________________
७१८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुइति शान्ताः षट् अनिटः । ऋषै ऋषति । 'ऋत्यारि'ति प्रार्षति । आर्षीत् । आनर्ष आनृपतुः । 'क्त्वा' (४।३।२९) इति कित्वाभावे अर्षित्वा । ऐदित्त्वात् क्तयोर्नेट् रुष्टः रुष्टवान् । 'ऋदुपान्त्या०' इति क्यपि ऋष्यः । उणादौ ऋषिवृषि० (३३१) इति कित्यभे ऋषभो वृषभश्च पुङ्गवः भगवांश्चादितीर्थङ्करः । ऋजिरिषि० (५६७) इति किति से ऋक्षः । नाम्युपान्त्य० (६०९) ५ इति किदिः ऋषिः । दृमुषि० (६५१) इति किति तौ ऋष्टिः खड्गः । इषत् इति । तादौ 'सहलुभेच्छ०' (४।४।४६) इति वेटि एष्टः एषिता । 'क्त्वा' इति कित्त्वाभावाद्गुणे, वेदत्वात् क्तयोर्नेट् इष्टः इष्टवान् । 'ऋवर्ण०' (५।१।१७) इति व्यणि एष्यः । 'प्रस्यैषैष्योढोव्यूहेस्वरेण' (१।२।१४) इत्यत्वे प्रैषः प्रैष्यः । 'विन्द्विच्छू' (५।२।३४) इति निपातनात् एषण
शील इच्छुः । के इषः आश्वयुजः । श्वादिभ्यः' (५।३।९२) इति क्तौ इष्यतेऽनया इष्टिः 'मृग१० येच्छा०' (५।३।१०१) इति निपातनात् इच्छा । 'करणाधारे' (५।३।१२९) इत्यनटि एषणः । स्त्रियां गौरादित्वात् ड्यां एषणी वैद्यशलाका । 'क्रुत्सम्पदा०' (५।३।१२४) इति क्विपि इट् । उणादौ इध्यशिमशिभ्यस्तकक् (७७) इष्टका । मस्जीष्यशिभ्यः सुक् (८२६) इति सुकि इक्षुः । उणादिविवरणे तु 'इषश् आभीक्ष्ण्ये' इक्षुर्गुडादिप्रकृतिरिति लिखितम् । 'इषच गतौ अन्विष्यति । 'मिषत् स्पर्द्धायाम' मिषति । उन्मिषितम् । के अनिमिषा देवाः । आमिषम् । लिहाद्यचि मेषः १५ निमेषः उन्मेषः । इति षान्तात्रयः सेटः । 'वृहौत् उद्यमे' उद्यम उद्धरणम् । वहति । औदित्त्वात्
वेदि अवहीत् । पक्षे 'हशिट०' (३।४।४५) इति सकि अवृक्षत् । वेट्त्वात् क्तयोर्नेट् वृढः परि. वृढः । घधि उद्वहः वर्हः । 'वृह वृद्धौ' वर्हति । 'तृहौ तुंही स्तही स्तूंहौत् हिंसायाम्' । तृहति । वेटि अतीत् पक्षे सकि अतृक्षत् । ततह । तर्हिता तर्दा । क्तयोर्नेट् आतृढः २ । तुंही 'नो व्यञ्ज
नस्या०' (४।२।४५) इति नलुकि तृहति । अहीत् अवृक्षत् ततुंह, तूंहिता-तृण्ढा । क्तयोर्नेट् , २० 'नो व्यञ्जनस्याः' इति नलुकि तृढः २। स्तृहौ, स्तृहति अस्तीत् तस्तह स्तर्हिता स्तर्दा । स्तृढः,
षोपदेशोऽयमित्येके । तन्मते 'णिस्तोरेवा०' (२।३।३७ ) इति षत्वे तिष्टर्ह यिषति । स्तूंही नलुकि स्तृहति अस्तुंहीत्-अस्तृक्षत् तस्तूंह स्तूंहिता स्तृण्ढा । स्तृण्ढः २ । स्तृहती स्तृहन्ती स्त्री कुले वा । अयमपि 'षोपदेशोऽयमित्येके । 'तृहप् हिंसायाम्' । 'तृहः भादीत्' (४।३।६२) इति तृणेढि ।
अथ तुदाद्यन्तर्गणः कुटादिस्तत्र प्रसिद्ध्यनुरोधेनादौ 'कुटत् कौटिल्ये' कुटति । 'कुटादेः.' २५(४।३।१७) इति ङित्त्वात् गुणाभावे कुटिता कुटितुम् कुटित्वा । णिति तु डिवाभावाद्गुणे उच्चु .
कोट उत्कोटयति उत्कोटकः उदकोटि उत्कोटः । 'णिद्वान्त्यो णव' (४।३।५८) अहमुचुकोट । णित्त्वाभावे तु ङित्त्वाभावान्न गुणः अहमचुकुट । के कुटः । कुक्कुटः। प्रत्यासत्तायाद्यत्कार्यं कुटादेर्डि(द)द्वारा
प्राप्नोति । तस्मिन्नेव कार्ये ङित्त्वं नत्वात्मनेपदादौ, तेन चुकुटुषतीत्यादौ सन्नन्तस्य ङित्त्वाभावादात्मने___ पदं न भवति । उणादौ भुजिकुति० (३०५) इति कित्यपे कुटपः प्रस्थचतुर्भागः । 'ऋछिचटि.' ३० (९७) इत्यरे कुटरः मर्कट: । बाहुलकाद्गुणे कोटरं छिद्रम् । घसिवशि० (४१८) इतीरे कुटीरम् ।
कल्यनि० (४८१) इतीले कुटिलम् । रुचिकुटि० (५०२) इति मलकि कुङ्मलः विष्णुः मुकुलं च । कृशृकुटि० (६१९) इति वा णिदिः कोटिः कुटिः । 'गुत् पुरीषोत्सर्गे' गुवति । 'सिचिपरस्मै०' (४।३।४४) इति वृद्ध्यभावे न्यगुषीत् जुगाव । डिन्त्वाद्गुणाभावे गुता गुतुम् गुतव्यम् । 'दुगोरू च' (४।२।७७) इति क्तयोस्तस्य नत्वे गूनः २ । उणादौ पथयूथ० (२३१ ) इति निपात३५ नात् गूथं पुरीषम् । दीर्घान्तः सेट् चायमित्येके । तन्मते न्यगुवीत् गुविता गुवितव्यम् । 'गुङ्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org