________________
७२०
महामहोपाध्यायश्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
च' चकाराद् घसने, कुडति अकुडीत् चुकोड कुडिता । अणिति गुणे अकोडि कोडयति । उणादौ पतितमि० ( ९८ ) इत्यङ्गे कुडङ्गः । कितिकुडि ० ( ५१८ ) इत्यवे कुडवः, लत्वे कुलवः । ‘कुडुङ् दाहे' कुण्डते । 'कुडुण् रक्षणे' कुण्डयति । 'गुडत् रक्षायाम्' गुडति के गुडः स्त्रियामपि गुडा हस्तिसन्नाहः । ‘तिक्कृतौ०' ( ५।१।७१ ) इत्यके लत्वे च गुलिका । गुडाद्वा ह्रस्वार्थे कपि णिति गुणे ५ गोलकं युग्मम् । धनि भूगोल: । 'गुडुण् वेष्टने' गुण्डयति । 'जुडत् बन्धने' जुडति जुडिता । णिति अजोडि जोडयति । 'जुडत् गतौ' जुडति जोडिता जोडितुम् । 'तुडत् तोडने' तोडनं भेदः । तुडति तुडता अतोडि तोडयति । उणादौ नाम्युपान्त्य० (६०९) इति किदिः तुडि: । 'लुङ थुड, स्थुडत् संवरणे' लुडति थुडति स्थुडति । अलुडीत् अथुडीत् अस्थुडीत् । लुलोड तुथोड तुस्थोड़ | लुडिता थुडिता स्थुडिता । लोडयति थोडयति स्थोडयति । के स्थुलं पटकुटी । 'वुडत् उत्सर्गे च' चकारात् १० संवरणे, वुडति अवुडीत् वुवोड वुडिता अवोडि वोडयति 'क्रुड भ्रुडत् सङ्घाते' संवरणेऽप्यन्ये, ब्रुडति अब्रुडीत् वुब्रोड ब्रुडिता अब्रोडि । ब्रोडयति । भ्रुड भ्रुडति अभ्रुडीत् बुभ्रोड भ्रुडिता भ्रोडयति । 'दुड हुड त्रुडत् निमज्जने' दुडति अदुडीत् दुदोड दुडिता अदोडि दोडयति । हुडति अहुडीत् sts हुडिता अहोडि होडयति । त्रुडति अत्रुडीत् तुत्रोड त्रुडिता अत्रोडि त्रोडयति । घञि दोडः । लत्वे स्त्रियामपि दोला दोडा । उणादौ नाम्युपान्त्य ० ( ६०९) इति किदि : हुडिः । पृकाहृषि० (७२९) १५ इति किदुः हुडुः मेषः । हुडिः सङ्घातेऽपीत्यन्ये । इति डान्ताश्चतुर्दश सेटच । 'चुणत् छेदने' चुणति अचुणीत चुचोण चुणिता । अचोणि चोणयति । इति णान्तः सेट् । 'डिपत् क्षेपे' डिपति अडिपीत् डिडेप डिपिता डेपयति अडेपि ' आसुयु० ' ( ५।१।२० ) इति ध्यणि डेप्यम् । 'डिपच् क्षेपे' डिप्यति, डेपिता 'डिपण् क्षेपे' डेपयति । 'डिपिण् संघाते' डेपयते । इति पान्तः सेट् । 'छुरत् छेदने' छुरति
1
अच्छुरीत् चुच्छोर आशिषि कुरुच्छुरु इति दीर्घप्रतिषेधे छुर्यात् । छुरिता । के छुरः 'तिकृतौ ० ' २० (५।१।७१ ) इत्यके छुरिका । णिति तु अच्छोरि छोरयति । 'स्फुरत् स्फुरणे' चलन इत्यन्ये । 'निनैः स्फुरस्फुरलो:' ( २।३।५३ ) निर्निभ्यां परयोः स्फुरतिस्फुलत्योः सकारस्य पो वा स्यात् । निःष्फुरति, निःस्फुरति, निष्फुरति निस्फुरति । वचनभेदो यथासङ्ख्यनिवृत्त्यर्थः । 'वे : ' ( २।३।५४ ) वेः परयोः स्फुरस्फुलोः सस्य षो वा स्यात् । विष्फुरति विस्फुरति । णौ 'चिस्फुरोर्नवा ' ( ४ । २ । १२) चिनोतेः स्फुरतेश्च णौ परे स्वरस्यात्वं वा भवति । विस्फालयति विस्फोरयति । विष्फारयति विष्फो२५रयति । स्फुरस्फुलोर्घनि सन्ध्यक्षरस्याकारो भवति विस्फारः विष्फारः । घनीति किम् । विस्फोरकः । णितोऽन्यस्य ङित्त्वान्न गुणः । स्फुरिता । स्फुरितुम् स्फुरितः । के स्फुरः । सस्फुरः । क्तौ स्फूर्त्तिः । इति रान्तौ
1
से । 'स्फुत् सञ्चये च' चकारात् स्फुरणे चलने इत्यन्ये । स्फुलति । निःष्फुलति निःस्फुलति निष्फुलति निस्फुलति । विष्फुलति विस्फुलति । विपूर्वाण्णिगि विस्फोलयति विष्फोलयति । व विष्फालः विस्फालः । स्फुलिता स्फुलिष्यति । उणादौ स्फुलिकलि ० ( १०२ ) इतीङ्गे स्फुलिङ्गः इति ३० लान्तः सेट् \ इति परस्मैपदिनः । )
'ओविजैति भयचलनयोः ' प्रायोऽयमुत्पूर्वः । उद्विजते ४ । ( विजेरिट् ङिद्ववत्स्यात् ) उद्विजता ८ । 'ओल जैति व्रीडे' लज्जते ४ । अलजिष्ट ५ । ललजे ६ । लज्जिषीष्ट ७ । 'जुषेति प्रीतिसेवनयोः जुषते १० । इत्यात्मनेपदिनः ।
इति महोपाध्यायश्री कीर्तिविजयगणि शिष्योपाध्याय श्री विनय विजयगणिविरचितायां हैमलघुप्रक्रियायां तुदादयः समाप्ताः ।
३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org