________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तनादय आत्मनेपदिनः
७३१ इति के घृणा । क्तौ घृतिः । उणादौ नाम्थुपान्य० (६०९) इति किदिः घृणिः । उविकरणे ऋणतृण-घृण-धातूनां गुणं नेच्छन्त्येके । ऋणुते ऋणोति । तृणुते तृणोति । घृणुते घृणोति । अकारोपान्त्यो णान्तश्चायमिति शिवः । घणोति जघाण । घतः २ । तिकि घण्टिः ।
इत्युभयपदिनः सप्त नान्ताः सेटश्च । 'वनूयि याचने । वनुते । अवत अवनिष्ट । 'अनादेशादेः०' (४।१।२४) इत्येत्वस्य 'नशस-५ दद०' (४।१।३०) इति प्रतिषेधे ववने । वनिता । वनिषीष्ट । ऊदित्त्वात् क्त्वि वेट 'यमिरमि०' (४।२।५५) इति नलुकि वत्वा । क्तयोर्नेट् वत्तः २ । णौ 'कगेवनूजनैजृषकस्रञ्जः' (४।२। २५) एषां णौ परे हस्खो भवति । भिणम्परे तु वा दीर्घः । उपवनयति । उपवानि । उपावनि । अवानि । अवनि । उपवानं २ । उपवनं उपवनम् । वानं २ । वनं वनम् अनुपसर्गस्य 'ज्वलबलमलग्लास्त्रावनूवमनमोऽनुपसर्गस्य वा' (४।२।३२) एषामनुपसर्गाणां णौ परे ह्रस्वो वा भवति । वन-१० यति वानयति । तिकि वन्तिः । नसमासे अवन्तिः राजा । तौ वतिः । उणादौ वनिकणि० (१६२) इति ठे वण्ठः अभिनिविष्टः । वनिवपिभ्यां णित् (४२१) इतीरे वानीरः वेतसः कीचकपेचक० (३३) इति निपातनात् वनीपकः याचकः । वनिष्ठुरिति तु वनिपूर्वस्य तिष्ठतेः कित्यौ 'वन षण भक्तौ' वनति । 'मनूयि बोधने मनुते । 'तन्भ्यो वा०' (४।३।६८) इति नसिचोर्वा लुक् न चेट् । अमत अमनिष्ट अमथाः अमनिष्ठाः । मनिता मनितुम् । अदित्त्वात् क्त्वि वेट् 'यमि-१५ रमि०' (४।२।५५) इति नलुकि मत्वा । इटि मनित्वा । मतः २ । 'मनिच् ज्ञाने' मन्यते ।
* इत्यात्मनेपदिनौ नान्तौ सेटौ। 'सप्तवोभयपदिनः आत्मनेपदिनावुभौ । परस्मैपदभानास्ति नव सर्वे तनादयः ॥ १ ॥ - यां शिष्योऽद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ साधु यितस्तनादय इमे पूर्णाः सुखं धातवः ॥ १॥
२२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org