________________
७१६ महामहोपाध्यायश्रीविनयविजयगणिविरचितै खो पज्ञहैमलघुशुभ्रम् । 'शुभि दीप्तौ' शोभते । शुम्भ 'नों व्यञ्जनस्या०' (४।२।२५) इति नलुकि शुभति अशुम्भीत् शुशुम्भ शुम्भिता शुम्भित्वा । 'शुम्भ भाषणे' चेत्यर्थभेदात्पाठः । (भ्वादौ सुम्भ निशुम्भनाद्यर्थो दन्त्यादिरियेके)। "भैत् ग्रन्थे दृभति क्त्वेति कित्त्वाभावाहुणे दर्भिवा । ऐदित्त्वात् क्तयोर्नेट हब्धः दृब्धवान् । घनि सन्दर्भः । उणादौ दृभिचपेः स्वरान्नोन्तश्च (८४१) आभ्यामूः ५स्वरान्नोन्तश्च । इन्भूः सर्पजातिः वनस्पतिः वज्रः ग्रन्थकारः । बाहुलकानकारस्य 'नां धुड्' (१।३।३९) इति मकारो न भवति । 'लुभत् विमोहने' विमोहनं व्याकुलीकरणम् 'सहलुभेच्छ ।' (४।४।४६) इति वेटि लोब्धा लोभिता । 'लुभ्यश्चेर्विमोहाचे (४।४।४४) लुभ्यश्चिभ्यां यथासङ्ख्यं विमोहेऽर्चायां चार्थे वर्तमानाभ्यां परेषां तक्तवतुक्त्वामादिरिडा भवति [ विमोहो विमोहनमाकुलीकरणम् अर्चा पूजा] विलुभितः सीमन्तः । विलुभिताः केशाः । विलुभितवान् । धातू१० नामनेकार्थत्वाद्विमोहादन्यत्र वेट्वान्नेट् लुब्धः २ । 'लुभच् गार्ये' लुभ्यति अलुभत् इति भान्ताः
षट् सेटश्च । 'कुरत् शब्दे' कुरति अकोरीत् । चुकोर कोरिता कुरितः । कुरुच्छुरं इत्यत्र कृग एव ग्रहणात् 'भ्वादे' (२।१।६३) इति दीर्घ कूर्यते । आशिषि कुर्यात् । तस्यापि न दीर्घ इत्येके कुर्यात् । उणादौ मृान्दि० (३९९) इति कित्यरे कुररः जलपक्षी । किति कुटिकुरि० (५१८)
इति कित्यवे कुरवः पुष्पवृक्षजातिः। 'क्षुरत् विखनने' क्षुरति । 'नाम्युपान्त्य०' (५।१।५४) इति १५ के क्षुरः । 'खुरत् छेदने च' छेदनं विलेखनम् चकाराद्विखनने । खुरति । के खुरः । क्रोडादित्वात् 'असहनञ्' (२।४।३८) इति ड्यभावे कल्याणखुरा । “घुरत् भीमार्थशब्दयोः' । घुरति । धबि घोरः । उणादौ इदुदुपान्त्याभ्यां ० (१७) इति किदः सरूपद्वित्वं पूर्वस्य चोदन्तः धुरुधुरः । जजल० (१८) इत्यादिनिपातनात् पूर्वस्योद्भावे घुर्धरः । अनुकरणशब्दौ । 'पुरत् अग्रगमने'
पुरति । के पुरम् । किपि पूः । पुरुष इति तु विदिपृभ्यां० (५५८) इति कित्युषे पृणातेः । पुरु२० रित्यप्यस्यैव पृकाहृषि० (७२९) इति कित्यौ । 'मुरत् संवेष्टने' मुरति । के मुरः । मुरमुरः (१७)
अनुकरणशब्दः । मुर्मुर (१०-१८) इत्यपि । 'सुरत् ऐश्वर्यदीप्त्योः' सुरति । अषोपदेशत्वात्षत्वाभावे सुसोर । षोपदेशोऽयमित्येके । तन्मते 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सुषोर । सोरिता । 'नाम्युपान्त्य०' (५।१।५४) इति के सुरः देवः । सुरा मद्यम् । उणादौ 'इदुदुपान्त्याभ्यां०' (१७) इति किदः सरूपद्वित्वं च पूर्वस्य चोदन्तः । सुरुसुरः अनुकरणशब्दोऽयम् । 'स्फर २५स्फलत् स्फुरणे' चलन इत्येके । स्फरति अस्फारीत् पस्फार स्फरिता । अचि स्फरः । कुटादिरयमित्यन्ये । तत्पाठबलाञ्च णके वृद्ध्यभावे स्फरकः । घनि स्फारः । इति रान्ता अष्टौ सेटश्च ८ । स्फलति अस्फारीत् पस्फाल स्फलिता। णौ क्ते आस्फालितः । अनटि आस्फालनम् । कुटादिरयमित्येके । तत्पाठबलाच णके स्फलकः । 'किलत् श्वैत्यक्रीडनयोः' किलति चिकेल केलिता केलितः । उणादौ किले कित् (५७५) इत्यासे किलासः सिध्मम् । किलाट इति तु किरो लश्च वा (१४७) इत्यावे रस्य ३० वा लत्वे किरतेः । इदुदुपान्याभ्यां० (१७) इति किदः सरूपद्वित्वं पूर्वस्येदन्तः किलि किलः अनु
करणशब्दः । बहुलं गुणवृद्धी चादेः (१९) इति पूर्वस्य गुणवृद्ध्योश्च केलिकिलः कैलिकिलश्च हासशीलः । किलिपिलि० (६०८) इत्यौ केलिः । 'इलत् गतिस्वप्नक्षेपणेषु' इलति ऐलीत् इयेल । एलिता। के इला । लिहाद्यचि घबि वा एलः । स्त्रियां एला । णौ एलयति । 'हिलत् हावकरणे' हिलति ।
उणादौ इदुदुपान्त्याभ्यां० (१७) इति हिलिहिलः अनुकरणशब्दः । बहुलं गुणवृद्धी चादेः (१९) ३५ इति हेलिहिल: हैलिहिलश्च विलासशीलः । 'शिल सिलत् उन्छे' । शिलति । के शिलम् । स्त्रिया
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org