________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे रुधादयः परस्मैपदिनः
७२५
1
२ । 'समः पृचैज्वरे:' ( ५/२/५६ ) इति घिनणि संपर्कशीलः संपर्क । घनि 'तेऽनिट ० ' ( ४|१ | १११ ) इति के पर्कः । मधुना पर्क: मधुपर्कः । संपर्क: । 'पृचैङ्क संपर्चने' पृक्ते । 'प्रचण् संपचने । 'युजादे: ० ( ३।४।१८ ) इति वा णिचि संपर्चयति, संपर्चति । 'वृत्रैप पूरणे' ( वरणे है० धा० पारायणे ) वृणक्ति वृतः वृञ्चन्ति । दिवि अवृणक् । अवर्चीत् । ववर्च ववृचुः । वर्चिता । ऐदित्त्वात् 'योनेंट् वृक्तः २ । घञि 'तेऽनिट् ० ' ( ४|१|१११ ) इति के वर्क: । जान्तोऽयमि - ५ त्यन्ये । जान्तोऽपि वर्जनार्थ इत्येके वृञ्जन्ति ववर्ज । घनि वर्गः । ' तच तखपू सङ्कोचने' नक्ति ततः तन्ति । दिवि अतनक् । अतश्चीत् अतचिष्टाम् अतचिषुः । ततश्च । तञ्चिता ।
वात् क्त्व वेट् तत्वा तचित्वा । क्तयोर्नेट् तक्तः २ । उणादौ ऋज्यजि० (३८८) इति किति रे न्यङ्कादित्वात् के तक्रम् । औदिदयमित्येके । तन्मते औदिवाद्वेद् । तङ्का तश्चिता । अद्यतन्यां अताङ्क्षीत् अताङ्काम् अताङ्खुः । पक्षे प्राग्वत् । इति चान्तास्त्रयः सेटः । तञ्जौ तनक्तितः । अता- १० ङ्क्षीत् अताङ्काम् अताङ्कः । पक्षे, अतञ्जीत् अतञ्जिष्टाम् अतञ्जिषुः । औदित्त्वाद्वेट् तङ्का तञ्जिता क्तयोर्नेट् तक्तः २ । 'जनशो न्युपान्त्ये तादिः क्त्वा' ( ४।३।२३ ) इति क्त्वो वा कित्त्वे तक्त्वा सङ्क्त्वा । इटि तञ्जित्वा । 'क्वा' (४।३।२९) इति कित्त्वाभावान्न नो लुकू । भञ्जोपू धातुं व्यक्त्या पठति ( पृष्ठ ७२४ ) । भनक्तीत्यादि । 'व्यञ्जनानां ० ' ( ४ | ३ | ४५ ) इति वृद्धौ अभाङ्क्षीत् । बभञ्ज । 'भजे वा' ( ४।२।४८ ) इति वा नलुकि अभाजि अभञ्जि । यङि ' जपजभ० ' ( ४|१|५२ ) १५ पूर्वस्य स्वागमे बम्भजति । अनित्वात् भक्ता । ओदित्त्वात् 'सूयत्याद्येोदितः ' ( ४|२|७० ) इति क्तयोस्तस्य नत्वे भग्नः २ । 'जनशो० ' ( ४।३।२३ ) इति क्त्वो वा किन्त्वे भक्त्वा भङ्क्त्वा । 'भञ्जिभासि० ' ( ५।२।७४ ) इति घुरे भङ्गुरं काष्ठम् । धनि भङ्गा धान्यविशेषः, भङ्गोऽन्यः ।
भुजं धातुमपि स्पष्टं पठति ( पृष्ठ ७२४) । अभ्यवहारो भोजनम् । भुङ्क्तेऽन्नमित्यादि पालनार्थे भुनक्ति भुवमित्यादि ॥ १ ॥ त्राणादन्यत्र
भुनजोऽत्राणे ॥ २ ॥ [ सि० ३।३।३७ ]
पालनादन्यार्थाद् भुनक्तेः कर्त्तर्यात्मनेपदं स्यात् । भुङ्क्ते ४ । अभुक्त ५ । बुभुजे ६ । भुक्षीष्ट ७ । अप् व्यक्तिप्रक्षणकान्तिगतिषु । अनक्ति अङ्कः १ । अयात् २ । अनक्त अधि अङ्कात् ३ । आनक् २ । ४ । ॥ २ ॥
I
भुङ्क्तेऽन्नमित्यादि । भुङ्क्ते भूमिमखिलामित्यादिप्रयोगास्तु भूमिफलभोक्तृत्व विवक्षयेति । भोक्ता । २५ गत्यर्थे वा कर्त्तरि क्ते भुक्तश्चैत्रोऽन्नम् । पक्षे कर्मणि भुक्तमन्नं चैत्रेण । पक्षे भावे भुक्तं चैत्रेण 1 1 णौ 'गतिबोध ० ' (२।२।५ ) इत्यणिकर्तुः कर्मत्वे 'चल्याहारार्थ० ' ( ३।३।१०८) इति फलवत्कर्त्तर्यपि परस्मैपदे भोजयति चैत्रं पयो मैत्रः । 'ऋवर्ण ० ' ( ५११।१७) 'तेऽनिट ० ' ( ४|१|१११ ) इति गे भोग्या भूः । 'भुजो भक्ष्ये' ( ४|१|११७ ) इति गत्वाभावे भोज्यमन्नम् । 'व्यञ्जनाद् ० ' ( ५१३॥ १३२ ) इति करणे घनि 'भुजन्युब्जं ० ' ( ४|१|१२० ) इति निपातनात् भुजः पाणिः । विश्वाद्वि- ३० दिभुजिभ्याम् (९५६) विश्वपूर्वाभ्यामाभ्यामसूप्रत्ययो भवति । विश्वभोजा अग्निर्लोकपालश्च । 'भुजोंत् कौटिल्ये' निभुजति । औपधातुं स्पष्टं पठति । अञ्जौप् व्यक्तिम्रक्षणगतिष्विति व्यक्तिः प्रकटता, क्षणं घृतादिसेकः । तत्र केवलस्य म्रक्षण एव वृत्तिः, सोपसर्गस्य तु शेषयोरिति विवेकः । अनक्ति । व्यनक्ति । अभ्यनक्ति । अतः अञ्जन्ति ॥ २ ॥ अद्यतन्यां सूत्रम्
३४
Jain Education International
२०
For Personal & Private Use Only
www.jainelibrary.org