________________
७४२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
1
1
अग्रन्थीत् । जमन्थ 'वा श्रन्थग्रन्थ ० ' ( ४|१|२७ ) इति एत्वं न लुक् द्वित्वाभावश्च । येथतुः थुः । जग्रन्थतुः जग्रन्थुः | 'स्वसृ ० ' ( ४|४|८१ ) इतीटि प्रथिथ जग्रन्थिथ । ग्रध्यात् ग्रन्थिता ग्रन्थिष्यति अग्रन्थिष्यत् । कर्मकर्त्तरि प्राग्वत् प्रश्नीते माला स्वयमेव । अग्रन्थिष्ट माला स्वयमेव । aft प्रिन्थिषति । यङि जाग्रध्यते जाग्रथीति जाप्रति । णौ ग्रन्थयति । णौ ङे अजग्रन्थत् । ५ नत् । प्रनती । ग्रन्थिष्यत् । ग्रन्थिष्यती । कसौ जग्रध्वान् ग्रेथिवान् । काने जयथानम् प्रेथानम् । ग्रथितः २ । 'ऋत्तृष०' ( ४।३।२४ ) इति क्त्वो वा कित्त्वे प्रथित्वा ग्रन्थित्वा प्रग्रन्थय । प्रथितुम् । प्रथितव्यम् । प्रथनीयम् । उणादौ पदिपठि० (६०७ ) इति इ: । ग्रन्थिः पर्व | 'थुङ् कौटिल्ये' ग्रन्थते । ‘ग्रन्थणू सन्दर्भे' 'युजादे० ' ( ३।४।१८ ) इति वा णिचि ग्रन्थयति ग्रन्थति । 'कुन्धश् संक्रो' लेषण इत्यन्ये, कुनाति । कुथान । अकुन्थीत् । चुकुन्थ । कुन्थिता । कुन्थितः २ । १० ‘ऋत्तृष०' ( ४।३।२४ ) इति वा कि वे कुथित्वा कुन्थित्वा । घनि कुन्थः । स्थादित्वात् के कुध्यते इति कुथः कुथा कुथं वा वर्णकम्बलः । ' केटो गुरोर्व्यञ्जनात् ' ( ५|३|१०६ ) इत्यः । उणादौ भृमृतृ० ( ७१६ ) इत्युः कुन्थु सूक्ष्मजन्तुः । ते लुग्वा इत्युत्तरपदलुकि 'कुन्थुदयापरः कन्युर्भगवांस्तीर्थकरः' । ‘कुथु हिंसासंक्लेशयोः' उदित्वान्ने कुन्थति कुध्यते । इति थान्ताश्चत्वारः सेटच ४ । 'मृदश् क्षोदे' । मृद्नाति । मृदान । अमर्दीत् । ममर्द । मर्दिता । 'अजाते: शीले' (५|१|१५४ ) १५ इति णिनि नगरमर्दी, क्षुरमर्दी दिवाकीर्त्तिः । सनि मिमर्दिषति । णौ मर्दयति । णौ ङे ऋवर्णस्य गुणापवादे वा ऋत्वे अभीमृदत् अममर्दत् । यङि मरीमृद्यते । यङ्लुपि मरी ३ मर्त्ति । ममृद्वान् ममृदानः मृदितः २ । 'क्षुधक्लिश०' ( ४ | ३ | ३१ ) इति क्त्वः कित्त्वे मृदित्वा प्रमृद्य । इति दान्तः सेट् १ | 'गुधश् रोषे' गुनाति । गुधान । अगोधीत् । जुगोध । गोधितः गुधितः २ | 'क्षुधक्लिश०' इति क्त्वः किन्त्वे गुधित्वा । 'वौ व्यञ्जनादेः सन् चाय्वः' ( ४ | ३ | २५) इति सनो वा किवे २० जुगुधिषति जुगोधिषति । भिदाद्यङि गोधा । उणादौ कुथिगुघेरूमः ( ३५३ ) गोधूम: । 'गुधच् परिवेष्टने' गुध्यति । बन्धिधातुं पाठतो ( पृष्ठ ७३७ ) निर्दिशति । बध्नातीत्यादि स्पष्टम् । परोक्षायां संयोगान्तत्वात् ‘इन्ध्यसंयोग ० ' ( ४।३।२१ ) इति कित्त्वाभावे ' गडदबादे: ० ' (२।१।७७ ) इति बस्य भवे भन्त्स्यतीति । सनि बिभत्सति । यङि बाबध्यते । यङ्लुपि बाबन्धीति बाबंति । णौ बन्धयति । णौ ङे अबबन्धत् । बध्नन् भन्त्स्यन् । कित्वान्नलुकि बेधिवान् बेधानम् । बद्धः २ । बद्धा २५ निवध्य । 'बन्धेर्नाम्नि' (५/४/६७) बन्धेरिति प्रकृतिर्नामविशेषणं (च ) । बन्धेर्बन्ध्यर्थस्य यन्नाम संज्ञा तद्विषयात्करणवाचिनः पराद्वन्धेर्धातोस्तस्यैव धातोः सम्बन्धे सति णम् वा भवति । क्रौञ्चबन्धं बद्धः । एवं मर्कटबन्धं मयूरिकाबन्धं गोबन्धं महिषीबन्धं अट्टालिकाबन्धं चण्डालिकाबन्धं बद्धः । क्रौञ्चादीनि बन्धनामानि । कौखाद्याकारो बन्धः क्रौञ्चादिरित्युच्यते । तेन बन्धेन बद्ध इत्यर्थः । केचित्तूपपदप्रकृतिप्रत्ययसमुदायस्य क्रौवबन्ध इत्यादेः संज्ञात्वं मन्यन्ते, व्युत्पत्तिं च ३० क्रौञ्चेन क्रौञ्चाय क्रौञ्चाद्वा बन्धनमित्यादि यथा कथञ्चित् कुर्वन्ति; तन्मतसङ्ग्रहार्थं नानीति प्रेत्ययान्तोपाधित्वेन व्याख्येयम् | 'आधारात्' (५|४|६८ ) आधारवाचिनः पराद्बन्धेस्तस्यैव धातोः सम्बन्धे णम्वा भवति । चक्रबन्धं बद्धः । एवं चारकबन्धं कूटबन्धं गुप्तिबन्धं बद्धः । चक्रादिषु बद्ध इत्यर्थः । प्रामेबद्धः हस्ते बद्ध इति बहुलाधिकारान्न भवति । उणादौ दृकुनृ० (२७) इत्यके ३४ बन्धकः चारकपालः । गौरादित्वात् ङयां बन्धकी पांसुला । मृमनि० (५८) इत्यूके बन्धूकः ।
1
1
1
1
I
१ प्रत्ययान्तं चेन्नाम भवतीत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org