________________
७४० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुणे पर्णम् । कृगपृ० (१८८) इति कित्यणे पुरणः समप्रयिता समुद्रः पर्वतविशेषश्च । भापा० (२९६) इति पे पर्पः प्लवः शङ्खः समुद्रः शस्त्रं च । सुपृप्रथि० (३४७) इत्यमे परमः उत्कृष्टः । ऋजिशृपृभ्यः कित् (५५४) इति किति ईषे पुरीषं विष्ठा । विदिपृभ्यां कित् (५५८) इति उषे पुरुषः पुमान् आत्मा च । पृका० (७२९) इति किदुः पुरुः महान राजा च । नामदिपद्यतिप५ शकिभ्यो वन् (९०४ ) इति वनि पर्वसन्धिः पूरणं पूण्यतिथिश्च । रुद्यति० (९९७) इत्युसि परुः पर्व समुद्रः धर्मश्च । गृपदुर्वि० (९४३) इति किपि पूः पुरी । 'बृश भरणे' वरणे इत्यन्ये, ओष्ठ्यादिः । बृणाति अबारीत् । बबार । 'स्कृच्छृतो०' (४।३।८) इति गुणे बबरतुः बबरुः । 'वृतो नवा०' (४।४।३५) इतीटि वा दीर्घे बरिता बरीता । 'इवृधः' (४।४।४७) इति सनि
वेट बिबरिषति बिबरीषति । 'नामिनोऽनिट' (४।३।३३) इति सनः कित्त्वे, 'ओष्ट्यादुर' (४।४। १० ११७) इत्युरि बुबूषर्ति । किति 'ऋवर्णश्रि०' (४।४।५७) इति नेट् । 'ऋल्वादे.' (४।२।६८)
इति तो नत्वे बूर्णः २ । उणादौ ऋतष्टित् (९) इत्यः सरूपद्वित्वं च बर्बरः म्लेच्छजातिः, बर्बरी कुञ्चितः केशः । वृधूपृ० (७०९) इति नसौ वर्णसिः भूमिः । 'भृश भजने च' भर्जनं पाकः चाद्भरणे' भर्सन इत्यन्ये । भृणाति अभारीत् । बभार बभरतुः । बिभरिषति बिभरीषति बुमूर्षति ।
भूर्णः २ । भूर्णिः । उणादौ ऋतष्टित् (९) इत्यः सरूपद्वित्वं च भर्भरः छद्मवान् भर्भरी श्रीः । १५ किञ्च (१०) इत्यप्रत्यये भुर्भुरः सञ्चयः । 'दृश विदारणे' भय इत्यन्ये । दृणाति अदारीत् । ददार
'ऋः शुदप्रः' (४।४।२०) इति ऋत्वे दद्रतुः गुः । पक्षे ददरतुः ददरुः । दरिता दरीता । दिदरिषति दिदरीषति दिदीर्षति । णौ दारयति । णौ डे 'स्मृदृत्वरप्रथम्रदस्तृस्पशेरः' (४।१।६५) इति सन्वद्भावापवादे अत्वे अददरत् । दीर्णः दीणिः । अचि दरः । गौरादित्वात् उयां दरी । उणादौ कृवापाजि० (१) इत्युणि दारु काष्ठं भव्यं च । ऋतष्टित् (९) इत्यः सरूपद्वित्वं च दर्दरो वाद्य२० विशेषः । दर्दरी सस्यलुण्टिः । दृकृ० (२७) इत्यके दरको भीरुः । जपढ० (४७) इतीके दर्द
रीको वादिनविशेषः । दुरो द्रः कूटश्च दुर् च (१५६) दुपूर्वात् दृणातेः किदूटः उटश्च प्रत्ययौ, दुर्वास्यादेशो भवति । द१रूटो दुर्मुखः । दर्दुरुटः अदेशकालवाची। ऋकृवृधृदारिभ्य उणः (१९६) एभ्यः उणः प्रत्ययो भवति । णौ दारेरिति णिगन्तस्यास्य उणे दारुणः उग्रः । श्वशुर०
(४२६) इत्युरे निपातनात् दर्दुरो मण्डूकः । लटिखटि० (५०५) इति वे दो हिंस्रः । दर्वा २५ जनपदः । स्वरेभ्य इ. (६०६) दरिः महाभिदा । दृपृवृभ्यो विः (७०४) दर्विः तर्दूः। तदभ्यां
दूः (८४६) दर्दू कुष्ठभेदः । शुभसेरद् (८९४ ) दरद् क्षत्रियः । दरदो जनपदः । दरचेषदर्थेऽव्ययम्। प्राकृते दरेत्याल्पे । स एष संस्कृते कविभिन्त्या प्रयुक्तः । 'दरदलितहरिद्रापिञ्जराण्यङ्गकानि' द्रो ह्रखस्य (८९८) इति सदि दृषच्छिला । 'दृ भये' दरति ।
णौ घटादित्वात् ह्रस्खे दरयति । दृणातेर्दारयति । 'जृश वयोहानौ' जृणाति अजारीत् । जजार ३० जजरतुः जजरुः । जरिता जरीता । जीर्णः २ । जीणिः । क्त्वि 'व्रश्च०' (४।४।४१) इतीटि
जरित्वा जरीत्वा । 'जृष्य् जरसि' जीर्यति । षित्त्वादङि जरा । 'जण वयोहानौ' । णिचि जरति जारयति । 'नशु नये' नृणाति अनारीत् ननार ननरतुः ननरुः । क्ये नीयते । नरिता नरीता । नीर्णः २ । नीणिः । अचि नरः । स्त्रियां 'नारीसखीपङ्गेश्वश्रू' (२।४७६) इति निपातनात् ङ्यां
नारी । णौ घटादित्वात् हस्खे नरयति । 'गृश शब्दे' गृणाति अगारीत् । जगार जगरतुः जगरुः । ३५ गरिता गरीता । गीर्णः २ । गीर्णिः । 'न गृणाशुभरुचः' (३।४।१३) इति निषेधादस्य यङ् न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org