________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तुदादयः परस्मैपदिनः
७१५ नुनुदे तनुकण्डुपण्डितः पटुचनूपुटकोटिकुट्टनैः' ॥ १॥ इति नैषधीयप्रयोगोऽपि । उणादौ ग्लानुदिभ्यां दौः (८६८) नौः । षद्लंत् अवसादने । 'श्रौति०' (५।२।१०८) इति सीदादेशे सीदति । लदित्त्वादङि असदत् । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे सिषत्सति । ज्वलादिपठितेनैव सिद्धे इहास्य पाठः 'अवर्णादन.' (२।१।११५) इति वान्तादेशार्थः । सीदती सीदन्ती स्त्री कुले वा । 'वा ज्वलादि०' (५।११६२) इति णविकल्पार्थः । सादः सदः । अनिट्-५ त्वात् सत्ता । 'शदूलंत् शातने' इति तु न पठितव्य एव शित्यात्मनेपदित्वेन शतुरभावेन्तादेशविकल्पाप्राप्तेः । अशददित्यादेस्तु तेनैव सिद्धेः । इति दान्तावनिटौ च । 'विधत् विधाने' विधति 'वौ व्यञ्जनादेः०' (४।३।२५) इति क्त्वांसनोर्वा कित्त्वे विधित्वा वेधित्वा । विविधिषति विवेधिषति । के विधः । उणादौ विधेर्वा ( ९७२) अस्मादस् स च किद्वा वेधाः विद्वान् सर्ववित् प्रजापतिश्च । विधाः स एव । इति धान्तः सेट् । 'जुन, शुनत् गतौ' जुनति जुजोन । शुनति शुशोन ।१० के शुनः वायुः । उणादौ कीचकपेचक० (३३) इति निपातनात् शुनकः । इति नान्तौ सेटौ । 'छुपंत स्पर्श' छुपति चुच्छोप छोप्ता । इति पान्तोऽनिट् । 'रिफत् कथनयुद्धहिंसादानेषु' रिफति रिरेफः रेफिता । रिफितः । न्युपान्त्य इति व्यावृत्तिबलात् 'ऋत्तुषमृष०' (४।३।२४) इति 'वौ व्यञ्जनादेः' (४।३।२५) इति च वा कित्त्वाभावे 'क्त्वा' ( ४।३।२९) इति नित्यमकित्त्वे रेफित्वा खरादिरयमित्येके ऋफति । णौ अर्फयति । 'तृफ, तृम्फत् तृप्तौ' । मुचादीत्यनेन विधानबलात् १५ 'नो व्यञ्जनस्य०' (४।२।४५) इति नस्यालुकि तृम्फति अतर्फीत् ततर्फ तर्फिता तृफित्वा तृफितः । ऋदुपान्त्यादिति क्यपि तृफ्यः । तृम्फ नो व्यञ्जनस्येति नलुपि तृफति । अतृम्फीत् तनुंफ 'ऋत्तष०' इति क्त्वो वा कित्त्वे तृफित्वा तृम्फित्वा । पान्तावेतावित्यन्ये । तृपति । शे न लुक् नेष्यते तृम्पति । 'ऋफ ऋम्फत् हिंसायाम् । ऋफति । 'अनात०' (४।१।६९) इति पूर्वस्यात्वे ने च आनर्फ आनृफतुः । अर्पिता । ऋफितः । सनि अर्पिफिषति । 'क्त्वा' (४।३।२९) इति २० क्त्वः कित्त्वाभावे आर्फित्वा । 'ऋदुपान्त्याद्' (५।१।४१) इति क्यपि ऋफ्यः । ऋम्फ्यः । 'नो व्यञ्जनस्या०' इति न लुपि ऋफति । 'अनात०' इति पूर्वस्यात्वे ने च आनृम्फ । ऋम्फित्वा । ऋम्फितः । 'ऋत्तषः' इति क्त्वो वा कित्त्वे ऋफित्वा ऋम्फित्वा । इकारोपान्यो रादिश्चायमित्यन्यः । तन्मते शे नलोपानिष्टौ रिम्फति रिरिम्फ । 'दृफ हम्फत् उत्क्लेशे' मुचादीति ने डम्फति अदीत् ददर्फ दर्फिता दृफितः । 'क्त्वा' इति क्त्वः कित्त्वाभावे दर्फित्वा । हम्फ 'नो व्यञ्जन०' २५ (४।२।४५) इति नलुकि हफति अहम्फीत् ददृम्फ दृम्फिता । 'ऋत्तृष०' इति क्त्वो वा कित्वे दृफित्वा दृम्फित्वा । 'गुफ गुम्फत् ग्रन्थने' मुचादीति ने गुम्फति अगोफीत् जुगोफ गोफिता गुफितः । 'क्त्वा' इति कित्त्वाभावे गोफित्वा । न्युपान्त्यव्यावृत्तिबलात् 'ऋत्तषः' इति 'वौ व्यञ्जनादेः' इति चात्र वा न कित्त्वम् । गुम्फ 'नो व्यञ्जनस्या०' इति न लुपि गुफति अगुम्फीत् जुगुम्फ गुम्फिता । 'ऋत्तुषः' इति क्त्वो वा कित्त्वे गुफित्वा गुम्फित्वा । इति फान्ता नव सेटश्च । 'उभ ३० उम्भत् पूरणे' 'मुचादि०' (४।४।९९) इति ने उम्भति । औभीत् उवोभ उभिता उभितः । 'नाम्युपान्त्य०' (५।११५४) इति के उभौ । उणादौ उभेळेत्रौ च (६१५) इत्यौ द्वौ त्रयः । उम्भ 'नो व्यञ्जनस्या' (४।२।२५) इति नलुकि उभति । औम्भीत् उम्भाञ्चकर उम्भिता उम्भित्वा । 'शुभ शुम्भत् शोभार्थे' । 'मुचादि०' (४।४।९९) इति ने शुम्भति अशोभीत् शुशोभ । शोभिता के शुभम् । भिदाद्यङि निपातनात् शोभा । उणादौ ऋज्यति० (३८८) इति किति रे ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org