________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तुदाद्यन्तर्गताः कुटादयः परस्मैपदिनः
७१९
शब्दे' गवते। ‘धुंत् गतिस्थैर्ययोः' ध्रुवति । 'सिचि परस्मै०' इति वृद्ध्यभावे अध्रुवीत् । अचि ध्रुवः । 'कुत्सिता ० ' ( ७।३।३३ ) इति कपि ध्रुवकः । गुपिमिथि० (४८३ ) इतीले ध्रुविल ऋषिः । सेडय - मित्येके । तन्मते न्यध्रुवीत् ध्रुविता | किति 'उवर्णात् ' ( ४|४|५८) इति नेट् श्रुत: २ । ङित्वेन कित्त्वं बाध्यते इति न्याये ध्रुवितः । 'धुं स्थैर्ये' ध्रुवति । इत्युदन्तायनिटौ च । 'णुत् स्तवने' 'पाठे० ' ( २। ३ ।९७ ) इति नत्वे नुवति अनुवीत् नुनाव नुविता नुवितुम् । णोपदेशत्वात् 'अदुरुपसर्ग ०१५ (२।३।७७ ) इति णत्वे, किति 'उवर्णात् ' ( ४ । ४ । ५८ ) इतीडभावे प्रणुतः २ । ङित्वेन कित्त्वस्य बाधनादिट्प्रतिषेधाभावे नुवित: । प्रणुवित इत्यन्ये । एवं धुवित इत्यत्रापि दृश्यम् । 'धूत् विधूनने' । धुवति अधुवीत् दुधाव धुवितव्यम् किति 'उवर्णात् ' इतीडभावे धूतः २ । अनटि धू (धु ?) वनम् । उणादौ धून्दि० (२९) इत्यके धुवकं धूननम् । धुवका आवपनविशेष: । 'धूग्ट् कम्पने' धूनुते धूनोति । धूशू कम्पने' धुनाति धुनीते । 'धूग्ण् कम्पने' 'युजादे: ० ' ( ३।४।१८ ) इति वा णिचि धूनयति । १० पक्षे धवते धवति । इत्यूदन्तौ सेटौ । 'कुचत् सङ्कोचने' कुचति अकुचीत् चुकोच कुचिता । सङ्कुचितुम् । 'नाम्युपान्त्य ० ' ( ५।१।५४ ) इति के कुचौ । ञ्णिति तु ङित्वाभावात् णौ कोचयति । घञि क्ते सेट्त्वात् कत्वाभावे सङ्कोचः । 'कुच सम्पर्चनादौ' सङ्कोचति । 'व्यचत् व्याजीकरणे' । 'व्यचोsनसि' ( ४।१।८२ ) व्यचेः सखरान्तस्था अस् वर्जिते किति प्रत्यये वृद्भवति । विचति । अव्याचीत् । 'ज्याव्येव्यधि०' ( ४|१|७१ ) इति पूर्वस्य इत्वे विव्याच । कुटादेरिति ङिवे, विचिता । १५ विचितुम् । 'व्यचोऽनसि' इत्यत्रास्वर्जनात् उणादौ अस् ( ९५२ ) इत्यसि वृदभावे उरुव्यचाः । पितृव्यचाः वृश्चिकः । इति चान्तौ सेटौ । 'गुजत् शब्दे' गुजति अगुजीत् । जुगोज गुजिता गुजम् । णिति ङित्त्वाभावात् गुणे अगोजि गोजयति । 'गुज अव्यक्त शब्दे' गोजति । इति जान्तः सेट् । 'घुटत् प्रतीघाते' घुटति अघुटीत् जुघोट । कुटादेरिति ङित्त्वाद्गुणाभावे घुटिता । अघोटि । घोटकः गादिर्डान्तश्चायमित्येके गुडति के अयोगुडः । 'चुट छुट त्रुटत् छेदने' चुटति अचुटीत् २० चुचोट चुटिता । घञि चोटः । णौ नन्द्याद्यने उच्चोटनः । णके चोदकः । छुट छुटति अच्छुटीत् चुच्छोट छुटिता अच्छोटि । भाव इति णके छोटिका । णौ छोटयति । त्रुद्ध 'भ्रासभ्लास ० ' ( ४ |२| ३६) इति वा श्ये त्रुट्यति त्रुटति । अत्रुटीत् तुत्रोट त्रुटिता त्रुटितः । णिति ङित्वाभावाद्गुणे अत्रोटि त्रोटकः । त्रोटयति । उणादौ किलिपिलि० (६०८) इति णावि त्रोटिः । 'तुटत् कलहकर्मणि' तुटति अतुटी तोता । ततु गुणे अतोटि । णके तोटकः । उणादौ नाम्युपान्त्य ० ( ६०९) इति २५ किदिः तुटि: । 'मुटत् आक्षेपप्रमर्दनयोः' । मुटति अमुटीत् मुमोट मोटिता । णिति तु गुणे अमोटि मोटकः । 'मुट प्रमर्दने' मोटति । 'मुटण् संचूर्णने' मोटयति । 'स्फुटत् विकसने' स्फुटति अस्फु
तू पुस्फोट स्फुटिता । णिति गुणे स्फोटकः । णौ स्फोटयति । के स्फुट: । 'स्फुट्ट विकसने' स्फोटति अस्फोटत् । 'स्फुटि विकसने' स्फोटते । 'पुट लुठत् संश्लेषणे' पुटति के पुटः । ' जातेरयान्त०' (२।४।५४ ) इति ङयां पुटी । णिति गुणे, घञि पोटा चेटी णावचि वा । 'पुटत् संचूर्णने' भाषार्थे ३० वा, पोटयति । इत्यष्टौ टान्ताः सेटः । 'लुठत् संश्लेषणे' लुठति अलुठीत् लुलोठ लुठिता । णिति गुणे अलोठि लोठयति । डान्तोऽयमित्यन्यः । लुडति अलुडीत् लुलोड लुडिता । 'लुठ उपघाते' लोठति । 'लुठि प्रतीघाते' लोठते इति ठान्तः सेट् । 'क्रुडत् घसने' घसने भक्षणे घनत्वे इत्यन्ये । घनत्वं सान्द्रत्वम् । कृडति अकृडीत् चकर्ड कृडिता कडितुम् । णिति तु गुणे अकार्ड कर्डयति । 'कुडत् बाल्ये ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org