SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु अस्यानित्वेऽपि नञा निर्दिष्टस्यानित्यत्वादिति अस्वञ्जिष्ट अस्वञ्जिषाताम् । परोक्षायां त्वादेरेव षत्वम् । 'स्वञ्जेर्नवा' (४।३।२२ ) इति सूत्रेण परोक्षाया वा किरवे परिषखजे परिषस्वजे । परिनिपूर्वस्य 'स्तुस्वञ्जवादि नवा' (२।३।४९) इत्यव्यवाये वा षत्वे पर्यष्वजत २ व्यष्वजत २ अनुस्वारेत्त्वात् परिष्वङ्का परिष्वङ्कुम् परिष्वक्त: । 'जनशो न्युपान्त्ये तादिः क्त्वा' ( ४।३।२३ ) इति क्त्वो बा ५ कित्त्वे स्वक्ता स्वङ्का । स्वङ्कुम् । घनि परिष्वङ्गः । क्तौ स्वक्तिः । परिष्वक्तिः । इति जान्ताश्चत्वारः 1 ७२२ ४ । तत्र त्रयः सेटः अन्त्योऽनिट् । जुषैतिधातुं (पृष्ठ ७२०) कण्ठतो निर्दिशति । जुषैतीति जुषते अजोषिष्ट जुजुषे जोषिता जोषितुम् । ऐदित्त्वात् तयोर्नेट् जुष्टः २ । 'दृवृग्०' ( ५|१|४०) इति क्यपि जुष्यः । किपि 'सजुषः ' ( २|१|७३ ) इति निर्देशात् सहस्य सत्वे पस्य रुत्वे सजूः सजुषौ । 'जुषण् परितर्कणे' 'युजादे: ० ' ( ३।४।१८ ) इति वा णिचि जोषयति जोषति ॥ आत्मनेपदिनोऽत्रैकादशोभयपदा दश । परस्मैपदिनः सप्तत्रिंशशतममीषु च । मुचादयोऽष्टावे कोनचत्वारिंशत् कुटादयः । अष्टपञ्चाशदधिकं शतं सर्वे तुदादयः ॥ १ ॥ १० यां शिष्योद्भुतकीर्तिकीर्तिविजय श्रीवाचकार्मणे १५ Jain Education International राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासित साधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया वृत्तौ साधु तुदादयः शविकृताः पूर्णाः सुखं धातवः ॥ १ ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy