________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे रुधादयः परस्मैपदिनः
७२७ नट-इ ४ । अशिषत् ५। शिशेष ६ । शिष्यात् ७ । शेष्टा ८। शेक्ष्यति ९ । 'हिसुतृहप हिंसायाम्' उदितः स्वरादिति नागमे, तल्लोपेच, हिनस्ति हिंस्तः हिंसन्ति १ । हिंस्यात् २ । हिनस्तु हिन्धि ३ । व्यञ्जनादेः सश्च दः । अहिनत्-द् ४ । अहिंसीत् ५। जिहिंस ६ । हिंसात् ७ । हिंसिता ८॥॥४॥ ___ 'धुटो' पञ्चम्या हौ शिण्ढीति । अत्र भस्याकारलोपो नामिति वर्गान्त्ये कर्त्तव्ये 'न सन्धिः' ५ (१।३।५२) इति स्थानी न भवति । एवमन्यत्रापि । अद्यतन्यां लदित्त्वादखि अशिषत् । विशिशेष । अनुस्वारेत्वान्नेद शेष्टा । शेष्टुम् शिष्टः । 'ऋवर्ण' (५।१।१७) इति ध्यणि विशेष्यः । कर्म• ण्यात्मनेपदे 'हशिट०' (३।४।५५) इति सकि व्यशिक्षन्त । घमि विशेषः । विनयादित्वात् स्वार्थे इकणि वैशेषिकः । 'शिषण असर्वोपयोगे' युजादित्वाद्वा णिचि शेषयति । अलि विशेषः । पक्षे शेषति । घभि शेषः । 'पिष्लंप संचूर्णने' । 'जासनाट.' (२।२।१४) इति वा कर्मणः कर्मत्वे १० 'शेषे' (२।२।८१) इति षष्ठ्यां चौरस्य चौरं वा पिनष्टि । हिंसार्थादन्यत्र धानाः पिनष्टि । षान्त. त्वात् 'अकखाद्यषान्ते पाठे वा' (२।३।८०) इति नेर्णत्वाभावे प्रनिपिनष्टि । लदित्वादङि अपिपत् । कर्मण्यात्मनेपदे 'हशिट०' इति सकि अपिक्षन्त । अनुस्खारेत्वान्नेट् पेष्टा पेष्टुम् । पिष्टः । घमि पेषः । 'शुष्कचूर्ण' (६।४।६०) इति णमि शुष्कपेषं पिनष्टि । चूर्णपेषम् । रूक्षपेषम् । 'स्वस्नेहार्थात्०' (५।४।६५) इति णमि तैलपेष पिनष्टि । उणादौ पिषेः पिपिण्यौ च (३६) इत्याके १५ पिनाकम् रुद्रधनुः । पिण्याकस्तिलखलः । इति षान्तावनिटौ । हिसुतहपौ कण्ठतो निर्दिशति । हिनस्तीत्यादि । हिंसार्थवर्जनात् क्रियाव्यतिहारेऽपि नात्मनेपदम् व्यतिहिंसन्ति । 'हुधुटो' (४।२। ८३) इति हेधों 'सोधि वा (४।३।७२) इति वा सो लुकि हिन्द्वीति । 'व्यञ्जनादेः सश्च दः' (४।३।७८) इति दो लुकि सस्य दत्वे च अहिनद् इति 'सेः रद्धां.' (४।३।७९) इति सिचो लुकि सस्य वा रुत्वे च अहिनस्त्वम् अहिनत्त्वम् । हिंसिता । हिंसितः । अचि हिंसः । 'निन्दहिंस-२० किशखादविनाशिव्याभाषासूयानेकस्वरात्' (५।२।६८) इति णके । हिंसाशीलो हिंसकः । 'स्म्यजसहिंसदीपकम्पकमनमो रः' (५।२।१९) इति रे हिंस्रः । 'केट' (५।३।१०६) इत्यः हिंसा । उणादौ खलिहिंसिभ्यामीनः (२८६) हिंसीनः श्वापदः । कृशप० (४१८) इतीरे हिंसीरो हिंस्रः। हिंसेः सिम् च (५८८) अस्माद् हः प्रत्ययोऽस्य च सिमित्यादेशः सिंहः । इति (सान्तः) सेद। ॥ ४ ॥ तृहप इति अत्र सूत्रम्
२५ · तृहः नादीत् ॥ ५॥ [ सि० ४।३।६२] तृहः श्नात्पर ईत् स्यात् व्यञ्जनादाविति । तृणेढि तृण्डः । शिइहेऽनुसार इति हन्ति । तृणेक्षि तृणेनि १ । तूंद्यात् २ । तृणेढु । हौ तृण्डि तृणहानि ३ । अतृणेट् अतृण्ढाम् अहन् ४ । अतीत् ५। ततहें ६ । तृह्यात् ७ । तर्हिता ८।॥५॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
हैमलघुप्रक्रियायां रुधादयः समाप्ताः । तृह.' सर्व व्यक्तम् । तृहितः २ । तृणमिति तु भ्रूणणेति (१८६) निपातनाण्णे तरतेः । सनि तितर्दिषति । यङि तरीतृह्यते । यङ्लुपि तरितृहीति ततर्हि तर्तृढः ३ । तर्तृहति । णौ तर्हयति । अतीतृहत् अततहत् । इति हान्तः सेट् १४ । * इति परस्मैपदिनः ।
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org