________________
७२४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधातुं कण्ठतो निर्दिशति । यजंपीत्यादि स्पष्टम् , 'उत्स्वरायुजेरयज्ञतत्पात्रे' ( ३।३।२६) इत्यात्मनेपदनियमे उद्युक्ते प्रयुङ्क्ते । नेह द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । यज्ञे यद्यज्ञपात्रं तद्विषयस्यैव युज्यर्थस्य वर्जनादिहात्मनेपदमेव । रन्धने यज्ञपात्रं प्रयुक्ते यज्ञे रन्धनपात्रं प्रयुते । योक्ता योक्तुम् वियुक्तः । 'युजिंच समाधौ' युज्यते । इति जान्तोऽनिट । भिद् धातुं कण्ठतः पठति । भिर्द्वपीति 'रदाद५मूर्च्छमदः क्तयोर्दस्य 'च' (४।२।६९) इति नत्वे भिन्नः २ । भित्तं शकलम् भिन्नमन्यत् । 'कुप्यभिद्योध्यसिध्यतिष्यपुष्ययुग्याज्यसूर्य नाम्नि' (५।१।३९) इति क्यपि निपातनात् भिनत्ति कूलानीति भिद्यो नदः । 'कर्मणोऽण्' (५।११७२) इत्यणि काष्ठभेदः । 'असरूपोपवादे वोत्सर्गः प्राक्क्तेः' (५।१।१६) इति किपि काष्ठभिद् । 'वेत्तिच्छिदभिदः कित्' (५।२।७५) इति किति घुरे भिदुरं
काष्ठम् । भिदायङि भिदा विदारणम् , भित्तिरन्या । उणादौ कृतिपुति० (७६) इति किति तिके १० भित्तिका कुड्यम् । विहाविशापचिभिद्यादेः केलिमः (३५४) विपूर्वाभ्यां 'ओहांक त्यागे' 'शोच्
तक्षणे', इत्येताभ्यां पच्यादिभ्यश्च कित् एलिमः प्रत्ययो भवति । भिनत्तीति भिदेलिमस्तस्करः । ऋज्य जि० (३८८) इति किति रे भिद्रं अदृढम् । शुषीषि० (४१६) इति किति इरे भिदिरः अशनिः । 'नाम्युपान्त्यः' (६०९) इति किदिः भिदिः वज्रम् । एवं 'छिदंपी द्वैधीकरणे'
अद्वैधस्य पृथक्त्वे, छिनत्ति । अच्छिदत् अच्छेत्सीत् । चिच्छेद ॥ छिन्ते अच्छित्त छेत्ता च्छिन्नः । १५ किपि रज्जुच्छित् । 'वेत्ति०' (५।२।७५) इति किति घुरे छिदुरा रज्जुः । भिदाद्यङि छिदा द्वैधीभावः। छित्तिः विच्छित्तिश्चान्या । उणादौ ऋज्यजि०' (३८८) इति किति रे छिद्रम् । शुषीषि० (४१६) इति किति इरे छिदिरः उन्दुरः, छिदिरं शस्त्रम् । 'नाम्युपान्य०' (६०९) इति किदिः छिदिः छेत्ता परशुश्च । 'क्षुद्रूपी संपेषे' क्षुणत्ति अक्षुदत् अक्षौत्सीत् चुक्षोद ॥ क्षुन्ते अक्षुत्त क्षोत्ता क्षुण्णः २ । उणादौ 'ज्यजि०' ( ३८८) इति किति रे क्षुद्रः । 'ऊदृपी दीप्तिदेवनयोः' वमनेऽप्यन्ये, । २० कृणत्ति अमृदत् अछर्दीत् । छन्ते 'कृतचूत०' इति सूत्रे सिचो वर्जनात् 'धूगौदितः' (४।४।३८)
इत्यनेनापि वेट्वाभावात् सिचः 'स्ताद्यशित०' (४।४।३२) इति नित्यमिटि अछर्दिष्ट । अशिति सादौ 'कृतचूतनृतच्छ्दतृदोऽसिचः सादेवी' (४।४५०) इति वेटि छय॑ति छर्दिष्यति । सिचि तु नित्यमिटि अच्छीत् । णौ डे 'ऋवर्णस्य' (४।२।३७ ) इति ऋतो वा ऋत्त्वे अचिच्छ्रदत् । ऊदित्त्वात्
क्त्वि वेट् कृत्त्वा छर्दित्वा । वेट्वात् क्तयोर्नेट् कृण्णः २ । ऋदुपान्त्याद०' (५।१।४१) इति क्यपि २५ छ्यम् । उणादौ रुच्यर्चिशुचिहुसृपिछादिदिभ्य इस् (९८९) इतीसि छर्दिर्वमनम् । 'ऊतृदपी हिंसानादरयोः' तृणत्ति ऋदित्त्वाद्वाङि अतृदत् अतर्दीत् । आत्मनेपदे तु अतर्दिष्ट तर्दिता । अशिति सादौ 'कृतचूत० (४।४।५०) इति वेटि तय॑ति तर्दिष्यति । ऊदित्त्वात् क्त्वि वेट् तृत्वा तर्दित्वा । क्तयोर्नेट तृण्णः २ । उणादौ पदिपठि० (६०७) इत्यौ वितर्दिः । स्वार्थ के वितर्दिका वेदिः । इति
दान्ताः पञ्च । तत्राद्यस्त्रयोऽनिटः शेषौ द्वौ सेटौ । * इति नवोभयपदिनः । ३० "भञ्जोप आमर्दने' । भनक्ति भतः १ । अभनक २ । अभनजम् ४ । अभासीत् ५। बभञ्ज
६ । भज्यात् ७ । भङ्गा ८ । भसन्यति ९ । 'भुजंप् पालनाभ्यव्यवहारयो । भुनक्ति १ । दिवि अभुनक् ४ । अभौक्षीत् ५ । बुभोज ६ । भुज्यात् ७॥१॥
अथ परस्मैपदिषु 'पृचैए संपर्के' । पृणक्ति । ह्यस्तन्यां 'व्यञ्जनादेः०' (४।३।७८) इति दिवो ३४लुकि अपृणत् । अद्यतन्यां अपर्चीत् । पपर्च पपूचतुः । सम्पर्चिता । ऐदित्त्वात् क्तयोर्नेट् सम्पृक्तः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org