । त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते' ॥ १॥ इति नैषधीये। 'वेडू वेष्टने' वेयते वेष्टयति । 'लाडूः विलयने' लायते विलीयते । 'वे लाडू वेट् लाट् एते धौर्ये पूर्वभावे स्वप्ने च । आद्ययोर्ड आत्मनेपदार्थः । लिट् अल्पार्थे कुत्सायां च लिट्यति इति क्रियारत्नसमुच्चये । मन्तु रोषवैमनस्ययोः । मन्तु अपराधे रोप इत्येके इति सिद्धान्तकौमुद्याम् । मन्तूयति । चन्द्रस्तु जितमाह मन्तूयते इति कौमुद्याम् वल्गु पूजायां १० माधुर्ये च वल्गूयति । असु उपतापे दोषप्रकटनेऽपि । असूयति । अस् असूब् इत्येके । अस्यति ।
असूयति असूयते इति कौमुद्याम् । वेलाट् इत्यन्ये । लेट् (लिट् सिद्धहेमबृहद्वृत्तौ)) लोट् धौर्ये पूर्वभावे स्वप्ने च दीप्तावित्यन्ये । लेट्यति लोट्यति । लेटिता । उरस् बलार्थः । उरस्यति बलवान् भवतीत्यर्थः । उरस् ऐश्वर्ये इत्यन्ये । उषस् प्रभातीभावे धौर्ये स्वप्ने च । परितापे इत्यन्ये ।
इरस ईष्यायाम् । इरस्यति इरब् ईर्ष्यायाम् । हलि चेति दीर्घ ईय॑ति ईर्यते इति कौमुद्याम् १५तिरस् आच्छादने । तिरस्यति आच्छादयति । इयस् इमस् ईर्ष्यायाम् । इयस्यति इमस्यति । इस इस्यति । पयसू प्रवेशने । पयस्यति प्रविशति । पयस् प्रसृतौ इति कौमुद्याम् । संभूयस् प्रभूतार्थे । संभूयस्यति । प्रभूतो भवति । 'दुवस् परितापपरिचारणयोः । दुरजू ईर्ष्यायाम् । भिषज् चिकित्सायाम् । भिष्ण उपसेवायाम् । भिषज्यति । भिष्णज्यति । 'अतः' (४।३।८२) इत्यल्लुक् । रेखा श्लाघासादनयोः । लेखा स्खलने च । अदन्तोऽयमित्येके । २० लेख्यति इति कौमुद्याम् । एला वेला केला खेला विलासे । इलेत्यन्ये । खल इत्यन्ये । एला वेला
सेवने कालक्षेपे वा इत्यन्ये । गोधा अर्थः संप्रदायगम्यः । मेधा आशुग्रहणे । मेधायति । मगध परिवेष्टने । नीचदास्ये इत्यन्ये इति कौमुद्याम् । 'अतः' इत्यल्लुक मगध्यति । इरध अर्थः । संप्रदायगम्यः । इषुध शरधारणे । कुकुभ क्षेपे । कुषुभ इति कौमुद्याम् । सुख दुःख क्रियायाम् ।
सुख्यति दुःख्यति । सुखं दुःखं वानुभवतीत्यर्थः । अगद नीरोगत्वे । गद्गद वाक्रखलने । गद्गद२५ डिदित्येके । गद्गद्यते । तरण वरण प्रसिद्धार्थो । चरणगतौ इति कौमुद्याम् । उरण ५० अर्थः
संप्रदायगम्यः । तुरण त्वरायाम् । पुरण भरण गतौ । चुरण गतिचौर्ययोः । भुरण धारणपोषणयुद्धेषु । तंतस् पंपस् दुःखार्थे । अरर आरात्कर्मणि । समर युद्धे । सपर पूजायाम् । लेला दीप्तौ । लाट जीवने २ । अंवर संवर संभरणे ४ । एते चत्वारः कौमुद्याम् । एवं
चतुःषष्टिपरिमाणः कण्ड्वादिः । आकृतिगणोऽयम् । कण्डूयतेः सनि 'सन्यङश्च' (४।१।३) इति ३० आद्यांशस्यैकस्वरस्य द्वित्वे प्राप्ते विशेषसूत्रम् । 'कण्डादेस्तृतीयः' (४।१।९) कण्ड्वादेर्धातोद्धि
वचनमाज एकस्वरस्तृतीय एवावयवो द्विर्भवति । कण्डूयितुमिच्छति कण्डूयियिषति । असूयितु. ३२ मिच्छति असूयियिषति । असूयन्तं प्रायुक्त प्रयोक्तृव्यापारे णिगि डे आसूयियत् ॥ २ ॥
१ कण्डुग् गकार 'इगितः' इत्यात्मनेपदार्थः । महीङ् हृणीङ् वेट लाङ् डकार आत्मनेपदार्थः । मन्तु वहगु असु वेट लाट् वेटलाट् इत्यन्ये । लिट् लोट् उरस् उषस् इरस् तिरस् इयस् इमस् अस् पयस् सम्भूयस् दुवस् दुरज् भिषज् भिष्णुक् रेखा लेखा एला वेला केला खेला खल इत्यन्ये । गोधा मेधा मगध इरध इषुध कुषुम्भ सुख दुःख अगद गद्गद गद्गदङित्येके। तरण वरण उरण तुरण पुरण भुरण वुरण भरण तपुस तम्पस अरर सपर समर इति कण्वादिः । इत्थं तु मुद्रितसिद्धहेमबृहद्वृत्तावर्थरहिताः सङ्ग्रहीताः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org