________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे ज्यादयः परस्मैपदिनः
७३९ द्वे रूप एषां चादौ रो भवति शहरीका क्रिमिः । शर्शरीका माङ्गल्याभरणम् । शृङ्गशा दयः (९६) इति गे निपातनात् शृङ्ग विषाणं गिरिकूटं च । शाङ्गः पक्षी । पतितमि० (९८) इत्यङ्गे शरङ्गः पक्षिविशेषः । अनिश० (१४५) इत्याटे शराटः शकुन्तः । शृङ्गाट इति तु कपाटविराटशृङ्गाटप्रपुन्नाटादयः (१४८) इत्याटे निपातनात् श्रयतेः । मृजशकम्य मिरमिरपिभ्योऽठः (१६७) इत्यठे शरठः आयुधः । तृकश० (१८७) इत्यणे शरणं गृहम् । परात् श्री डित् (२५५) परपूर्वात् ५ शू इत्यस्मात् डित् वध प्रत्ययो भवति परश्वधः आयुधजातिः । कृशमृभ्यः ऊर चान्तस्य (२९८) इति पे शूर्पः धान्यपवनभाण्डम् । कृशगृ० (३२९) इत्यमे शरभः श्वापदविशेषः । अर्तीरि० (३३८) इति मे शर्म सुखम् । धामाजिशूरमियाज्यर्तेरन्यः (३७९) इत्यन्यप्रत्यये शरण्यखाता । कृशप० (४१८) इतीरे शरीरम् । श्वशुरकुकुन्दुर० (४२६) इत्युरे निपातनात् श इत्यस्य गुणः कोऽन्तश्च । शर्करस्तरुणः । किशृवृभ्यः करः (४३५) इति करप्रत्यये शर्करा । कगृश० (४४१) १० वरटि शर्वरः सायाह्रो रुद्रो हिंस्रश्च । शर्वरं तमः अन्नं च । शर्वरी रात्रिः । श्री नोन्तो हवश्व (४९८) इति खले शृङ्खला । लटिखटि० (५०५) इति वे शर्वो रुद्रः। शृणातेरावः (५२०) शरावः । ऋजिशृपृभ्यः कित् (५५४) इति किति ईथे शिरीषो वृक्षः । नाम्युपान्त्य० (६०९) इति किदिः शिरिः हिंस्रः । कृशकुटि० (६१९) इति वा णिदिः शारिः द्यूतोपकरणं हस्तिपर्याणं शारिका च । शरिः हिंसा शूलश्च । ऋघृशस्तृमृकुवृषिभ्यः कित् (६३५) इति किति णौ १५ शीर्णिः रोगः अवयवश्च । नीसावृयुशवलिदलिभ्यो मिः (६८७) इति मौ शर्मिः मृगः । कुन्द्रि० (६९५) इति रौ निपातनात् शरारि आतिः । जश० (७०५) इति ङिति वौ शीविः हिंस्रः । भृमृतृ० (७१६) इत्युः शरुः शरः क्रोधः आयुधं हिंस्रश्च । उवर्ण इति ये शरवे हितं शरव्यं वेध्यम् । किमः श्रो णित् (७२५) इत्युः किंशारुः धान्यशूकम् । ऋतृशमृत्रादिभ्यो रो लश्च (७२७) एभ्यो णिदुः प्रत्ययो रेफस्य च लकारो भवति शालुः कषायो हिंस्रश्च । पराड्भ्यां ख-२० निभ्यां डित् (७४२) पराङ्पूर्वाभ्यां यथासङ्ख्यं शुखनिभ्यां डिदुः प्रत्ययो भवति । परान् शृणाति परशुः कुठारः आखुः । शुभसेरत् (८९४) शरत् ऋतुः । मन् ( ९११) सर्वत्र धातुभ्यो बहुलं मन् प्रत्ययो भवति इति मनि शर्म सुखम् । मिथिरञ्जि० (९७१) इति कित्यसि शिरः । 'प्रश पालनपूरणयोः' । पृणाति अपारीत् पपार । '
ऋप्रः ' (४।४।२०) इति ऋत्वे निपप्रतुः निपपः। पक्षे 'स्कृच्छृतो.' (४।३।८) इति गुणे पपरतुः पपरुः । पूर्यात् 'वृतो नवा०' (४।४।३५) इतीटो२५ वा दीर्घे परिता परीता । पिपरिषति पिपरीषति पुपूर्षति । पोपूर्यते । पापरीति पापर्ति पापूतः पापुरति । पापरीषि पापर्षि । क्ये पापूर्यते । पापूर्यात् । पापरीतु । अपापः अपापरीत् अपापूर्ती अपापरुः । अपापः अपापराः पारयति अपीपरत् । शतरि पृणत् पृणन्ती । कसौ निपपृवान् । काने निपप्राणम् । पक्षे निपुपूर्वात् निपुपुराणम् । किति 'ऋवर्णभिः' (४।४।५७) इति नेट् । 'ऋल्वादे.' (४॥२॥ ६८) इत्यत्र प्रो वर्जनात्तो नत्वाभावे पूतः पूर्तिः । णौ दान्तशान्तपूर्ण०' (४।४।७४) इति ते ३० निपातनमस्यापीत्येके पूर्णः । पारितः । अस्मादेव निपातनात् पूरेो पूर्णः पूरितः । ण्यभावे तु पूर्णः । 'युवर्ण०' ( ५।३।२८) इत्यलि परः । उणादौ पपलिभ्यां टित् पिप् च पूर्वस्य (११) आभ्यां दित् अ: प्रत्ययो भवति, अनयोश्च सरूपे द्वे भवतः। पूर्वस्य स्थाने पिप् इत्यादेशो भवति । पृणाति छायया पिप्परी वृक्षजातिः । किञ्च (१०) ऋकारान्ताद्धातोर्यथादर्शनं किदकारः प्रत्ययो भवति धातोश्च सरूपे द्वे रूपे भवतः । पूर्यते जलघातेन पुर्पुरः फेनः । इणुर्विश० ( १८२) इति ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org