________________
७३६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहै मलघु
'प्वादे.' अत्यादाविति-तिवादिश्चेदनन्तरो न भवति । यथा पोपोति पोपवीति । अन हस्खो न भवति । किति 'उवर्णात्' (४।४।५८) इति नेट् पूतः २ । 'पूदिव्यश्वेन शायूतानपादाने' (४।२।७२) पू-दिव-अञ्च इत्येतेभ्यो यथासङ्ख्यं नाशे द्यूतेऽनपादाने चार्थे परस्य क्तस्य नः स्यात् । पूना यवा विनष्टा इत्यर्थः । आयूनः । 'आधुनः स्यादौदरिकः विजिगीषाविवर्जिते' इत्यभिधान५चिन्तामणौ । समनौ शकुनेः पक्षौ सङ्गतावित्यर्थः । नाशाद्यूतानपादान इति किम् ? पूतं धनम् । उक्तं जलं कूपात् । कथं व्यक्तमञ्जर्भविष्यति । 'पुव इत्रो दैवत' (५।२।८५) इति इत्रे पवित्रोऽर्हन् । 'ऋषिनाम्रोः करणे' (५।२।८६) पवित्र ऋषिः । पवित्रं दर्भादि । 'हलक्रोडास्ये पुवः' (५।२।८९) इति त्रुटि हलसूकरयोः पोत्रं मुखमित्यर्थः । 'निरभेः पूल्वः' (५।३।२१) इति पनि निष्पावः 'न ख्यागपूग्०' (२।३।९०) इति निषेधात् स्वरादिति णत्वाभावेऽनटि प्रपवनम् । परि१०पवनम् । णौ णेवा' (२।३।८८) इति णत्वविकल्पाभावे प्रपावनम् । परिपावनम् । उणादौ हुपूगो
नीप्रस्तुप्रतिहप्रतिप्रस्थाभ्य ऋत्विजि (८६३) इति तृप्रत्यये पोता ऋत्विगित्यर्थः । पुत्रादयः (४५५) इति सूत्रेण निपातनात् पुनाति पवते वा पितृपूतिमिति पुत्रः । यदाहुः 'पूतीति नरकस्याख्या दुःखं च नरकं विदुः । पुन्नानो नरकात्रायते इति व्युत्पत्तिस्तु संज्ञाशब्दानामनेकधा
व्याख्यानं लक्षयति । 'पूङ् पवने' पवते । त्यादिषु 'पूग्श् पवने' इत्यारभ्य वृत्करणपर्यन्ताः प्वाद१५ यस्ततः परेषां ह्रस्वो न भवति । यथा वीणाति भ्रीणाति । आगणान्तात् प्वादय इत्यन्ये । वृत्करणं
ल्वादिपरिसमात्यर्थम् । तन्मते त्रिणातीत्येव भवति । जानातीत्यत्र विधानसामर्थ्यात् न ह्रस्वः । - अथ प्वाद्यन्तर्गण एकविंशतिको ल्वादिः ऋल्वादेः (४।२।६८) इति नत्वार्थः प्रदश्यते । - ____ 'लूग्श छेदने' लुनातीत्यादि सर्व व्यक्तम् । सनि 'ग्रहगुहश्च सनः' (४।४।५९) अहिगुहिभ्या. मुवर्णान्ताच्च धातोर्विहितस्य सन आदिरिड्वा भवति । लुलूषति । पुपूषति । णौ सनि 'ओर्जान्तस्था२०पवर्गेऽवणे' (४।१६६०) धातोत्वेि सति पूर्वस्योकारान्तस्याऽवर्णान्ते जान्तस्थापवर्गे परतः सनि परे इकारोऽन्तादेशो भवति । लिलाव यिषति । णौ डे 'असमानलोपे०' (४।१।६३) इति सन्वत्त्वे अलीलवत् । 'उवर्णात् (४।४।५८) उवर्णादेकस्वराद्धातोर्विहितस्य कित इड् न भवति । 'अल्वादेरेषां तो नोऽप्रः' (४।२।६८) पूर्जितादृकारान्ताद्धातोर्खादिभ्यश्च परेषां क्तिक्तक्तवतूनां
तो नः स्यादिति नत्वे लूनिः । लून: २ । 'पुसल्वोऽकः साधौ' (५।१।६९) इत्यके साधु लुनाति २५ लवकः । 'लूधूसूखनिचरसहार्तेः' (५।२।८७) इतीत्रे लूयतेऽनेन लवित्रम् । 'निरभेः पूल्वः'
(५।३।२१) इत्यलपवादे घमि अभिलावः । उणादौ धालूशियिभ्य (७०) इत्याणकप्रत्यये लवाणकः कालः तृणजातित्रिं च । लूम्रो वा (२०२) इति ते तस्य च वा कित्त्वे लूता क्षुद्रजन्तुः । पक्षे लोतः बाष्पं लवनं वस्तः कीटजातिश्च । स्वरेभ्यः (६०६) इत्यौ लवित्रिम् । लू५० (६७९)
इति किति नौ लूनिः लवनम् । मनि लोम । धूग्श् इति । सिचि 'धूगौदितः' (४।४।३८) इती. ३० विकल्पे प्राप्ते 'धूग्सुस्तोः परस्मै' (४।४।८५) एभ्यः परस्य सिचः परस्मैपदे नित्यमित् । अधावीत्
अधाविष्टां अधाविषुः । आत्मनेपदे तु इविकल्पे अधोष्ट अधविष्ट । 'ऋल्वादे०' (४।२।६८ ) इति तो नत्वे धूनिः धूनः २ । 'धूग्ट् कम्पने' धूनोति । 'धून विधुनने' धूवति । 'धूग्ण कम्पने' युजादित्वाद्वा णिचि धूनयति धवते धवति । इत्यूदन्तास्त्रयः सेटः । स्तृग्श इति । आशिष्यात्मनेपदे
आस्तरिषीष्ट । आस्तीर्षीष्ट । सनि 'इवृधः' (४।४।४७) इति वेटि आतिस्तरिषति आतिस्तीर्षति । ३५ किति 'ऋवर्णश्रि०' (४।४।५७) इति नेट् । 'ऋल्वादे'रिति नत्वे आस्तीणिः आस्तीर्णः २ । णौ डे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org