________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे ऋयादयः परस्मैपदिनः
७३७
1
सन्वद्भावे 'स्मृदृत्वरप्रथम्र दस्तस्पशेर:' ( ४|१|६५ ) इति पूर्वस्य अत्वे अतस्तरत् । 'ऋवर्ण ०' ( ५।१।१७ ) इति व्यणि आस्तार्यः । 'अयज्ञे खः' ( ५।३।६८ ) इत्यलपवादे घञ शङ्खप्रस्तारः । यज्ञे तु बर्हिः प्रस्तरः । 'वेरशब्दे प्रथने' ( ५।३।६९ ) इति घनि पटस्य विस्तारः । शब्दे तु 'दधातु तुष्टिं मयि विस्तरो गिराम्' । छन्दोनाम्नि विष्टारः पतिः । वृक्षासनयोर्विष्टरः । ' वेः स्त्र: ' (२।३।२३) इति षत्वम् । ‘अवात् तृस्तृभ्याम् ' ( ५|३|१३३ ) इति करणे आधारे घनि अवस्तारः । अलि घे५ वा आस्तरो वस्त्रभेदः । तृस्तृतन्द्रितत्रयविभ्य ई: ( ७११ ) स्तरीः तृणं धूमो नदीशय्या च । सहभृधृस्तृसूभ्य ईमन् ( ९१८) इतीमनि स्तरीमा प्रावारः । ' कृग्शू हिंसायाम्' । कृणाति कृणी । अकरीत् अकरीषुः । अकरीष्ट अकीष्ट । चकार । 'स्कृच्छ्रतोऽकि परोक्षायाम् ' ( ४।३।८ ) इति गुणे चकरे । करिता करीता । सनि 'इवृध ० ' ( ४।४।४७ ) इति वेदि चिकरिषते कीर्णिः । कीर्णः २ । क्ये कीर्यते । उणादौ कृशृ ० ( ४४१ ) इति वरटि कर्वरो व्याघ्रः विष्किरः अञ्जलिश्च । कर्बरी १० भूमिः शिवा च । कॄपृकटि ० ( ५८९ ) इत्यहे करहः धान्यावपनम् । ह्रस्वान्तोऽयमित्येके 'कृत् विक्षेपे किरति । वृ॒ग्श् इति । वृणाति वृणीते इत्यादि स्पष्टम् । वर्णिः वर्णः २ । सनि ' इवृध ० ' (४।४।४७ ) इति वेट विवरिषति विवरीषति वुवर्षति । यङि वावूर्यते । वावरीत वावर्त्ति वावूर्त: । वावुरति । णौ वारयति । णौ ङे अवीवरत् । कसौ वुवूर्वान् । काने ववराणः । वूर्खा । प्रवूर्य । उणादौ ऋकृवृधृदारिभ्य उणः ( १९६ ) इत्युणे वरुणः प्रचेता । ह्रस्वान्तोऽयमिति नन्दी । १५ इत्युभयपदिनः १६ ॥ ॥ ५॥
।
1
1
'ज्यांशू हानौ' ज्याव्यधः क्वितीति वृति ।
ज्यांशू हानौ इति । वयोहानावित्येके । वृति सति सूत्रम्
दीर्घमवोन्त्यम् ॥ ६ ॥ [ सि० ४।१।१०३ ]
वेगवर्जस्य दन्त्यं दीर्घं स्यादिति दीर्घे, प्वादेरिति हस्खे च, जिनाति ४ । अज्यासीत् ५ । २० ज्याव्याधिवचेरिति पूर्वस्य इत्वे, जिज्यौ ६ । जीयात् ७ । ज्याता ८ । ज्यास्यति ९ । 'बन्धंश् बन्धे' बध्नाति । बधान ४ । अभान्त्सीत् ५ । बबन्ध ६ । बध्यात् ७ । बन्दा ८ । भन्त्स्यति ९। 'अशशू भोजने' अश्नाति । अशान ४ । आशीत् ५ । आश ६ | अश्यात् ७ । अशिता ८ । 'मुषश् स्तेये' मुष्णाति मुषाण ४ अमोषीत् ५ मुमोष ६ मुष्यात् ७ मोषिता ८ एवं 'पुषश् पुष्टौ ' पुष्णाति १० । इत्यादि । 'ज्ञांश अवबोधने' । जाज्ञाजनोऽत्यादौ । जानाति ४२५ अज्ञासीत् ५ जज्ञौ ६ ज्ञायात् ज्ञेयात् ७ ज्ञाता ८ ज्ञास्यति ९ अज्ञास्यत् १० । ज्ञो ( ३।३।८२ )कर्मत्वे आत्मनेपदम् । जानीते ॥ ६ ॥
* इति परस्मैपदिनः । 93
इति महोपाध्यायश्री कीर्तिविजय गणिशिष्योपाध्याय श्री विनयविजयगणिविरचितायां हैमलघु प्रक्रियायां क्यादयः समाप्ताः ।
३०
'दीर्घ'०' वेगवर्जनात् उतः उतवान् इत्यादौ दीर्घो न भवति । अन्त्यमिति किम् ? सुप्तः उप्तः । परोक्षायां थवि 'सृजिदृशि ० ' ( ४।४।७८) इति वेटि जिज्यिथ जिज्याथ | अणपवादे 'आतो ड०' (५।१।७६ ) इति डे ब्रह्मभ्यः । 'ऋत्वादेः ० ' ( ४। २ । ६८ ) इति ने जीनः २ । क्तिमपीच्छन्त्येके जीनि: । 'ग्लाहाज्य:' ( ५।३।११८ ) एभ्यो भावे निः स्यात् । ज्यानिः । सनि जिज्यासति । यङि ३४ है० प्रका० उत्त० ९३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org