________________
७४४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुकित्त्वे विषित्वा वेषित्वा । विवेषिषति विविषिषति । विषितः २ । 'नाम्युपान्त्य०' (५।१।५४) इति के विघम् । 'विषू सेवने' वेषति । 'विष्लंकी व्याप्तौ' वेवेष्टि । अविषत् । 'पुष प्लुषश स्नेहसेचनपूरणेषु' । पुष्णाति । पुषाण । अप्रोषीत् । पुप्रोष । प्रोषिता । म॒षितः । 'क्रुत्सम्पदा'० ( ३।५। ११४) इति क्विपि विग्रुट् । निधुषी० (५११) इति किति वे पुष्वा निवृत्तिः । प्लुष, प्लुष्णाति । ५प्लुषाण । अप्लोषीत् । पुप्लोष प्लोषिता । प्लुषितः २ । 'पुषू प्लषू दाहे' प्रोषति प्लोषति । 'प्लुषूच दाहे' प्लुष्यति । मुषश धातुं (पृष्ठ ७३७) साक्षात्पठन्ति । मुष्णातीत्यादि स्पष्टम् । 'रुदविदमुषग्रहस्वपप्रच्छः सन् च' (४।३।३२) सेडिति निवृत्तम् । एभ्यः परः सन् क्त्वा च किद्वद्भवतः। मुषित्वा मुमुषिषति । उणादौ विचिपुषि० (२२) इति किति के मुष्कः पेलः । मुषेर्दीर्घश्च (४३) इतीके
मूषिकः । अजादित्वादापि मूषिका । 'पुषश पुष्टौ' । पुष्णाति । पुषाण । अपोषीत् । पुपोष । पोषिता । १० पुष पुष्टौ' पोषति 'पुषंच पुष्टौ' पुष्यति । पोष्टा । 'कुषश निष्कर्षे' । निष्कर्षों बहिष्कर्षणम् ।
कुष्णाति । कर्मकर्त्तरि 'कुषिरओप्प्ये वा परस्मै च' (३।४।७४ ) आभ्यां व्याप्ये कर्तरि शिद्विषये परस्मैपदं वा भवति । तत्सन्नियोगे श्यश्च क्यात्मनेपदापवादौ । कुष्णाति पादं देवदत्तः, कुष्यति कुष्यते पादः स्वयमेव । कुष्यन् कुष्यमाणो वा पादः स्वयमेव । पक्षे 'एकधातौ०' (३।४।८६) इति क्ये आत्मनेपदे च कुष्यते पादः स्वयमेव । हौ कुषाण । अकुष्णात् १५'निष्कुषः' (४।४।३९) निनिष्संबद्धात् कुषः परस्य स्ताद्यशित आदिरिड्जा भवति । निःपूर्वनियमात्केवलादन्यपूर्वाच्च नित्य एवेट । कोषिता प्रकोषिता । अद्यतन्यां निरकोषीत् । पक्षे इडभावे 'हशिट' (३।४।५५) इति सकि निरकुक्षत् । निश्चुकोष । निष्कोष्टा निष्कोषिता । निष्कोक्ष्यति निष्कोषिष्यति । 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्त्वासनोर्वा कित्त्वे कुषित्वा कोषित्वा कुष्ट्वा । निश्चकुषिषति निश्चुकोषिषति । इडभावपक्षे निश्चकुक्षति । २० 'उपान्त्ये' इत्यत्र कित्त्वम् । "क्तयोः' (४।४।४०) निष्कुषः परयोः क्तयोरादिरिड् नित्यं
भवति । पृथग्योगाद्वेति निवृत्तम् । निष्कुषितः निष्कुषितवान् । कुषेः कित् (८०) इतीतके कुषीतक ऋषिः । कुषेर्वा ( १६४) इति वा किति ठे कुष्ठं व्याधिर्गन्धद्रव्यं च । कोष्ठः कुसूल उदरं च । प्रषिप्लुषिशुषिकुष्यशिभ्यः सिक् (७०७) इति सिक्प्रत्यये कुक्षिः । सिविकुटिकुठिकुकुषिकृषिभ्यः कित् (७५३) इति कित्याकौ कुषाकुर्मूषिकोग्निः परोपतापी 'च । इति षान्ताः सप्त सेटश्च ७ । २५ 'ध्रसूश उञ्छे' ध्रस्नाति । हौ ध्रसान । अध्रासीत् २ । दध्रास । ध्रसिता। ऊदित्त्वात् क्त्वि वेद
ध्रसित्वा ध्रस्त्वा । वेट्त्वात् क्तयोर्नेट् ध्रस्तः २ । इति सान्तः सेट १ । अथ ज्ञाधातुं कण्ठतो निर्दिशति (पृष्ठ ७३७) । ज्ञांश इति । फलवत्कर्तरि 'ब्रोऽनुपसर्गात्' (३।३।९६) इत्यात्मनेपदे धर्म जानीते । ‘पदान्तरे गम्ये वा' (३।३।९९) स्वां गां जानीते जानाति वा । उपसर्गात्तु 'शेषात्' (३।३।१००) इति परस्मैपदे अवजानासि माम् । 'निह्नवे ज्ञः' (३।३।६८) शतमपजानीते । संप्रतेर३. स्मृतौ इत्यात्मनेपदे 'समो ज्ञोऽस्मृतौ' वा (२।२।५१) इति व्याप्ये वा तृतीयायां मात्रा संजानीते मातरं संजानीते । नित्यं शब्दं प्रतिजानीते । 'अननोः सनः' (३।३।७० ) धर्म जिज्ञासते । अनोस्तु पुत्रमनु जिज्ञासति पाठाय । कर्मण्यसति 'ज्ञः' ( ३।३।८२) इत्यात्मनेपदे 'अज्ञाने ज्ञः पष्ठी' (२।२। ८०) इति करणे षष्ठ्यां सर्पिषो जानीते । सर्पिषा करणभूतेन प्रवर्त्तत इत्यर्थः । ज्ञेयात् ज्ञायादिति । अकिति आशिषि तु ज्ञासीष्ट । अनुस्वारेत्वान्नेट ज्ञात्वा । ज्ञातुम् । 'ज्ञानेच्छा०' (५।२। ३५९२) सति क्ते ज्ञातः । णौ 'मारणतोषणनिशाने ज्ञश्च' (४।२।३०) एड्वर्थेषु वर्तमानस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org