________________
७३२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
# अथ ज्यादयः।
डुक्रींग्श द्रव्यविनिमये । __ अथ त्र्यादयः भाविकरणा वर्णक्रमेण प्रस्तूयन्ते । तत्रादौ सम्प्रदायात् क्रीधातुः । 'हुकींग्श द्रव्यविनिमये' । विनिमयः परिवर्तः । शित्त्वं त्र्यादित्वज्ञापनार्थम् , गित्त्वमुभयपदार्थम् । सूत्रम् ।
ज्यादेः ॥१॥[सि०३४७९] ज़्यादीनां कर्तृविहिते शिति श्नाः स्यात् । क्रीणाति । 'ऍषामीय॑ञ्जनेऽद' इतीत्वे क्रीणीतः। 'नश्चात' इत्यालोपे क्रीणन्ति १ । क्रीणीयात् २ । क्रीणातु क्रीणीतात् क्रीणीहि ३ । अक्रीणात् ४ । अझैषीत् ५। चिक्राय चिक्रियतुः चिक्रयिथ-चिक्रेथ ६ । क्रीयात् ७ । क्रेता ८ । केष्यति ९ । अक्रेष्यत् १० ॥ क्रीणीते क्रीणाते क्रीणते ४ । अक्रेष्ट ५ । चिक्रिये ६ । ऋषीष्ट ७ । १० परिव्यवात् क्रियः (३३।२७) आत्मनेपदमेव एवं 'प्रींग्श तृप्तिकान्त्यो' प्रीणाति १० । प्रीणीते १० । 'मींग्श हिंसायाम्' अदुरुपसर्गेति णत्वे, प्रमीणाति ४ ॥१॥
'त्र्या०' स्पष्टम् । ऎषामिति युक्तजक्षपश्चतः भाप्रत्ययानामाकारस्य शित्यविति व्यञ्जनादौ परत ईकारो भवति । दासंज्ञं वर्जयित्वा । व्यञ्जन इति किम् ? क्रीणते । अद इति किम् ? दत्तः । अवितीत्येव क्रीणाति । णौ णौ क्रीजीङ' (४।२।१०) इत्यात्वे क्रापयति । णौ सनि चिक्रापयिषति । १५णौ डे अचिक्रपत् । क्ते क्रपितः । 'परिक्रयणे' (२।२।६७) इति या चतुर्थां शताय परिक्रीतः। पक्षे करणे तृतीया शतेन परिक्रीतः । परिक्रीयते नियतकालं वीक्रीयते येन तत् परिक्रयणं वेतनादि । 'क्रीतात्करणादेः' (२।४।४४) यां अश्वक्रीती । 'य एच्चात:' (५।१।२८) इति ये 'क्रय्यः क्रयार्थे' (४।३।९१) इति निपातनादयि क्रय्या गौः, क्रयार्थादन्यत्र केयम् । क्रेतव्यमात्रके क्रेयम् । 'क्रय्यं न्यस्तं क्रयाय यत्' इत्यभिधानचिन्तामणी । 'निन्ये व्याप्यादिन्विक्रयः' (५।१११५९) इति २० इनि सोमविक्रयी । निन्द्यादन्यत्र 'कर्मणोऽण् (५।१७२) धान्यविक्रायः । सनि चिक्रीषति । यङि
चेक्रीयते । यङ्लुकि चेक्रेति चेक्रीतः चेक्रियति । क्रीणन् 'अवर्णादन०' (२।१।११५) इति भावर्जनात् अन्तादेशाभावे क्रीणती । क्रीणन् क्रीणानः । कसुकानोः चिक्रीवान् चिक्रियाणः । क्रीतः २ । अच्यलि क्रयः । ड्वित्त्वात् त्रिमक् क्रीनिमम् । उणादौ क्रीकल्यलि० (३८) इतीके क्रयिकः क्रेता । कावावी० (६३४) इति णौ क्रेणिः क्रयविशेषः इतीदन्तोऽनिट् । 'किंग्श बन्धने' । 'षः २५ स.' (२।३।९८) इति से सिनाति सिनीते 'सिचि परस्मै०' (४।३।४४) इति वृद्धौ असैषीत्
असैष्ठां असैषुः । असेष्ट असेषाताम् असेषत । सिषाय सिष्ये । सनि 'णिस्तोरेवा०' (२।३।३७) इति नियमान्न षत्वम् सिसीति । 'सेसे कर्मकर्तरि' (४।२।७३ ) सिनोतेः सिनातेवा परस्य क्तयोस्तकारस्य प्रासे कर्मणि कर्तृत्वेन विवक्षिते नकारो भवति । सिनो प्रासः स्वयमेव । ग्रास इति किम् ? सितं कर्म स्वयमेव । कर्मकर्तरीति किम् ? सितो ग्रासो मैत्रेण । सितो गलो ग्रासेन । सिनो३० तेरेव नत्वमित्येके । तन्मते सितो ग्रासः स्वयमेव । कर्मकर्तुरन्यत्र सितः पाशेन । "पिंग्ट् बन्धने' सिनुते सिनोति । इति इदन्तोऽनिट् । प्रींग्श इति तृप्तिकान्त्योरिति तृप्तिः सौहित्यम् , कान्तिरभि
लाषः । अद्यतन्यां अप्रैषीत् अप्रेष्ट । पिप्रिये पिप्राय । णौ 'धूगप्रीगोनः' (४।२।१८) इति ने प्रीण३३ यति । अपिप्रीणत् 'धूगनीगो रिति गिनिर्देशात् यलुपि न नोऽन्तः ये प्राययति । शेषं क्रीवत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org