________________
७२६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
सिचोऽञ्जः॥३॥ [सि० ४।४] अञ्जः सिच आदिरिट् स्यात् । आञ्जीत् ५ । आनञ्ज ६ । अज्यात् ७ । औदित्वात् अशा अजिता ८ । 'शिष्लं विशेषणे शिनष्टि शिष्टः शिंषन्ति १ । शिष्यात् २ । शिनष्टु । शिन् पहि इति स्थिते । हेर्धिः, धुटस्तृतीयेति षस्य डा, तवर्गश्चवर्गेति धेर्दिः । नां धुड्वर्गे इति ५नस्य णः॥३॥
'सिचो.' सिच इति किम् ? अशा अञ्जिता । औदित्त्वाद्विकल्पे प्राप्ते नित्यार्थ वचनम् । 'अनात०' (४।१।६९) इति पूर्वस्यात्वे नोऽन्ते च आनञ्ज । 'ऋस्मिपूङ' (४।४।४८) इति सनीटि 'न बदनं०' (४।११५) इति नस्य द्वित्वाभावे 'स्वरादे० (४।१।४) इति जेर्द्वित्वे अञ्जिजिषति । 'जनशो०' (४।३।२३) इति वा क्त्वः कित्त्वे अक्त्वा अङ्क्त्वा । इटि अञ्जित्वा । १० क्तयोर्नेट् अक्त: २ | आञ्जयति आञ्जिजत् । 'कुप्यभिद्य०' (५।११३९) इति निपातनात् आज्यं घृतम् । संज्ञाया अन्यत्र 'ऋवर्ण०' (५।१।१७) इति ध्यणि, 'क्तेऽनिट०' (४।१।१११) इति गे अङ्ग्यम् । उणादौ पाट्यञ्जिभ्यामलिः (७०२) अञ्जलिः । अञ्जयवेरिष्टु (७६४) अञ्जिष्टुर्भानुरमिश्च । अञ्जयर्तेः कित् (७७७) इति तुनि अक्तुः इन्द्रः । अस् (९५२) इत्यसि अञ्जः स्नेहः ।
'ओविजैप भयचलनयोः' विनक्ति वितः । 'विजेरिट्' (४।३।१८) इति इटो ङित्त्वात् न गुणः १५ उदविजीत् उदविजिष्टाम् । विवेज विविजिम । उद्विजिता । ओदित्त्वात् 'सूयत्याद्योदितः' (४।२।
७०) इति क्तयोस्तस्य नत्वे उद्विमः २ । 'ओविजैति भयचलनयोः' उद्विजते । इति जान्ताः पञ्च सेटः । 'कृतप वेष्टने कृणत्ति कृन्तः । अकृणत् । सिचि अकर्तीत् । चकत । कर्तिता। सादावशिति 'कृतचूत०' (४।४।५०) इति वेटि कर्त्यति कतिष्यति । वेट्त्वात् क्तयोर्नेट् कृत्तः २ ।
ऐदित्वात् यलुप्यनेकस्वरादपि क्तयोर्नेट चरीकृत्तः २ । 'क्त्वा (४।३।२९) इति कित्त्वाभावागुणे २० कर्तित्वा । उणादौ कृति० (७६) इति के कृत्तिका । कृतेस्तकं च (७०३) इत्युः तर्कुः सूत्रवेष्टन
शलाका । इति तान्तः सेट् । 'उन्दैप् छेदने' उनत्ति उन्तः उन्दन्ति । औन्दीत् । 'गुरुनाम्यादेः०' (३।४।४८) इति परोक्षाया आमि उन्दाञ्चकार । उन्दिता । सनि 'न बदनं०' (४११५) इति नस्य द्वित्वाभावे, 'स्वरादेः०' (४।१।४) इति देरेव द्वित्वे उन्दिदिषति । ऐदित्त्वात् क्तयोर्नेद 'ऋहीघ्राध्रात्रोंदनुदविन्तेर्वा' (४।२।७६) इति क्तयोस्तस्य वा नत्वे समुन्नः २ समुत्तः २ । 'दश२५ नावोदे.' (४।२।५४) इति निपातनात् अवोदः । मनि उ(ओ?)मः उ(ओ?)द्मनी । उणादौ ध्रुधून्दि० (२९) इति कित्यके उदकम् । उन्देर्न लुक् च (२७१) इत्यने ओदनः । ऋज्य जि० (३८८) इति किति रे उद्रः ऋषिः । समुन्दन्त्यार्दीभवन्ति वेलाकाले नद्योऽस्मादिति समुद्रः। इन्द्र इति तु मीवृधि० (३८७) इति रे इन्दतेः । मृयुन्दि० (३९९) इति कित्यरे उदरम् । वाश्यसि०
(४२३) इत्युरे उन्दुरः । ऋजिरिषि० (५६७) इति किति से उत्सः प्रस्रवणम् । इति दान्तो३० ऽनिट् । शिष्लंपधातुं पाठतः प्रकटयति । शिष्लं' विशेषणे इति । विशेषणं गुणान्तरोत्पादनम् । शिनष्टि विशिनष्टीत्यादौ ॥ ३ ॥
धुटो धुटि खे वा ॥४॥[सि० १॥३॥४८] ३३ व्यञ्जनात्परस्य धुटो धुटि खे परे लुग्वा स्यात् । इति इलोपे, शिण्डि शिनषाणि ३ । अशि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org