________________
७३८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुजेजीयते । जेजेति जेजयीति । णौ ज्यापयति । णौ डे अजिज्यपत् । जिनन् जिनन्तौ जिनतीति जीवान जिज्यानं जित्वा । 'ज्यश्च यपि' (४।११७६) ज्या इत्यस्य वेगश्च यपि परे य्वृन्न भवति प्रज्याय । जिन इति जीणशी० (२६१) किति ने जयतेः । इत्याकारान्त एकः। 'रीश गतिरेषणयोः' रेषणं हिंसा 'प्वादे' (४।२।१०५) रिति हवे रिणाति अरैषीत् रिराय 'योऽनेकस्वरस्य' ५(२।१५६) इति यत्त्वस्य बहिरङ्गत्वेन भ्वादेरिति दीर्घमन्तरङ्गं प्रत्यसिद्धत्वात् पूर्वस्य दीर्घाभावे रिर्यतुः रियुः । णौ 'अति०' (४।२।२१) इति पौ 'पुस्पौ' (४।३१३) इति गुणे रेपयति । णौ डे अरीरिपत् । 'लींश श्लेषणे' लीनाति 'यबक्कुिति' (४।२।७) लीलिनोऽ' (४।२।९) इति वा आत्वे व्यलासीत् व्यलैषीत् । लिलाय लिल्यतुः । विलाता विलेता । विलास्यति . विलेष्यति । सनि लिलीपति । लेलीयते लुप्ततिनिर्देशात् यङ्लुपि न आः, लेलेति लेलयीति । णौ 'लीङ्लिन०' १०(३।३।९०) इत्यात्मनेपदे आत्वे च जटाभिरालापयते । श्येनो वर्तिकामुल्लापयते अभिभवतीत्यर्थः । 'लो लः (४।२।१६) इति ले विलालयति । पक्षे 'अतिरी० (४।२।२१) इति पौ विलापयति । 'लियो० (४।२।१५) इति ने विलीनयति । पक्षे 'नामिन०' (४।३।५१) इति वृद्धौ विलाययति । तो नत्वे लीनः २ । लीनिः । 'लीङ्च् श्लेषणे' लीयते । 'लीण् द्रवीकरणे' युजादि
त्वाद्वा णिचि विलीनयति विलयति । यपि वा आत्वे विलाय विलीय । 'व्लीश वरणे' गतावि. १५त्यन्ये । ब्लिनाति । अग्लैषीत् । विव्लाय । 'संयोगात्' (२।११५२) इतीयादेशे विलियतुः ।
लेता । व्लीनः २ । व्लीनिः । णौ 'अतिरी०' (४।२।२१) पौ ब्लेपयति । 'ल्वींशु गतौ' ल्विनाति । अल्वैषीत् । लिल्वाय लिल्वियतुः । ल्वेता । ल्वीनः २ । प्वादित्वमस्य नेच्छन्त्येके तन्मते ल्वीनाति । 'ऋल्वादे' (४।२।६८) नत्वाभावे ल्वीतः २ ल्वीतिः । 'ल्पीश श्लेषणे'
इत्यप्येके पठन्ति 'वादे' (४।२।१०५) रिति हखे ल्पिनाति अल्पैषीत् । लिल्पाय लिल्पियतुः । २० ल्पीनः २ । ल्पीनिः । इति ईदन्ताश्चत्वारोऽनिटः । 'कृ मृ शृश हिंसायाम्' । कृणाति अकारीत्
चकार । 'स्कृच्छृत०' (४।३।८) इति गुणे चकरतुः । 'वृतो नवा०' (४।४।३५) इतीटो वा दीर्घः करिता करीता । किति 'ऋवर्णश्रि०' (४।४।५७) इति नेट् कीर्णः २ कीर्णिः । 'इवृध.' (४।४।४७) इति सनि वेट् चिकरिषति चिकरीषति चिकीर्षति । उभयपदिषु पठितोऽप्ययं फल
वत्कर्तरि परस्मैपदार्थमिह पठितः । 'कृत् विक्षेपे' किरति । मू, मृणाति । अमारीत् ममार ममरतुः २५ मरिता मरीता । मूर्णः मूर्णवान् । मूर्णिः । उणादौ म्र उत् (८८९) मरुत् वायुर्देवो गिरिशिखरं
च इति धातुपारायणे । उणादिविवरणे तु 'भृत् प्राणत्यागे' इत्यस्य रूपमुक्तम् । गृ शृणाति व्यशारीत् विशशार । 'ऋः शृदृपः' (४।४।२०) एषां धातूनां परोक्षायां ऋकारोऽन्तादेशो भवति विशश्रतुः । पक्षे 'स्कृच्छ्रत०' (४।३।८) इति गुणे विशशरतुः । विशरिता विशरीता । शीर्णः
२ । शीर्णिः । अचि शरः । सनि शिशरीषति शिशरिषति शिशीर्षति । विशारयति । व्यशीशरत् । ३० क्ये शीर्यते । शाशीर्यते । शाशरीति शाशति । कसौ वा ऋकारादेशे विशशृवान् । विशश्राणः । पक्षे विशिशीर्वान् विशशिराणः । शीर्वा । विशीर्य । 'शवन्देरारुः' (५।२।३५) इत्यारौ शरणशीलः शरारुः । 'शकमगमहनवृषभूस्थ उकण्' (५।२।४०) विशारुकः । 'पुन्नाम्नि घः' (५।३।१३०) इति घे शृणन्ति तेन शरः । 'श्रोर्वायुवर्णनिवृते' (५।३।२०) इति घनि शारो वायुः वर्णश्च ।
नीशारः हिमानिलापहं वस्त्रम् । 'गौरिवाकृत नीशारः प्रायेण शिशिरे कृशः' । उणादौ किञ्च (१०) ३५ इति किदः धातोः रूपद्वित्वं च शिशिरः । जुपदृवृमृभ्यो द्वे रश्चादौ (४७) एभ्यः इकः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org