________________
७३०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सनस्तत्रा वा ॥२॥ [सि० ४।३।६९] सनो न्लुपि सत्या वा स्यात् । असात असत असनिष्ट, असाथाः असथाः असनिष्ठाः ५। सेने ६ । 'क्षनूग क्षिनूयी हिंसायाम्' क्षणोति ४ । नविजागृशसेति वृद्धिनिषेधे अक्षणीत् ५।
चक्षाण ६ । क्षण्यात् ७ । क्षणिता ८ । क्षणुते ४ । ५ 'सन' सनोतेस्तत्र लुपि सत्यामऽन्तस्य वा आकारो भवति असात असत, असाथाः असथाः । तत्रेति किम् ? असनिष्ट असनिष्ठाः । केचिदात्वं न मन्यन्ते, नित्यमेवान्ये । 'इवृध.' (४।४।४७) इति वेटि, 'सनि' (४।२।६१) खनिसनिजनां धुडादौ सनि परतोऽन्तस्यात्वं भवति । तत्र खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवतीति सनिरेवात्रावशिष्यते, 'नाम्यन्तस्था०' (२।३।१५)
इति षत्वे सिषासति । धुडादाविति किम् ? इडागमे सिसनिषति । अत्र सनि षत्वभूते ‘णिस्तोरेव.' १०(२।३।३७) इति नियमान्न षत्वम् , णौ तु षत्वं स्यादेव सन्वन्तं प्रयुङ्क्ते सानयति । सानयितुमि
च्छति सिषानयिषति । णौ डे असीपनत् । औदित्त्वात् क्त्वि वेट 'आः खनिसनिजनः' (४।२।६०) इत्यात्वे सात्वा पक्षे सनित्वा । वेदत्वात् क्तयोर्नेद सातः २ । 'ये नवा' (४।२।६२) खनादीनां विति प्रत्यये परेऽन्तस्याकारो वा भवति सायते सन्यते । सासायते संसन्यते । प्रसाय प्रसन्य प्रसत्य
तनादित्वान्नलुक् 'तिकृतौ०' (५।१।७१) इति तिकि 'न तिकि दीर्घश्व' (४।१।५९) इति दीर्घन१५लुगभावे सन्तिः । 'तौ सनस्तिकि' (४।२।६४) सन् इत्येतस्य तिकि प्रत्यये परे तो नलुगाकारौ
वा भवतः । सतिः सातिः । पक्षे सन्तिरिति प्रागुक्तमेव । 'षण भक्तावित्यस्यापि सनरूपत्वात् सतिः सातिः सान्तिः ॥ 'अहन्पञ्चमसं०' (४।१।१०७) इत्यादिना दीर्घः । सातिहेति० (५।३। ९४) इति क्तौ निपातनात् सातिः । उणादौ कृवापा० (१) इत्युणि सानुः प्रस्थः । 'क्षनूग क्षिनूयी इति 'रघुवर्णात्' (२।३।६३) इति नस्य णत्वे क्षणोति । ऊदित्वात् क्त्वि वेदि । 'यमि२० रमि०' (४।२।५५) इति नलुकि क्षत्वा । पक्षे इटि क्षणित्वा । क्तयोर्नेट् क्षतः २ । तिकि दीर्घ
लुकोः प्रतिषेधे 'नां०' (११३।३९) इति णत्वापवादे नस्य ने क्षन्तिः । स्त्रियां क्तौ क्षतिः। क्षिन क्षिणोतीत्यादि 'रघुवर्णा०' (२।३।६३) इति नो णे उपान्त्यगुणं नेच्छन्त्येके । क्षिणुतः क्षिण्वन्ति । क्षिणुते । इत्यादि । क्षेणिता । क्षेणितुम् । औदित्त्वात् क्त्वि वेट 'यमिरमि०' (४।२।५५) इति
नलुकि क्षित्वा । इटि 'वौ व्यञ्जनादे:०' (४।३।२५) इति वा कित्त्वे क्षिणित्वा । क्षेणित्वा । क्तयो२५र्नेट् । क्षितः २ । तिकि क्षिन्तिः २ । क्तौ क्षितिः । अमुं न पठन्त्येके । 'ऋणूयी गतौ' 'रषवर्णात्' इति नस्य णे 'लघो०' (४।३।४) इति गुणे अणुते । अर्णोति आर्णिष्ट आर्णीत् आनृणे आनर्ण अर्णिता अर्णितुम् । सनि 'अयि रः' (४११६) इति रस्य प्रतिषेधे 'स्वरादेर्द्वितीयः' (४।१।४) इति नेरेव द्वित्वे अर्णिनिषति । ऊदित्त्वात् क्त्वि वेद । 'यमिरमि०' (४।२।४५) इति
नलुकि ऋत्वा । इटि क्त्वा' (४।३।२९) इति कित्त्वाभावाद्गुणे अर्णित्वा । ऋतः २ । क्तौ ऋतिः । ३० तृणूयी अदने' अदाने इत्यन्ये । 'रघुवर्णात्' इति नस्य णत्वे तणुते तर्णोति अतर्णिष्ट अतीत्
ततृणे ततर्ण । अदित्त्वात् क्त्वि वेट् । 'यमिरमि०' (४।२।५५) इति नलुकि तृत्वा इटि 'क्त्वा' इति कित्त्वाभावे तर्णित्वा । तृणः २ । तिकि तृत्तिः । क्तौ तृतिः । 'घृणूयी दीप्तौ' । 'लघो०' इति गुणे 'रघुवर्णात् ०' इति नस्य णे घणुते घोति अघर्णिष्ट अघर्णीत् जघृणे जघर्ण घर्णिता घर्णितुम् ।
अदित्वात् क्त्वि वेट् धृत्वा । इटि 'क्त्वा' इति कित्त्वाभावे घर्णिता । घृतः २ । घृतम् । तिकि घृतिः । ३५ णान्तोऽयमित्येके । 'तवर्गस्य०' (१।३।६० ) इति तस्य टे घृण्टिः । 'नाम्युपान्य.' (५।१।५४)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org