________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअग्रहीदम् अग्रहीध्वम् ५ । जगृहे जगृहिद्वे-ध्वे ६ । ग्रहीपीष्ट ग्रहीपीदम्-ध्वम् । 'पूग्श पवने ॥४॥
'गृहो.' स्पष्टम् । 'न श्वि०' (४।३।४९) इति वृद्धिनिषेधे इति 'व्यञ्जनादेवोपान्त्यस्यातः' (४।३।४७) इति प्राप्ताया वृद्धेः 'न श्विजागृशसक्षणम्हयेदितः' (४।३।४९) इति निषेधे सतीत्यर्थः । ५दीर्घस्य स्थानिवद्भावादिति न चायं वर्णविधिः इट इति वर्णसमूहाश्रयत्वात् । विहितविशेषणं किम् ? यङन्ताद्विहितस्य मा भूत् । जरीगृहिता । जरीगृहितुम् । लुप्ततिनिर्देशात् यङ्लुपि न भवति जरीगर्हिता । जरीगल्तुिम् । अपरोक्षायामिति किम् ? जगृहिम । 'रुदविद० (४।३।३२) इति क्त्वासनोः कित्त्वे गृहीत्वा । 'ग्रहगुहश्च० (४।४।५९) इति सनि इडिषेधे जिघृक्षति । भावकर्मणोः 'स्वरग्रहदृशहन्भ्यः स्यसिजाशीःश्वस्तन्यां बिड् वा' (३।४।६९) इति वा मिटि ग्राहिष्यते ग्रहिष्यते । १० अग्राहिषाताम् अग्रहिषाताम् । ग्राहिषीष्ट अहिषीष्ट । ग्राहिता ग्रहिता । ‘पदास्वैरिबाह्यापक्ष्ये ग्रहः'
(५।१।४४) एज्वर्थेषु ग्रहः क्यप् स्यात् । ध्यणोऽपवादः । प्रगृह्यते विशेषेण ज्ञायते प्रगृह्यं पदम्यत् स्वरेण न सन्धीयते, अग्नी इति । अवगृह्यते नानावयवसात्क्रियते अवगृह्यं पदम् यथा पच् शव तिव् इत्यवयवाः । अस्वैरिणि, गृह्यन्ते इति गृह्याः परतत्राः गृह्याः कामिनः रागादिपरतत्रा इत्यर्थः ।
बाह्यायां ग्रामगृह्या श्रेणिः । नगरगृह्या सेना बाह्येत्यर्थः । स्त्रीलिङ्गनिर्देशो लिङ्गान्तरेऽनभिधानख्याप१५नार्थः । पक्ष्ये त्वया गृह्यते । मया गृह्यते इति त्वद्गृह्या मद्गृह्याः । गुणगृह्या वचने विपश्चितः, तत्पक्षाश्रिता इत्यर्थः । एध्विति किम् ? ग्राह्यं वचः। 'गेहे ग्रहः' (५।११५५) गेहेऽभिधेये ग्रहः को भवति गृहं गृहाणि । गृहाः पुंसि बहुवचनान्त एव । दुर्गस्त्वेकवचनान्तमेवाह । उपचारादारा गृहाः। 'वा ज्वलादि दुनीभूग्रहास्रोणः' (५।१।६२) इति णे व्यवस्थितविभाषेयम् । तेन ग्राहो जलचरो
मकरादिः । पक्षे विग्रहः । अनुपसर्गादित्येव । प्रग्रहः शुचिमरीचिदीप्तयः । 'ग्रहादिभ्यः०' (५।१। २०५३) इति णिनि ग्राही । असरूप इति णके ग्राहकः । तृचि गृहीता 'धनुर्दण्डत्सरुलाङ्गलाङ्कुशर्टि
यष्टिशक्तितोमरघटाग्रहः' (५।१।९२) एभ्यः परागृहेरच् स्यात् । धनुर्गेहाति । धनुर्ग्रहः । दण्डग्रहः । सरुग्रह इत्यादि । 'सूत्राद्धारणे' (५।१।९३) सूत्रं कर्पासादि । लक्षणसूत्रं वा विशेषेण गृह्यते । सूत्रात्कर्मणः परागृहेर्ग्रहणपूर्वके धारणेऽर्थे वर्तमानादच् प्रत्ययो भवति । सूत्रं गृह्णाति
सूत्रगृहः प्राज्ञः सूत्रधारो वा सूत्रमुपादाय धारयतीत्यर्थः । अन्ये त्ववधारण एवेच्छन्ति तन्मते २५ सूत्रग्रहः प्राज्ञ एवोच्यते । धारण इति किम् ? सूत्रग्राहः । 'कर्मणोऽण्' (५।१।७२) इत्यण् । यो हि सूत्रं गृह्णाति न तु धारयति स एवमुच्यते । 'रजःफलेमलाग्रहः' (५।१।९८) एभ्यः कर्मभ्यः परागृहेरिर्भवति । रजोग्रहिः कञ्चकः । फलेग्रहिवृक्षः । सूत्रनिर्देशादेत्वम् । मलग्रहिः कम्बलः । रजोमलाभ्यां केचिदेवेच्छन्ति । 'मुग्लहः प्रजनाक्षे (५।३।३१) प्रजनाक्षविषये
धात्वर्थे वर्तमानाभ्यां सर्तिग्लहिभ्यां भावाकोरल् भवति । गवामुपसरः । प्रजनो गर्भग्रहणम् । ३० तदर्थं स्त्रीषु पुंसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लहो ग्रहणमित्यर्थः । अहेः सूत्रनिपातनात्
लत्वम् 'यहूङ् ग्लहूङ् अदने' इति ग्लहिः प्रकृत्यन्तरं वा । प्रजनाक्ष इति किम् ? उपसारो भृत्यै राज्ञाम् । प्रहः ग्लहो वा पादस्य 'वर्ष विघ्नेऽवादग्रहः' (५।३।५० ) अवपूर्वागृहेर्वर्षविघ्ने वाच्ये भावाकोरल्वा भवति । अवग्रहोऽवग्राहो वा वृष्टिप्रतिबन्धः । अन्यत्र अवग्रहोऽर्थस्य 'प्रारश्मि
तुलासूत्रे (५।३।५१) प्रपूर्वाग्रहेरेष्वर्थेषु भावाकोरल् वा भवति प्रगृह्यते इति प्रग्रहः । ३५ अश्वादेः संयमनरजुस्तुलासूत्रं चोच्यते । अन्यस्तु प्रमाहः । 'ग्रहः' (५।३।५५) उत्पूर्वाग्रहे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org