________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे ऋयादयः परसैपदिनः
७४३ बन्धेः (१५७ ) इति कित्यूटे वधूटी । दिननग्न० (२६८) इति निपातनात् बन्धेर्बध् च नः रविः । शुषीषि० (४१६) इति कितीरे बधिरः । भृमृतृ० (७१६) इत्युः बन्धुः। इति धान्तौ आधः सेद द्वितीयोऽनिद । 'शुभश सञ्चलने' । 'क्षुम्नादीनाम्' (२।३।९६) इति णत्वाभावे चुनाति क्षुश्रीतः क्षुघ्नन्ति । हौ क्षुभाण । अक्षोभीत् । चुक्षोभ । क्षोभिता । 'क्षुब्धविरिब्ध०' (४।४।७०) इति सूत्रेण मन्थेऽभिधेये क्षुब्ध इति निपात्यते । अन्यत्र क्षुभित इति । सूत्रं चैतत् क्तप्रत्ययप्रकरणे५ वक्ष्यते । 'क्षुभि सञ्चलने' क्षोभते । 'क्षुभच् सञ्चलने' क्षुभ्यति । पुण्याद्यङि अनुभत् । 'णभ तुभश हिंसायाम्' । 'पाठे०' (२।३।९७) इति णो ने नभ्राति । 'अदुरुपसर्ग०' (२।३।७७) इति नो णे प्रणश्नाति । हो नभान । अनाभीत् अनभीत् । 'अनादेशादे.' (४।१।२४) इत्यत एत्वे द्वित्वाभावे च नेमतुः । नेभुः । नभिता । नभितः ॥ तुभ तुनाति । तुभान । अतोभीत् । तुतोभ । तोभिता । तुभितः । णभि तुभि हिंसायाम् नभते तोभते ।णभ तुभच हिंसायाम्' नभ्यति तुभ्यति इति १० भान्तास्त्रयः सेटः॥३॥खवश हेठशवत्। यथा हेठश् अभूतप्रादुर्भावे तथायमपि । वर्णक्रमानुरोधेन तु तत्रैव न पठितः । 'अनुनासिके च०' (४।१।१०८) इति व ऊटि 'उटा' ( १।२।१३ ) इत्यत्र औत्वे खौनाति । ऊटं यवोरिति वलुकं नेच्छन्त्येके तन्मते खन्नाति । हौ खवान । अखावीत् । जखाव । खविता । खवितुम् । खवित्वा । क्विपि खौः। चान्तोऽयमित्येके । चान्तं धात्वन्तरमित्यन्ये । 'तवर्गस्य०' (१।३।६०) इति नो बत्वे खच्याति । अखाचीत् । चखाच । खचिता । खचितः २ । इति वान्तः १५ सेट् १ । 'क्लिशौश विबाधने' 'तवर्गस्व०' ( १।३।६०) इति नो बत्वस्य 'न शात्' (१।३।६२) इत्यभावे क्लिनाति । हौ क्लिशान । अक्लेशीत् पक्षे हशिट' (३।४।५५) इति सकि 'यजसृज.' (२।११८७) इति शः षे 'षढोः क.' (२।११६२) इति के सस्य षत्वे अक्लिक्षत् । चिक्लेश ।
औदित्त्वाद्वेट् । क्लेष्टा क्लेशिता । क्तक्तवतुक्त्वासु 'पूक्लिशिभ्यो नवा' (४।४।४५) इति वेट क्लिष्टः क्लेशितः, क्लिष्टवान् क्लिशितवान् । 'क्लिष्ट्वा 'चौ व्यञ्जनादेः०' (४।३।२५) इति विकल्पापवादे २० 'क्षुधक्लिश०' (४।३।३१) इति कित्त्वे क्लिशित्वा । सनि 'उपान्त्ये' (४।३।३४) नामिन्युपान्त्ये सति धातोरनिट् सन् किद्वद्भवति । यडि चेक्लिश्यते । चेलिशीति चेक्लेष्टि । णो के अचिक्तिशत् । उणादौ क्लिशः के च (५३०) अस्मात् शः प्रत्ययोऽस्य च के इत्यादेशो भवति । केशा मूर्द्धजाः । 'क्लिशिच् उपतापे' क्लिश्यते । क्लिश्यती त्वात्मनेपदस्यानित्यत्वज्ञापनात् । अशंश धातुं पाठतो निर्दिशति (पृष्ठ ७३७) । अनातीत्यादि स्पष्टम् । 'भावे चाशिताद्भुवः खः' (१।१।१३०) इति (च) इति निर्देशात् २५ साप्यादपि कर्तरि क्ते दीर्घ च आङ्पूर्वादविवक्षितकर्मणो वा क्ते आशितः तृप्तः । 'वेयिवदनाश्वदनूचानम्' (५।२।३) इति निपातनात् भूतमात्रे कसुन चेट । अनाशीत् अनाश्वान् । 'भुजिपत्यादिभ्यः कर्मापादाने' (५।३।१२८ ) भुजादिभ्यः पत्यादिभ्यश्च कर्मण्यपादाने चानट् भवति । अश्यते इति अशनम् । 'क्षुत्तृट्गद्धेऽशनायोदन्यधनायम् (४।३।११३) इति क्यनि निपातनादशनायति बुभुक्षुः । क्षुधोऽन्यत्र अशनीयति दातुम् । उणादौ इध्यशि० (७७) इति तककि अष्टका पितृदैवत्यं कर्म ।३० अश्रिरिति तु तङ्किवकि० (६९१) इति रावश्नोतेः । 'अशौटि व्याप्तौ' अश्नुते । इति शान्तौ सेटौ २ । 'इषश आभीक्ष्ण्ये' आभीक्ष्ण्यं पौनःपुन्यम् । इष्णाति । हो इषाण । ऐषीत् । इयेष । 'सहलुभेच्छ'० (४।४।४६) इतीडातोऽपीत्येके । एष्टा । एषिता । वेट्त्वात् क्तयोर्नेट् इष्टः २ । 'इषच् गतौ' अन्विष्यति । 'इषत् इच्छायाम्' इच्छति इष्टः । 'विषश विप्रयोगे' । विष्णाति । विषाण । अवैषीत् । विवेष । वेषिता 'वौ व्यञ्जनादेः सन् चायवः' (४।३।२५) इति क्त्वासनोर्वा ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org