________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे ज्यादयः उभयपदिनः
७३३ 'नाम्युपान्त्य०' (५।११५४) इति के प्रियः । 'प्रीच् प्रीतौ' प्रीयते । 'प्रीगण् तर्पणे' 'युजादेः०' (३।४।१८) इति वा णिचि (प्रीणयते प्रीणयति) प्रयते प्रयति । 'श्रींग्श पाके' श्रीणाति श्रीणीते । शिश्राय शिश्रिये । श्रेता । श्रीतः २ । 'मींग्श हिंसायाम्' एकदेशविकृतस्यानन्यत्वात् प्रमीणीते ॥ १ ॥ अविति सूत्रम्
मिग्मीगोऽखलचलि ॥२॥[सि० ४।२।८] अनयोर्यपि खल अच् अल वर्जेविति च विषये आः स्यात् । अमासीत ५ । ममौ मिम्यतुः। ममिथ-ममाथ ६ । मीयात् ७ । माता ८ । प्रमीणीते ४ । अमास्त ५ । मिम्ये ६॥ मासीष्ट ७ । 'ग्रहीश उपादाने' ग्रहव्रश्चेति स्वृति, गृह्णाति १ । गृहीयात् २ । गृह्णातु ३ । ॥२॥
'मिग्मी.' अयं भावः । मिनोतिमीनात्योर्यपि खलचल्वर्जितेऽविति च विषयभूते आकारोऽन्तादेशो भवति । यथा निमाय निमाता निमातुम् निमातव्यम् न्यमासीत् । 'मीग्श हिंसायाम्'।१० प्रपूर्वः प्रयुज्यते । प्रमाय प्रमाता प्रमातव्यम् प्रमातुम् प्रामासीत् । अखलचलीति किम् ? ईषन्निमयः दुःप्रमयः । अचि मयः प्रमयः । सानुबन्धनिर्देशो यङ्लुपि निवृत्त्यर्थः निमेमेति । यबकृित्येव । निमितः २ प्रमीतः २ । निमेमीयते प्रमेमीयते । मिग्मीग इति किम् ? 'मीच् हिंसायाम्' इति देवादिकस्य मा भूत् मेता मेतुम् । अस्याप्यात्वमिच्छन्त्यन्ये माता मातुम् । विषयव्याख्यानात् प्रागात्वे पश्चात् द्वित्वे ममौ इति । 'शासूयुधि०' (५।३।१४१) इति खलपवादेऽने दुर्मानम् सुमा-१५ नम् । णौ प्रमापयति । अमीमयत् । मीतः २ । मीत्वा मिमीषति । मिमापयिषति । उणादौ मीमसि० (४२७) इत्यूरे बाहुलकानात्वं मयूरः । इति ईदन्तास्त्रयोऽनिटश्च । 'युंग्श बन्धने' युनीते युनाति । अयौषीत् अयोष्ट । युयुवे युयाव । योता । 'स्कुंग्श आप्रवणे' 'स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कोः ना च' (३।४।७८) स्तम्भ्वादिभ्यश्चतुर्यो वक्ष्यमाणेभ्यः सौत्रेभ्यो धातुभ्यः स्कुगश्च कर्तरि विहिते शिति भा भ्रुश्च प्रत्ययो भवति । स्कुनाति स्कुनीते स्कुनुते । इति उदन्तावनिटौ । 'नग्श २० शब्दे' । कुनीते नाति । अनविष्ट अनावीत् । चुकवे चुनाव । नुविता । किति उवर्णात्' (४।४। ५८) इति नेट् नूतः २ । क्रूत्वा । 'दूग्श हिंसायाम्' गतावित्यन्ये, । द्रूणीते द्रूणाति । अद्रविष्ट अद्रावीत् दुद्रुवे दुद्राव द्रविता द्रवितुम् । इत्यूदन्तौ सेटौ। 'ग्रहीश उपादाने' इति । उपादानं स्वीकारः। गृह्णातीत्यादि स्पष्टम् ॥ २ ॥ पञ्चम्या हौ सूत्रम्
व्यञ्जनाच्छ्नाहेरानः ॥३॥ [ सि० ३।४८०] व्यञ्जनात्परस्य श्नायुक्तस्य हेरानः स्यात् । गृहाण ३ अगृह्णात् ४ । ॥३॥ 'व्यञ्ज०' स्पष्टम् ।। ३ ॥ अद्यतन्यां सिच् इति सूत्रम्
गृह्णोऽपरोक्षायां दीर्घः ॥ ४ ॥ [ सि० ४।४।३४] ग्रहेर्यो विहित इट् तस्य दीर्घः स्यात् , न तु परोक्षायाम् । नश्वीति वृद्धिनिषेधे दीर्घस्य स्थानिवद्भावात् इट ईतीति सिचो लुक् । अग्रहीत् अग्रहीष्टाम् अग्रहीषुः ५ । जग्राह जगृहतुः जगृहुः।३० जग्रहिथ ६ । गृह्यात् गृह्यास्ताम् गृह्यासुः ७ । ग्रहीता ग्रहीतारौ ८ । ग्रहीष्यति ९ । अग्रहीष्यत् । १० । गृह्णीते १ । गृहीत २ । गृह्णीताम् ३ । अगृह्णीत ४ । अग्रहीष्ट । हान्तखेति वा ढत्वे ३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org