________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तुदादयः परस्मैपदिनः
७१३ रोगः । 'भुजन्युजं पाणिरोगे' (४।१।१२० ) इति निपातनादत्र न गत्वम् । उब्जती उब्जन्ती स्त्री कुले वा । ओज इति उर्ज च (९५९) इत्यस्युषेः। सृजत् इति । सृजतीत्यादि व्यक्तम् । 'सृजः श्राद्धे विक्यात्मने तथा' (३।४।८४ ) इति बिक्यात्मनेपदेषु असर्जि मालां धार्मिकः । कर्मकर्त्तरि सृज्यते माला स्वयमेव । असर्जि माला स्वयमेव । सृजती सृजन्ती स्त्री कुले वा । उणादौ स्यन्दिसृजिभ्यां सिन्धरौ च ( ७१७) इत्युः रज्जादेशश्व रजः । 'रुजोत् भङ्गे' । 'रुजार्थस्य ०' (२।२।५ १३) इति वा कर्मणः कर्मत्वे शेषषष्ठ्यां चौरस्य चौरं वा रुजति रोगः । अनिट्त्वात् नेट रोक्ता । ओदित्त्वात् 'सूयत्यादि.' (४।२।७०) इति क्तयोस्तस्य नत्वे 'क्तादेशोऽषि' (२।१।६१) इति नस्यासत्त्वेन धुटि 'चज०' (२)११८६) इति गे रुग्णः २ । 'कूलादुहुज०' ( ५/१११२१) इति खशि कूलमुद्रुजः समुद्रः । किपि गतिकारकस्य०' (३।२।८५) इति दीर्घ नीरुक् । 'पदरुज' (५।३१६) इति कर्तरि घबि रोगः । भिदाद्यङि रुजा। उणादौ रुक्मग्रीष्म० (३४६) इति १० निपातनात् रुक्मम् । 'भुजोत् कौटिल्ये' । निभजति । भोक्ता । ओदित्त्वात् 'सूयत्यादी'ति क्तयोस्तस्य नत्वे भुनः । 'नाम्युपान्त्य०' (५।११५४) इति के भुजः । 'ऋवर्ण०' (५।१।१७) इति ध्यणि भोग्यम् । 'स्थादिभ्यः' ( ५।३।८२) इति भावे के भुजः कौटिल्यम् । भुजेन गच्छति भुजगः। करणाधारे 'व्यञ्जनाद्' (५।३।१३२) इति धनि भोगः सर्पकार्यः । 'भुजंप पालनाभ्यवहारयोः' भुनक्ति । 'भुनजोऽत्राणे' ( ३।३।४७) इत्यात्मनेपदे भुते । 'टुमस्जोत् शुद्धौं' इति शुद्ध्या स्नानं १५ ब्रुडनं च लक्ष्यते । 'सस्य शषौ' ( १।३।६१) इति शे, 'तृतीयस्तृतीय०' (१।३।४९) इति शस्य जत्वे मज्जति ॥
मस्जेः सः॥८॥[सि० ४।४।११०] मस्जेः स्वरात्परस्य सस्य स्थाने धुटि परे नोन्तः स्यात् । अमाक्षीत् अमाङ्क्ताम् ५। ममज ममजिथ-ममङ्क्थ ६ । मज्यात ७ । मङ्क्ता ८ मक्ष्यति ९ । 'णुदत् प्रेरणे' नुदति १० । २० पाणिनीयास्त्वेनमुभयपदिनं पठन्ति । नुनुदे ।
'मस्जेः सः' (४।४।११०) इति धुटि सस्य नत्वे मङ्गा । ओदित्त्वात् 'सूयत्यादीति क्तयोस्तस्य नत्वे, 'नो व्यञ्जनस्य ०' (४।२।४५) इति नलुकि मग्नः २ । 'जनशो न्युपान्त्ये तादिः क्त्वा' (४।३।२३) इति क्त्वो वा कित्त्वे मक्त्वा मङ्क्त्वा । 'ऋवर्ण०' (५।१।१७) इति ध्यणि, 'क्तेऽनिट.' (४।१।१११) इति जस्य गे, 'तृतीयस्तृतीय.' (१॥३॥४९) इति सस्य दे मद्यं । अचि मज्जः ।२५ नाम्युत्तरपदस्येत्युदे उदके मज्ज उदमजः । वित्त्वादथौ मज्जथुः । अनटि मजनम् । भिदाद्यङि मज्जा । उणादौ भृमृतृ० (७१६) इत्युः, उद्गादित्वाद्गत्वे मद्गुर्जलवायसः । उक्षितक्षि० (९००) इत्यनि मज्जा अस्थिसारः, मज्जानौ । मञ्जूषेति तु मञ्जः सौत्रस्य खलिफलि० (५६०) इत्यूषे । जर्ज अर्थात् परिभाषणे जर्जति अजीत् जजर्ज जर्जितः । जर्जती जर्जन्ती स्त्री कुले वा इति जान्ताः षट् । झर्झति अझीत् जझर्झ । जर्जरझर्झरौ तु जषझूषो ऋतष्टित् ( ९) इत्यप्रत्यये सरूपे द्वे च । ३० 'उझत् उत्सर्गे' दोपान्योऽयम् । 'तवर्गस्य०' (१।३।६०) इति दस्य जे उज्झति औज्झीत् । उज्झाञ्चकार । 'न बदनं० (४।११५) इति दस्य प्रतिषेधात्, 'स्वरादे' (४।१।४) इति द्वितीयां. शस्य झरेव द्वित्वे उजिझिषति । 'कुप्यभिद्य०' (५।१।३९) इति क्यपि निपातनात् उज्झत्युदकमिति उद्ध्यो हदः । किपि पदान्ते 'पदस्य' (२।११८९) इति संयोगान्तलुकि उत् उद् [उज्झती उज्झन्ती ३४
है. प्रका० उत्त० ९०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org