________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तुदादय आत्मनेपदिनः
७२१ 'कु कूङत् शब्दें' कुवते । अद्यतन्यां 'धुड्ड्स्वाद्' (४।३७०) इति सिच्लोपे अकुत अकुषाताम् । चुकुवे । यङि चोकूयते । कुटादेरिति मिणतोऽन्यस्य ङित्त्वान्न गुणः । अनुस्वारेत्वान्नेट कुता । कुतुम । कुतः । इत्युदन्तोऽनिट् । कूङ कुवते अकुविष्ट चुकुवे । णितोऽन्यस्य जित्त्वान्न गुणः । 'उवर्णात्' (४।४।५८) इति नेट् कूतः कृतवान् । कूत्वा । अकूतम् । इत्यूदन्तः सेट् । "गुरति उद्यमे' गुरते अगुरिष्ट जुगुरे । छित्त्वान्न गुणः । गुरिता गुरितुम् । ऐदित्त्वात् क्तयोर्नेट गूर्णः ५ २ । ब्णिति गुणे 'वापगुरोर्णमि' (४।२।५) अपपूर्वस्य गुरैति इत्यस्य धातोः सन्ध्यक्षरस्य स्थाने णमि प्रत्यये परे आकारादेशो वा भवति । अपगारम् अपगारम् , अपगोरम् अपगोरम् । अभीक्ष्णमपगूर्य अपगूरणं पूर्व वा रुणम् चाभीक्ष्ण्ये इत्याभीक्ष्ण्ये प्राक्काले च ख्णम्, द्वित्वं च शब्दशक्तिखाभाव्यात् , केवलः ख्णम् आभीक्ष्ण्यं न द्योतयतीति द्वित्वमपेक्षते अस्यपगारं अस्यपगोरं युध्यन्ते । 'द्वितीयया' (५।४।७८) इति णम् । णौ आगोरयति । आगूरयतीति तु गूर्यतेः । इति रान्तः एकः ।१०
+ वृत् कुटादिः । इत्येकोनचत्वारिंशत् परिमाणः कुटादिस्तुदाद्यन्तर्गणः सम्पूर्णः ।
अथ प्रकृतवर्णक्रमेणैवोच्यन्ते । 'पृङत् व्यायामे' व्यायाम उद्योगः । 'रिः शक्या०' (१।३। ११० ) इति रावियि व्याप्रियते व्यापृत व्यापप्रे व्याप" व्यापर्तुम् । व्याप्तः २ । 'हनु०' (४। ११४९) इतीटि व्यापरिष्यति । घनि व्यापारः । 'दृङत् आदरे' । आद्रियते आहत आदरिष्यति । 'ऋस्मिपूङ०' (४।४।४८) इति सनीटि आदिदरिषते । 'दृवृग्०' (५।१।४०) इति क्यपि १५ आरत्यः । 'पुरन्दरभगन्दरौं' (५।१।११४) इति निपातनात् पुरो दारयति पुरन्दरः शक्रः । भगन्दरो रोगः । 'जी' (५।२।७२) इतीनि आदरशील आदरी । 'युवर्ण०' (५।३।२८) इत्यलि आदरः । दर्भ इति तु गृदृरमि० (३२७) इति दृणातेः । उणादौ मुषि० (६५१) इति किति तौ दृतिस्त्रा। 'धृङत् स्थाने' धारण इत्यन्ये । ध्रियते अधृत दः धर्ती धरिष्यते 'ऋस्मिपूङ' (४।४।४८) इति सनीटि दिधरिषते । 'ऋवर्ण०' (५।१।१७) इति व्यणि धार्यः । न्यायावाय.' २० (५।३।१३४ ) इत्याधारे घभि आधारः । 'धंग् धरणे' धरते धरति । इति ऋदन्तास्त्रयोनिटः । ओविजैति धातुं (पृष्ठ ७२०) कण्ठतो निर्दिशति । ओविजैतीति । इडागमे सूत्रम् ‘विजे०' (४।३।१८) स्पष्टम् । उदविजि उदविजिषाताम् उद्विजिषत ५ । उद्विजिजे ६ । उद्विजिता ८ । इट एव ङित्त्वं नान्यत्र उद्वेजनम् । ऐदित्वात् क्तयोर्नेट् २ । उद्विमः २ । 'सूयत्याद्योदितः' (४।२।७०) इति क्तयोस्तस्य नत्वम् । णौ क्ते उद्वेजितः । 'व्यञ्जनाद्' (५।३।१३२) इति करणे घनि वेगः । 'ओल २५
ओलस्जैति व्रीडे' लजते अलजिष्ट ललजे लजिता । ऐदित्त्वात् क्तयोर्नेट् ओदित्त्वात् 'सूयत्या'दीति क्तयोस्तस्य नत्वे लग्नः लग्नवान् । नादिरयमिति चन्द्रः नग्नः । ओलस्जैधातुं (पृष्ठ ७२०) कण्ठतो निर्दिशति 'सस्य शौ' (११३।६१) इति शे, तस्य 'तृतीयस्तृतीय०' (११३।४९) इति जे लज्जते अलजिष्ट ललज्जे लज्जिता । ऐदित्त्वात् क्तयोर्नेट् । ओदित्त्वात्तस्य नत्वे, 'संयोगस्यादौ०' (२।१।८८) इति सलुकि लमः २ । भिदाद्यङि लज्जा । उणादौ लस्जीयिशलेरालुः (८३२) इत्यालौ लज्जालुर्लज्जा-३० शीलः । भ्वादी युक्तपाठावप्येतौ प्रसिद्धयनुरोधादिह पठितौ । 'ध्वञ्जित् सङ्गे' 'षः स.' (२।३।९८) इति से । 'स्वचश्च' (२।३।४५) उपसर्गस्थानाम्यादेः परस्य स्वञ्जः सकारस्य द्वित्वेऽप्यट्यपि षः स्यात् । 'नो व्यञ्जनस्या०' (४।२।४५) इति नलुकि अभिष्वजते प्रतिध्वजते परिष्वजते । एवमभिषिष्वङ्क्षते अभिषाध्वज्यते अभ्यष्वजत अभ्यषष्वञ्जत् णौ रूपम् ।३४
है. प्रका० उत्त० ९१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org