________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे जयादयः परस्मैपदिनः
७४१ भवति । गर्हितं गृणाति । सनि जिगरिषति जिगरीषति जिगीर्षति । गारयति । अजीगरत् । 'युवर्ण०' (५।३।२८) इत्यलि गरः । उणादौ कुन ऋत उर् च (७३४ ) आभ्यां किदुः ऋकारस्य उर् गुरुः आचार्यः। 'गत् निगरणे' गिरति । 'ऋश गतौ । ऋणाति ४ । आरीत् । आर आरतुः । 'वृतो नवा०' (४।४।३५) इतीटो वा दीर्घ अरिता अरीता । किति 'ऋवर्णश्रि०' (४।४।५७) इति नेट् । 'ऋल्वादे.' ( ४।२।२८) इति तो ने समीर्णः । समीणिः । 'इवृध०' (४।४।४७) सनि ५ वेट । अरिरिषति अरिरीषति । इडभावपक्षे इरादेशे दीर्घत्वे सनो द्वित्वे पूर्वस्य इत्वे द्वयोः षत्वे च ईर्षिषति । इत्येकादश ऋदन्ताः सेटः --* वृत्प्वादिः २२ ल्वादिः २१ ।
'क्षिषश हिंसायाम्'। क्षिणाति अौषीत् । चिक्षाय 'संयोगात्' (२।११५२) इति यापवादे इयि चिक्षियतुः चिक्षियुः । अनुस्वारेत्वान्नेट क्षेता । सानुबन्धत्वात् 'क्षेः क्षीः चाध्यार्थे' (४।२।७४ ) इति क्तयोस्तस्य नत्वाभावे क्षितः २ । श्वादित्वात् क्तौ क्षितिः । पित्वादङि क्षिया । दीर्घान्तोऽयमित्येके ।१० क्षीतः २ । 'हिं क्षये' क्षयति इति इदन्तोऽनिट् । 'बींश वरणे' । वीणाति । प्वादिरयमित्येके । 'प्वादे०' (४।२।१०५) इति हस्खे ब्रिणाति । अत्रैषीत् । विवाय । यापवादे 'संयोगात्' (२।१। ५२) इतीयादेशे विवियतुः । व्रता । बीतः २ । ब्रीतिः । उणादौ बियो हिक् (७१०) व्रीहिः । 'भ्रींशु भरणे' भय इत्यन्ये, भ्रीणाति । प्वादिरप्ययमित्यन्ये । तन्मते हस्ते भ्रिणाति । अभैषीत् । विभ्राय । बिभ्रियतुः । भ्रता । भ्रीतः २ । भ्रीतिः । 'युवर्ण०' (५।३।२८) इत्यलि भ्रयः । इति १५ दीर्घ ईदन्तावनिटौ । 'हेठशु भूतप्रादुर्भावे' भूतप्रादुर्भावोऽतिक्रान्तोत्पत्तिः । 'तवर्गस्य०' ( १।३। ६०) इति नस्य णत्वे हेह्णाति । 'व्यञ्जच्छनाहेरानः' (३।४।८०) हेठान, अहैठीत् । जिहेठ । हेठिता । हेठितः । 'हेठि विबाधायाम्' हेठते इति ठान्तः सेट १ । 'मृडश सुखने' । नो णत्वे मृड्णाति । हो मृडान । अमार्डीत् । ममर्ड ममृडतुः । मर्दिता । मृडितः । 'क्षुधक्लिशकुषगुधमृडमृद्ववसः' (४।३।३१) इति क्त्वः कित्त्वे मृडित्वा । 'नाम्युपान्त्यः' (५।११५४) इति के मृडः । २० उणादौ ऋचिऋजि० (४८) इति ईके मृडीकं सुखकृत् सुखं च । 'मृडत् सुखने' मृडति । इति डान्तः सेट १ । 'श्रन्थश मोचनप्रतिहर्षयोः' । 'नो व्यञ्जनस्यानुदितः (४।२।४५) इति नलुकि श्रश्नाति । श्रथान । अश्रन्थीत् । शश्रन्थ । 'वा श्रन्थग्रन्थो नलक् च' (४।१।२७) अनयोः स्वरस्यावित्परोक्षासेट्थवोरेत्वं भवति । तत्सन्नियोगे नकारस्य लुक् । न चेत्तौ द्विर्भवतः । श्रेथतुः श्रेथुः पक्षे शश्रन्थतुः शश्रन्थुः । 'स्क्रसृवृ०' (४।४।८१) इतीटि श्रेथिथ शश्रन्थिथ । २५ श्रन्थिता । श्रथितः। कर्मकर्येकधाता (३।४।८६) विति भिक्यात्मनेपदेषु प्राप्तेषु किरादित्वात् 'भूषार्थ०' (३।४।९३) इति क्यव्योरभावे श्रश्नीते माला स्वयमेव । अश्रन्थिष्ट माला स्वयमेव । 'दशनावोधोद्मप्रश्रथहिमश्रथम्' (४।२।५४ ) इति निपातनात् नलुपि प्रश्रयः हिमश्रथः । 'णिवेत्यासश्रन्थघट्टवन्देरनः' (५।३।१११) इत्यने श्रन्थनम् । 'अत्तथ' (४।३।२४) इति क्त्वो वा कित्त्वे अथित्वा श्रन्थित्वा । 'श्रथुङ् शैथिल्ये' श्रन्थते । 'श्रथण सन्दर्भे । 'युजादे' (३।४।१८) ३० इति वा णिचि श्रन्थयति अन्थति । 'मन्थश विलोडने मनाति । हो, मथान । अमन्धीत् । ममन्थ ममन्थतुः । मन्थिता । मथितः २। 'ऋत्तृष०' (४।३।२४) इति क्त्वो वा कित्त्वे मथित्वा मन्थित्वा । मन्थितुम् । घमि मन्थः । उणादौ संस्तुस्पृशिमन्थेरानः (२७६) मन्थानः खजकः । 'मन्थ हिंसासंश्लेशयोः' मन्थति । 'ग्रन्थश सन्दर्भ सन्दर्भो बन्धनम् । प्रश्नाति । हो, प्रथान । ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org