________________
७४६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
अथ स्वार्थिकप्रत्ययान्ताः।
अथ स्वार्थिकप्रत्ययान्तान् धातून निरूपयति । सूत्रम्
गुपौधूपविच्छिपणिपनेरायः ॥ १॥ [सि० ३।४।१] एभ्यः पञ्चभ्यः स्वार्थे आयः प्रत्ययो भवति । गोपायति ४। धूपायति ।। ५पणायति ४ । पनायति ४ । 'कमेणिङ (२४२) 'ऋतेमय:' (२४३)॥१॥
'गुपौ०' एभ्यः पञ्चभ्य इति 'गुपौ रक्षणे' । 'तपं धूप सन्तापे' भ्वादिषु परस्मैपदिनौ । 'विछत् गतौ तुदादिः परस्मैपदी । 'पणि व्यवहारस्तुत्योः' 'पनि स्तुतौ' भ्वादिष्वात्मनेपदिनौ । पणायतीति व्यवहरति स्तौति वेत्यर्थः । व्यवहारार्थात्पणेर्नेच्छन्त्यन्ये । शतस्य पणते ।
अनुबन्धस्याशवि आयप्रत्ययाभावपक्षे चरितार्थत्वादायप्रत्ययन्ताभ्यां पणिपनिभ्यामात्मनेपदं न १० भवति । ततश्च 'शेषात्परस्मै' ( ३।३।१००) इति परस्मैपदम् । गुपावित्यौकारो गुपि गोपन इत्यस्य निवृत्त्यर्थो यङ्लुबन्तनिवृत्त्यर्थश्च । गोपायतीत्यादि । शिद्विभक्तिचतुष्टयं स्पष्टम् । अशिति इडिकल्पे त्रैरूप्यं यथासम्भवं ज्ञेयम् । यङि जोगुप्यते जोगुपीति जोगोप्ति । णौ गोपायति गोपयति । आयस्यादन्तत्वेन उपान्त्य इति ह्रस्वाभावे अजुगोपायत् अजुगोपत् । गोपायन् । गोपायिष्यन् गोप्स्यन् गोपिष्यन् । गोपायितः २ । 'वेटोपतः' (४।४।६२ ) इतीडिषेधे गुप्तः २ । गोपायित्वा १५ गुप्त्वा गोप्त्वा । भावकर्मणोः गोपाय्यते । अद्यतन्यां अगोपायि अगोपि अगोपिषाताम् अगोपायिषाताम् । 'सिजाशिषा०' (४।३।३५ ) इति कित्त्वे अजुगुप्साताम् । ध्वमि अगोपायिध्वम् ड्वम् ट्वम् । अगुब्ध्वम् वं ध्वम् । अगोपिध्वम् ट्वं ड्वम् । जुगुप्सति । 'वौ व्यञ्जना०' (४।३।२५) इति वा कित्त्वे जुगोपिषति जुगुपिषति । एवं धूपायति । अधूपायीत् अधूपीत् इड्विकल्पाभावाद्रूपद्वयमेव
अधूपायिष्टाम् । धूपायाञ्चकार । दुधूप । धूपाय्यात् धूप्यात् । धूपायिता धूपिता । धूपायिष्यति धूपिष्यति। २० दुधूपायिषति दुधूपिषति । दोधूप्यते । दोधूपीति दोधूप्ति । णौ धूपाययति धूपयति । आयस्यादन्तत्वेन
अदुधूपायत् अदुधूपत् । धूपाय्यमानं धूप्यमानम् । धूपायाञ्चकृवान् दुधूप्वान् । भावकर्मणोः अधूपायि अधूपि । “विछत् गतौ' । 'स्वरेभ्यः' (१।३।३०) इति छस्य द्वित्वे विच्छायति । अविच्छायीत् अविच्छीत् । विच्छायाञ्चकार विविच्छ । विच्छायिता विच्छिता । शतरि 'अवर्णादन' (२।१।११५) इति वान्तादेशे विच्छन्ती विच्छती स्त्री कुले वा । द्रमिलास्तु शे नित्यमायम् , २५तुदादिपाठबलाचायव्यवायेऽपि पक्षे नलोपमिच्छन्ति विच्छायन्तीति विच्छायती, यथा जुगुप्सते इति
सन् व्यवाये(व्यवधाने)ऽप्यात्मनेपदम् । विच्छो न विश्नः । 'विच्छण् भासार्थः' विच्छयति । पणायतीति 'विनिमेयद्यूत०' (२।२।१६) इति वा कर्मत्वे शेषषष्ट्यां च शतं शतस्य वा पणायति । अपणायीत् अपणिष्ट । पणायाञ्चकार पेणे । पणायिता पणिता । पंपण्यते । पनायतीति पनेरिदित्त्वादात्मनेपदमित्यन्ये । पनायते जिनम् । एवं पणेरपि । पंपनीति पंपत्ति पंपान्तः पंपनति । पनाययति पनयति । (पनति ?) आयस्यादन्तत्वेन अपपनायत् अपीपनत् । ३१ 'कमू कान्तौ' भ्वादिरात्मनेपदी अत्र सूत्रम्
१जयादित्यप्रभृतयः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org