________________
७१४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
1
स्त्री कुले वा ] इति झान्तौ द्वौ सेटौ । 'जुडत् गतौ' जुडति अजोडीत् जुजोड जोडिता जुडिता । घ जोड: । 'पृडत् मृडत् सुखने' पृडति अपर्डीत् पपर्ड पर्डिता पृडितः ।। मृडति अमर्डीत् ममर्ड मर्डिता मृडित: । 'क्षुधक्लिशकुषगुधमृडमृदवदवसः' ( ४ | ३ | ३१ ) एभ्यः परः क्त्वा सेट् किद्वद्भवति इति क्त्वः कित्त्वाद्गुणाभावे मृडित्वा । 'नाम्युपान्त्य ० ' ( ५|१|५४ ) इति के मृडस्तद्भार्यां ५तु 'वरुणेन्द्र०' ( २।४।६२ ) इति ङयामानन्ते च मृडानी । 'कडत् मदे' भक्षणे । इत्यन्ये । कडति अकाडीत् चकाड । अचि कडः लत्वे कलः । केचित्तु कुटादिरयम् कुटादित्वाच्च न वृद्धिरित्याहुः । तन्मते के कडकः । उणादौ कृकडीकटिचटेरम्बः (३२१ ) कडम्बः जातिविशेष: जनपदविशेषश्च । सृपृप्रथिचरिक डिकद्देरमः ( ३४७ ) इत्यमे कडमः शालिः । ऋफिडादित्वाल्लत्वे कलम: स एव । अग्यङ्गि ० ( ४०५ ) इत्यारे कडारः पिङ्गलः । वृनक्षि० ( ४५६ ) इत्यत्रे कडत्रम् । लत्वे कललं द्वारा जघनं १० च । बन्धिवहि० ( ) इतीत्रे कडित्रं लेख्यचर्म । कटित्रमपि तदेव । कडेरेवराङ्गरौ (४४५ ) अस्मात् एवर अङ्गर इत्येतौ प्रत्ययौ भवतः । कडेवरं मृतशरीरम् । लत्वे कलेवरम् । कडङ्गरं बुसः । कलह इति ( कलते: ) कृपृकटि ० ( ५८९ ) इत्यहे । कलिरित्यप्यस्यैव पदिपठि० (६०७ ) इत्यौ । इति डान्ताश्चत्वारः सेटः । 'पृणत् प्रीणने' । पृणति 'नाम्युपान्त्य ० ' ( ५।१।५४ ) इति के पुणः ' ‘लोकम्पूण०' ( ३।२।११३ ) इति निपातनात् नोन्ते लोकस्य पृण: लोकम्पृणः । ' तुणत् कौटिल्ये' १५ तुणति उणादौ कुगुहु० ( १७० ) इति किड्डे तुण्डम् । बाहुलकान्न दीर्घः । 'मृणत् हिंसायाम्' मृणति
उणादौ ‘कुलिपिलि०' ( ४७६ ) इति कित्याले मृणालं बिसम् । 'द्रुणत् गतिकौटिल्ययोश्च' चकाराद्धिंसायाम् । द्रुणति 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के द्रुणः । अचि द्रोणः । डन्यां द्रुणी द्रोणी । 'पुणत् शुभे' । शुभं शुभविषया क्रिया । पुणति 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के पुणः निपुणः । उणादौ सृणीकास्तीक० (५० ) इतीके निपातनात् पुणेर्डरचान्तः पुण्डतेर्वा अर पुण्डरीकम् । कुहु२० गुहुनी० (१७०) इति किति डे पुण्डः भिन्नवर्ण: बाहुलकान्न दीर्घः । एवं मुण्डादिष्वपि । ऋशिजनि०
( ३६१ ) इति किति ये पुण्यम् । खुरक्षुर० ( ३९६ ) इति निपातनात् पुण्ड्रम् । 'मुणत् प्रतिज्ञाने' मुणति । उणादौ कुगुहुनी ० ( १७० ) इति किति डे मुण्ड: । 'कुणत् शब्दोपकरणयोः ' कुणति । 'नाम्युपान्त्य०' ( ५|१|५४ ) इति के कुणः । उणादौ कुगुहुनी ० ( १७० ) इति किति डे कुण्डम् | ‘भाजगोण०' ( २।४।३० ) इति ङयां कुण्डी अमत्रम् । कुण्डाऽन्या उणादौ कल्यल० (२४६ ) २५ इतीन्दकि कुणिन्दः म्लेच्छ: । कुलिपिलि० (४७६ ) इति कित्याले कुणालं नगरम् । 'घुण घूर्णत् भ्रमणे' घुणति । के घुणः । लिहाद्यचि घोणा नासिका । घूर्णति । 'घुणि घूर्णि भ्रमणे' घोणते घूर्णते । इति णान्ता नव सेटश्च' । 'चृतैत् हिंसाप्रन्थयो:' । चृतति । सादौ 'कृतचूत ० ' ( ४|४|५० ) इति वेट् चर्त्स्यति चर्तिष्यति । चिचृत्सति चिचर्तिषति । असिच इति वचनात् सिचि नित्यमिट् अचर्तीत् । वेट्त्वात् क्तयोर्नेट् चृत्तः २ | ऐदित्वात् यङ्लुपि अनेकस्वरादपि क्तयोर्नेट् । चरीवृत्तः २ । 'ऋटु३० पान्त्या ०' ( ५|१|४१ ) इत्यत्र चृतो वर्जनात् 'ऋवर्ण०' (५।१।१७) इति ध्यणि चर्त्यम् । इति तान्तः सेट् । 'दंत्' इति 'पाठे धात्वादेः' ( २।३।९७ ) इति णस्य ने नुदति । 'अदुरुपसर्ग' ( २।३।७७ ) इति णत्वे प्रणुदति । 'ऋह्रीघ्रा० (४/२/७६ ) इति क्तयोस्तस्य वा नत्वे नुन्नः २ । नुत्त: २ । 'शोकापनुद०' (५।१।१४३ ) इति के शोकापनुदः पुत्रः । घञि प्रणोदः । पाणिनीयास्त्विति । तथाहुर्धातुपारायणे श्रीहेमसूरयः । ईदिदयमित्येके । तन्मते 'ईगित:' ( ३।३।१५) ३५ इति फलवत्कर्त्तर्यात्मनेपदे नुदते । नुनुदे । 'स गरुद्वनदुर्गदुर्महान्कटु कीटान्दशतः सतः क्वचित् ।
"
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org