________________
१०
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तुदादयः परस्मैपदिनः
७१७ मापि शिला। शेलुरिति तु शेतेौं । सिल सिलति । अषोपदेशत्वात्षत्वाभावे सिसेल । षोपदेशोऽयमित्येके । तन्मते 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिषेल । 'नाम्युपान्त्य०' (५।११५४) इति के सिलम् । 'तिलत स्नेहने तिलति । के तिलः । 'तिलण् स्नेहने' तेलयति । 'चलत् विल. सने' चलति । चलती चलन्ती स्त्री कुले वा। णौ कम्पने एव घटादित्वाद् ह्रस्वाभावे चालयति । 'चिलत् वसने' चिलति अचेलीत् चिचेल । लिहाद्यचि चेलम् । 'विलत् वरणे' दन्त्योष्ट्यादिः ।५ विलति । घबि आवेलः । णावचि वेला । 'बिलत् भेदने' ओष्ठ्यादिः । बिलति अबेलीत् बिबेल उणादौ बिलिभिलि० (३४० ) इति किति मे बिल्म प्रकाशम् । बिलाल इति तु बिडालस्य लत्वे । 'णिलत् गहने' 'पाठे०' (२।३।९७) इति णस्य नत्वे निलति । णोपदेशत्वात् 'अदुरुपसर्ग०' (२।३।७७ ) इति नेर्णत्वे प्रणिलति । 'मिलत् श्लेषणे मिलति अमेलीत् मिमेल मिलिता मिलितः मेला । इति लान्तास्त्रयोदश सेटश्च ।
'स्पृशंत् संस्पर्शने' स्पृशति ४ । अस्पाक्षीत् अस्पाक्षीत् । अस्पृक्षत् ५ । स्प्रष्टा स्पष्टो ८ । स्प्रक्ष्यति स्पक्ष्यति ९ । 'विशंत् प्रवेशने' अविक्षत् ५। वेष्टा ८ । वेश्यति ९ । निपूर्वोद्विश आत्मनेपदं भवति । निविशते । एवं 'मृशंत्' आमर्शने । 'इषत् इच्छायाम्' गमिपद्यमश्छः। इच्छति ४ । ऐषीत् ऐषिष्टम् ५ । इयेष ६ ।
* इति परस्मैपदिनः । स्पृशंत् इति स्पृशति । 'स्पृशमृश०' (३।४।५४) इति वा सिचि, 'स्पृशादि सृपो वा' (४।४। ११२) इति वा स्वरात्परो अ: अस्पार्टात् अस्पार्टात् पक्षे 'हशिट०' (३।४।५५) इति सकि अस्पृक्षत् इति त्रैरूप्यम् । पस्पर्श । 'पदरुजविशस्पृशो घञ्' (५।३।१६) इति घनि स्पर्शी व्याधिः। 'स्पृशोऽनुदकात्' (५।१११४९) इति क्किपि, 'ऋत्विग्दिश्०' (२।१।६९) इति षापवादे गे घृतस्पृग् । उदकात् 'कर्मणोऽण्' (५।११७२) इत्यणि उदकस्पर्शः । उणादौ स्पृशेः श्वः पार् च (५२३) अस्मात् श्वः प्रत्ययोऽस्य २० च पार् इत्यादेशः पार्श्व स्वाङ्गं समीपं च । पार्थो भगवान् तीर्थङ्करः । पशुरिति तु प्रः शुः ( ८२५) इति शौ पृणातेः । 'रुशं रिंशत् हिंसायाम्' । रुशति । 'हशिट०' (३।४।५५) इति सकि अरुक्षत् रुरोश रोष्टा रुष्टः ॥ रिशति अरिक्षत् रिरेश रेष्टा रिष्टः। विशंत् इति । 'निविशः' (३।३।२४) इत्यात्मनेपदे निविशते । 'वाभिनिवेशः' (२।२।२२) इत्याधारस्य वा कर्मत्वे ग्राम ग्रामे वा अभिनिविशते । सकि अविक्षत् । वेष्टा । प्रविष्टः । कसौ 'गमहन०' (४।४।८३) इति वेटि विविशिवान् ।२५ 'पदरुज.' (५।३।१६) इति धनि वेशो वेश्या वाटः । 'अजातेः शीले' (५।१।१५४) इति णिनि संवेशी । 'विशपत०' (५।४।८१) इति णमि गेहानुप्रवेशमास्ते गेहंगेहमनुप्रवेशमास्ते । उणादौ जविशिभ्यामन्तः (२१९) इत्यन्ते वेशन्तः पल्वलम् । विष्टपोलपवातपादयः (३०७) इत्यपे निपातनात् विष्टपं जगत् इति । विश्धातोर्व्याख्याने पारायणे । विषेस्तोन्तश्चेति किदप्प्रत्यये विष्टपं जगत् इत्युणादिविवरणे । विशेरिपक् (३०९) विशिपः राशिः । निघृषी० (५११) इति ३० किति वे विश्वम् । मृशंत् इति आमर्शनं स्पर्शः । अद्यतन्यां अम्राक्षीत् । अमाीत् पक्षे 'हशिट०' (३।४।५५) इति सकि अमृक्षत् इति स्पृशतिवत्रैरूप्यम् । अनिट्त्वात् स्रष्टा मर्दा । मृष्टः २ । 'ऋदुपान्त्या०' (५।१२४१) इति क्यपि मृश्यम् । उणादौ युयुजि० (२७७ ) इति कित्याने मृशानः। 'लिशं ऋषैत् गतौ' । लिशति अलिक्षत् लेष्टा लिष्टः । घमि लेशः । 'लिशिंच अल्पत्वे' लिश्यते । ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org