________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खार्थिकप्रत्ययान्ताः
कमेणिङ् ॥२॥ [सि० ३।४।२] कामयते ४॥ 'कमे०' (३।४।२) कमेर्धातोः स्वार्थे णिङ् स्यात् । णकारो वृद्ध्यर्थः । उकार आत्मनेपदार्थः । कामयते । अद्यतन्यादौ 'अशवि ते वा' (३।४।४) इति णिद्विकल्पात् णिङभावे 'णिश्रिद्रुसुकमः कर्तरि ङः' (३।४।५८) इति डे अचकमत । पक्षे णिगि अचीकमत् । परोक्षायां णिभावे च५ कमेणिङि कमयाञ्चके । कमिषीष्ट कामयिषीष्ट । कमिता कामयिता । कमिष्यते कामयिष्यते । अकमिष्यत् अकामयिष्यत् । सनि चिकमिषते चिकामयिषते । यङि चंकम्यते । लुपि चङ्कमीति चङ्कन्ति चङ्कान्तः चङ्कमति । चङ्कमीषि चदसि । 'शिड्हेऽनुस्वारः' (१।३।४०) चङ्कन्थः चङ्कन्थ । चङ्कमीमि चम्मि 'मो नो म्वोच' (२।१।६७) इति मकारस्य नकारः । णिङि यङ् न स्यादनेकस्वर. त्वादिति भृशं कामयते इति वाक्यमेव । णिगि 'अमो कम्य मिचमः' (४।२।२६) इति हस्वाभावे १० कामयति २ । अचीकमत् २ । अकामि । कामयमानः । कम्यमानं काम्यमानं च । कमानः । कामयाञ्चक्राणः । ऊदितो वेट् कान्त्वा कमित्वा कामयित्वा । वेट्त्वान्नेट कान्तः । णिङि कामितः कमिता कामयिता । कमितुं कामयितुम् । कम्यं काम्यम् । भावकर्मणोः कम्यते काम्यते अद्यतन्यां 'अमो कम्यमि०' (४।२।२६) इति वृद्धिनिषेधाभावे अकामि । णिङयपि अकामि अकमिषाताम् 'अमो कमेति ह्रस्वाभावे अकामयिषाताम् । 'ऋत घृणागतिस्पर्द्धषु' भ्वादिः परस्मैपदी । अत्र सूत्रम् १५
ऋतेमयः॥३॥[सि०३१४३] ऋतीयते ४॥ 'ऋत.' प्रत्ययस्य ङित्त्वादात्मनेपदम् । ऋतीयते इत्यादि सर्व व्यक्तम् ॥ १॥अद्यतन्यादौ सूत्रम्
अशवि ते वा ॥४॥[सि० ३।४।४1 गुपादिभ्यः सप्तभ्योऽशविषये आयादयो वा स्युः । अगोपायीत् । औदित्यादिङ्वा ।२० अगोपीत् । व्यञ्जनानामनिटीति वृद्धौ अगोप्सीत् । गोपायामास । जुगोप ६ । गोपाय्यात्-गुप्यात् ७। गोपायिता-गोपिता-गोप्ता ८। आयीष्ट । ङीयाभावे आतीत् ५ । ऋतीयाञ्चक्रे-आनत ६ । ऋतीयिषीष्ट ऋत्यात् ७ । ऋतीयिता-अर्तिता ८ । ऋतीयिध्यते-अर्तिष्यति ॥ ४॥
'अश' ननु विच्छेस्तौदादिकत्वेन शविषयत्वाभावाच्छित्यपि आयविकल्पः प्राप्नोति ।२५ नैवम् शवोऽपवादत्वात् शप्रत्ययस्यापि शक्शब्देनाभिधानाददोषः । एवं च 'अशवि०' इत्यनेनाशितीत्यर्थः सिद्धो भवति । अशितीत्येव वा पठनीयमेव । शेषं सर्वं स्पष्टं व्याख्यातप्रायं च ।
धातोः कण्ड्वादेर्यक् ॥ ५॥ [सि० ३।४।८] कण्डूयति ४ । अकण्डूयीत् । कण्डूयामास ६।कण्डूयिता ७। एवं कण्डूयते ४ । अकण्डूयिष्ट ५।
इति वार्थिकप्रत्ययान्ताः । 'धातोः कण्डा०' द्विविधाः कण्ड्वादयः, धातवो नामानि च । कण्ड्वादिभ्यो धातुभ्यः यक्प्रत्ययो भवति कण्डूयति । क्ये कण्डूय्यते । अद्य० अकण्डूयीत् अकण्डूयिष्ट अकण्डूयि । कण्डूयाञ्चकार चक्रे वा । कण्डूयिता । एवं भिषज्यति । 'अतः' (४।३।२) इत्यल्लुकि 'योऽशिति' (४।३।८०) इति यलुकि अभिषजत् । अभिषजि । अत्राल्लुकः स्थानित्वान्न वृद्धिः । भिषजाञ्चकार । भिषजिता । ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org