________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे ज्यादय उभयपदिनः
७३५ र्भावाकोंर्घम् भवति । अलोऽपवादः। उदाहः । उद् इत्येव ग्रहः विग्रहः । 'न्यवाच्छापे ( ५।३।५६) न्यवाभ्यां पराच्छापे आक्रोशे गम्ये ग्रहे वाकोंर्घञ् भवति । निग्राहो हते वृषल भूयात् । अवग्राहो हते जाल्म भूयात् । शाप इति किम् ? निग्रहश्चौरस्य । अवग्रहः पदस्य । 'प्राल्लिप्सायाम्' (५।३।५७) प्रपूर्वाग्रहेर्लिप्सायां गम्यायां भावाकोंर्घञ् भवति । पात्रग्राहेण चरति पिण्डपातार्थी भिक्षुः । सुवयस्य प्रमाहेण चरति दक्षिणार्थी द्विजः । लिप्सायामिति किम् १५ खुवः प्रग्रहः । (स्रुवस्य ग्रहः) । 'समो मुष्टौ' (५।३।५८) सम्पूर्वागृहेर्मुष्टिविषये धात्वर्थे भावाकोंर्घञ् भवति । मुष्टिरङ्गुलिसन्निवेशो न परिमाणम् । तत्र 'माने' इत्येव सिद्धत्वात् । संग्राहो मल्लस्य । अहो मौष्टिकस्य सङ्ग्राहः । मुष्टेर्दाळमुच्यते । मुष्टाविति किम् ? संग्रहः शिष्यस्य । 'यज्ञे ग्रहः' (५।३।६५) परिपूर्वाद्वहेर्यज्ञविषये प्रयोगे भावाकोंर्घञ् भवति । पूर्वपरिग्राहः उत्तरपरिग्राहः । वेदेर्यज्ञाङ्गभूताया ग्रहणविशेष एताभ्यामभिधीयते । यज्ञ इति किम् ? परिग्रहः कुटुम्बिनः।१० स्त्रियां क्तौ 'तेर्ग्रहादिभ्यः' (४।४।३३) इतीटि गृहीतिः निगृहीतिः । 'कृग्ग्रहोऽकृतजीवात्' (५।४।६१) अकृतजीव इत्येताभ्यां व्याप्याभ्यां यथासङ्खयं करोति गृह्णातिभ्यां तस्यैव धातोः सम्बन्धे सति णम्वा भवति । अकृतकारं करोति, अकृतं करोतीत्यर्थः । जीवग्राहं गृह्णाति, जीवन्तं गृह्णातीत्यर्थः । 'हस्तार्थाद्ववर्तिवृतः' (५।४।६६) हस्तार्थात् करणवाचिनः शब्दात् परेभ्यो ग्रहवर्त्तिवृद्भ्यस्तस्यैव धातोः सम्बन्धे णम्वा भवति । हस्तग्राहं गृह्णाति, एवं करग्राहं पाणिग्राहम् । १५ हस्तेन गृह्णातीत्यर्थः । एवं हस्तवतं ३ वर्त्तयति हस्तेन वर्त्तयतीत्यर्थः । हस्तवत्तं ३ वर्त्तते हस्तेन वर्त्तते इत्यर्थः । वर्त्तिवृत इति वर्ततेय॑न्तस्याऽण्यन्तस्य च ग्रहणम् । अण्यन्तानेच्छन्त्येके । 'नाना ग्रहादिशः' (५।४।८३) नामशब्देन द्वितीयान्तेन योगे तुल्यकर्तृकेऽर्थे वर्तमानाबहेरादिशश्च धातोः सम्बन्धे णम्वा भवति । नामानि ग्राहं नामग्राहमाह्वयति । नाम्नी देवदत्तो ग्राहं नामग्राहं देवदत्त आह्वयति । 'यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन स' इति न्यायादेवदत्तव्यवधानेऽपि भवति । २० नामान्यादेशं नामादेशं ददाति । पक्षे नाम गृहीत्वा नामादिश्य दत्ते । सर्वत्रात्र 'तृतीयोक्तं वा' (३।१।५०) इति समासः । उणादौ ऋहृमृ० (६३८) इत्यणौ ग्रहणिः प्रवाहिका । इति हान्तः । __ अथ ज़्याद्यन्तर्गणः प्वादिः प्वादेईस्वः (४।२।१०५) इति ह्रस्वप्रयोजनो द्वाविंशतिक: प्रदर्यते । 'पूग्श पवने' इति । पवनं शुद्धिः। शेषं स्पष्टम् । सूत्रम्
प्वादेह्रखः ॥ ५॥ [सि० ४।२।१०५] प्वादेः शित्यत्यादौ हवः स्यात् । पुनाति ४ । अपावीत् ५। पुपार ६ । पूयात् ७। पविता ८ । पुनीते ४ । अपविष्ट ५। पुपुवे ६ । पविषीष्ट ७ । पविष्यते ९ । अपविष्यत १० । एवं 'लूग्श छेदने' लुनाति १० । लुनीते १० । 'धूग्श कम्पने' धुनाति १० । धुनीते १० । 'स्तग्श आच्छादने' प्वादित्वात् हस्खे, स्तृणाति ४ । अस्तारीत् ५। तस्तार ६ । स्तीर्यात् ७ । स्तरिता-स्तरीता ८ । स्तुणीते ४ । इसिजाशिषोरिति वेटि, वृतो नवेति दीपे, ३० अस्तरिष्ट अस्तरीष्ट । ऋवर्णादिति सिचः कित्त्वे, अस्तीष्ट ५ । 'वृग्श वरणे' वृणाति ४ । अवारीत् ५ । ववार ६ । र्यात् ७ । वरिता-वरीता ८ । वृणीते ४ । अवरिष्ट-अवरीष्ट-अवृष्ट ५। स्कृच्छृतोऽकि सति गुणे, ववरे ६ । वरिषीष्ट-चूर्षीष्ट ७ ॥५॥
* इत्युभयपदिनः ।*
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org