________________
७१२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुआनछेतुः आनछुः । ऋच्छिता । ऋच्छितः । ऋचिच्छिषति । 'विछत् गतौ' । 'गुपौ धूपविच्छिपाणिपनेरायः' (३।४।१।) इति स्वार्थिके आयप्रत्यये 'स्वरेभ्यः' इति छस्य द्वित्वे विच्छायति । 'अशवि ते वा' (३।४।४) इति वा आये विच्छिता विच्छायिता । ननु विच्छेस्तौदादिकत्वेन शविषयत्वेन शविषयाभावात् विच्छायतीत्यादौ शिद्विविषयेऽपि आयविकल्पः प्राप्नोति । नैवम् । शवोऽपवा५दत्वेन शप्रत्ययस्यापि शवशब्देनाभिधानाददोषः, एवं चाशवीत्यनेनाशितीत्यर्थः सिद्धो भवति । अशितीत्येव वा पठनीयम् । शतरि 'अवर्णादन०' (२।१।११५) इति वान्तादेशे विच्छन्ती विच्छती स्त्री कुले वा । द्रमिलास्तु शे नित्यमायं तुदादिपाठबलाचायव्यवायेपि पक्षे नलोपमिच्छन्ति विच्छायन्ती विच्छायती । यथा जुगुप्सते इति सना व्यवधानेप्यात्मनेपदम् । विच्छो न विनः। 'विछण भाषार्थः' विच्छयति । 'उछत् विवासे । विवासोऽतिक्रमः। 'स्वरेभ्यः' इति छस्य द्वित्वे उच्छति । 'गुरुना१० म्यादेर०' (३।४।४८) इति परोक्षाया आमि उच्छाञ्चकार । उच्छिता । ऐदित्त्वाक्तयोर्नेद 'अनु
नासिके च०' (४।१।१०८) इति छस्य शत्वे, 'यजसृज०' इति शस्य षत्वे व्युष्टः २। व्युष्टा नाडिः, व्युष्टं प्रातः । सनि उचिच्छिषति ॥ छस्य द्वित्वे पूर्वस्य चत्वं नेच्छन्त्येके । तन्मते उछिच्छिषतीत्यपि ॥ एवमन्यत्रापि शतरि वान्तादेशे उच्छति उच्छन्ती स्त्री कुले वा । "मिछत् उत्क्लेशे' । उत्क्लेशो
बाधनम् । छस्य द्वित्वे मिच्छति। मिमिच्छ । मिच्छिता । मिच्छितः। मिच्छती मिच्छन्ती स्त्री कुले वा । १५ पिछेति द्रमिलाः। पिच्छा आचामः । 'उछुत् उञ्छे' उञ्छ उच्चयः । उदित्त्वान्ने 'तवर्गस्य ०' (११३।६०) इति नस्य बे उञ्छति । परोक्षाया आमि उञ्छाञ्चकार । उञ्छिता । घधि उछः । उञ्छती उञ्छन्ती स्त्री कुले वा । प्रछत् इति ज्ञीप्सायामिति ज्ञीप्सा जिज्ञासा । 'स्वरेभ्यः' (११३। ३०) इति छस्य द्वित्वे 'ग्रहवस्च० (४।१४८४) इति य्वृति पृच्छति । 'समो गमृ०' (३।३।८४) इत्यात्मनेपदं संपृच्छते । आपूर्वस्य तु 'नुप्रच्छः' (३।३।५४) इति सूत्रेणात्मनेपदम् 'आपृच्छस्त्र २० प्रियसखममुं शैलमाश्लिष्टसानुम्' इति मेघदूते ॥ ६॥ अद्यतन्यां सिचि सूत्रम्
अनुनासिके च छः शृट् ॥७॥ [सि० ४।१।१०८] अनुनासिकादौ को धुडादौ च प्रत्यये धातोः छोः शूटौ साताम् । अप्राक्षीत् ५ । पप्रच्छ ६। पृच्छयात् ७ । प्रष्टा ८। प्रक्ष्यति ९ । (आङ्पूचोत्पृच्छतेरात्मनेपदम् ) आपृच्छते । 'सृजत् विसर्गे' सृजति ४ । अः सृजिशोऽकिति अस्राक्षीत् ५। ससर्ज ६ । सृजिदृशीति २५ वेटि सस्रष्ठ-ससर्जिथ ६ । सृज्यात् ७ । स्रष्टा ८ । 'टुमस्जोंत् शुद्धौ मजति ४ ॥७॥
'अनु०' कण्ठ्यम् । पप्रच्छ । संयोगान्तत्वात् 'इन्ध्यसंयोगः' (४।३।२१) इति कित्त्वाभावान्न यवृत् पप्रच्छतुः पप्रच्छुः । अनिट्त्वात् प्रष्टा पृष्टः । 'ऋस्मिपूङ (४।४।४८) इति इटि, 'रुदविद०' (४।३।३२) इति सनः कित्त्वे पिपृच्छिषति । 'दिद्युद्दह०' (५।२।८३) इति निपातनात् प्रश्नशीलः प्राट्, शब्दप्राट्, प्राविवाकः निर्णेता । 'यजिस्खपि०' (५।३।८५) इति ने, 'अनुनासिके च०' इति छस्य शे प्रश्नः । भिदाद्यङि पृच्छा । उणादौ लूधूप्रच्छिभ्यः कित् (६७१ ) इति नौ प्रश्निः रश्मिः । इति छान्ताः षट् प्रच्छंवर्जाः सेटश्च । 'उब्जत् आर्जवे' उब्जति । परोक्षाया आमि उब्जाञ्चकार । उब्जितः । 'न बदनं संयोगादिः' (४।१।५) इति बस्य प्रतिषेधात् 'स्वरादे.' (४।१।४) रिति द्वितीयांशस्य जेरेव द्वित्वे उब्जिजिषति 'भावाकोंः ' (५।३।१८) घञि उद्गा३४ दित्वात् गत्वे अभ्युद्गः समुद्गः । आधारे व्यञ्जनादिति पनि न्युब्जितः । शेतेऽस्मिन्निति न्युब्जो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org