________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे ज्यादयः आत्मनेपदिनः
७४५ जानातेणिचि अणिचि च णौ ह्रस्वो भवति । भिणम्परे तु वा दीर्घः । चकारो णिचि चेत्यस्यानुकर्षणार्थः । मारणे संज्ञपयति पशुम् । तोषणे ज्ञपयति गुरुम् विज्ञपयति राजानम् । निशाने ज्ञपयति शरान् प्रज्ञपयति शस्त्रम् । अज्ञापि अज्ञपि । ज्ञापम् २ ज्ञपम् २ । निशानं तेजनं तीक्ष्णीकरणम् । अन्ये तु निशामने इच्छन्ति । निशामनमालोचनं प्रणिधानमाहुः । इह सर्वत्र सूत्रे णिचि अणिचि च णौ रूपसाम्येऽप्यर्थभेदः। एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापारः । स्वार्थे प्रथममेव मारणे वर्त्तते, ५ अन्यत्र प्रथमं मरणे ततो मारणे अन्यत्र ज्ञापयति । णौ डे व्यजिज्ञपत् । 'इवृधः' (४।४।४७) इति सनि वेट जिज्ञपयिषति । पक्षे 'ज्ञप्यापो ज्ञीपीप्० (४।१।१६) इति ज्ञीपि ज्ञीप्सति । 'नाम्युपान्त्यप्रीक़ग़ज्ञः कः' (५।११५४) इति के ज्ञः । 'उपसर्गादातः' (५।३।११०) इति डे प्रज्ञः। प्रज्ञाद्यणि प्राज्ञः। प्राज्ज्ञश्चेति डे पथिप्रज्ञः । णौ दान्त०' (४।४।७४) इति क्ते वा निपातनात् संज्ञप्तः पशुः । पक्षे सेट्क्तयोरिति णे लुकि संज्ञपितः । उपसर्गादित्यङि प्रज्ञा उपज्ञा । यडि जाजा-१० यते । त्यादौ तु न जा, जाज्ञाति जाज्ञेति जाज्ञीतः जाज्ञति । शतरि तु यलुपि जाज्ञातीति वाक्ये 'जाज्ञाजन०' (४।२।१०४ ) इति जा आदेशे 'भश्चातः' (४।२।९६) इत्यालुकि जन् अत्यर्थ जानन् इत्यर्थः । उणादौ प्लुज्ञायजिषपिपदिवसिवितसिभ्यस्तिः (६४६) इति तौ ज्ञातिः बन्धुः । ज्ञायते इति वा स्त्रियां तौ ज्ञातिः । ज्ञानं ज्ञातिरिति तु नास्ति; प्रसिद्धेनापहृतत्वात् । इति परस्मैपदिनः ॥ ४३ ॥
'वृडूश संभक्तौ' । संभक्तिः संसेवा । 'एषामी०' (४।२।९७ ) इतीत्वे वृणीते । 'इटिसजाशिषो०' (४।४।३६) इति वेटि, 'वृतो नवा०' (४।४।३५) इति वा दीर्घ अवरिष्ट अवरीष्ट । पक्षे 'नामिनोऽनिट्' (४३।३३) इति सनः कित्त्वे वुवूर्षति । किति 'ऋवर्णश्रि.' (४।४।५७) इति नेट वृतः २ । वृत्वा । 'वर्योपसर्या०' (५।१।३२) इति ये निपातनात् वर्यमुपेयम् । वार्यमन्यत् । 'भृवृजि०' (५।१।११२) इति खे पतिंवरा कन्या । वृभिक्षिलुपिजल्पिकुट्टाहाकः वराकः २० वराकी । 'युवर्ण०' (५।३।२८) इत्यलि वरः । जपदृशवसृभ्यो द्वे रश्चादौ (४७) एभ्य इको द्वे रूपे एषां त्वादौ रः वर्वरीकः संवरणं उरणः पतत्री केशसंघातश्च । वर्वरीका सरस्वती । धातुपारायणे 'वृश संभक्तौ' इति धातोः उणादिविवरणे तु 'वृग्ट् वरणे' इति धातुः । वृङ् एण्यः (३८२) वरेण्यः । 'वुग्ट वरणे' वृणुते वृणोति । 'गश् वरणे' वृणाति वृणीते । 'वृग्ण आवणे' युजादेरिति वा णिचि वारयति । पक्षे वरते वरति । इत्यात्मनेपदी १। 'षोडशोभयपदिनः एक एवात्मनेपदे । त्रयश्चत्त्वारिंशदिह परस्मैपदिनः स्मृताः ॥ १॥ 'द्वाविंशतिः प्वादयोऽत्र ल्वादयश्चैकविंशतिः । ज्यादयो धातवश्चैवं षष्टिः स्युः सर्वसङ्ख्यया ॥२॥६॥
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ भाविकृताः शितो गुणभृतः पूर्णाः अमी ज्यादयः ॥ १॥
३१
है. प्रका० उत्त० ९४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org