________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे तुदादयः परस्मैपदिनः
७११
1
कृशृग०
इति चेटि 'वृतो नवा ० ' ( ४ | ४ | ३५ ) इति वेटो दीर्घे न्यगीष्टं न्यगरिष्ट न्यगरीष्ट प्रासः स्वयमेव । णौ फलवत्कर्त्तरि 'ईगित:' ( ३।३।९५ ) इत्यात्मनेपदाभावे, 'चल्याहारार्थ ० ' ( ३ | ३|१०८ ) इति परस्मैपदे निगारयति ग्रासं चैत्र मैत्रः । 'गुलुप ० ' ( ३।४।१२ ) इति गर्ह्यर्थाद्यङि 'ग्रो यङि' (२।३।१०१) इति लत्वे निजेगिल्यते । यङ्लुपि निजागलीति । 'ऋस्मिपूङ ० ' ( ४ |४| ४८ ) इति सनीटि जिगगरिषति जिगरीषति । अस्येटो दीर्घं नेच्छन्त्येके । 'ऋवर्णयु० ' ( ४ | ४|५७ ) इति किति नेट् ॥ ५ 'ऋत्वादे० ' ( ४|२|६८ ) इति तो नत्वे गीर्णः गीर्णवान् । तौ गीर्णिः । गीर्खा । 'नाम्युपान्त्य ' ( ५/१/५४ ) इति के गिरः लत्वे गिलः । अणपवादे लिहाद्यलि अजगरः ओदनगरः । कापवादेऽच्यलि वा गरः लत्वे गलः । 'न्युदो मः' (५।३।७२ ) इति धनि निगार : उद्गारः । बाहुलकाद्धनि वा अगारम् । उणादौ ऋतष्टित् इति सरूपे च द्वे रूपे गर्गरो राजर्षिः । गर्गरी महाकुम्भः । गम्यमि० ( ९२ ) इति गे गर्गः ऋषिः । दम्यमि० इति ते गर्तः । गृदृरमि० ( ३२७ ) इति भे गर्भः | १० ० (३२९) इत्यभे गरभः गर्भ एव । लटिखटि० ( ५०५ ) इति वे गर्वः । प्रह्वाह्ना० (५१४) इति वे निपातनात् ग्रीवा । नाम्युपान्त्य० ( ६०९) इति किदि : गिरिः । यो मादिर्वा ( ८९० ) अस्मादुत् प्रत्ययः स च मकारादिर्वा । गर्मुत् गरुडः आदित्यः मधुमक्षिका तृणं सुवर्णं च । गरुत् बर्हिः अजगरः मरकतमणिः तेजसां वर्त्तिश्च । इति ऋदन्तौ द्वौ सेटौ च । 'लिखत् अक्षरविन्यासे' । लिखति अलेखीत् लिलेख लेखिता लिखित: 'नाम्युपान्त्य ० ' ( ५|१|५४ ) इति कापवादे लिहाद्यचि १५ लेखः । भिदाद्यङि निपातनान् लेखा, करणाधारे 'व्यञ्जनाद् घन्' ( ५|३|१३२ ) इति घञि लेखः । धून्दि० (२९) इति कित्यके लिखक: चित्रकः । कुटादिरयमित्येके लिखनीयम् । इति खान्त एकः सेट् । 'जर्च झर्चत् परिभाषणे' तर्जनेऽपीत्येके । जर्चति अजर्चीत् जजर्च जर्चिता जर्चितः । झर्चति अझर्चीत् जझर्च झर्चिता चादिरयमित्यन्ये । णके चर्चक: । 'त्वचत् संवरणे' संवरणमाच्छादनम् त्वचति अत्वचीत् तत्वाच त्वचिता; अचि त्वचः । क्विपि सिरामांसादि त्वचतीति २० त्वक् । 'ऋचत् स्तुतौ' ऋचति आर्चीत् 'अनात ० ' ( ४|१|६९ ) इति पूर्वस्यात्वे ने आनर्च आनृचतुः । अर्चिता। 'ऋदुपान्त्यादकृपिचदृचः' ( ५|२|४१ ) इत्यत्र ऋचो वर्जनात् 'ऋवर्ण ० ' ( ५।१।१७) इति ध्यणि के सेट्त्वात् कत्वाभावे अर्घ्यः । बाहुलकात् कर्त्तरि करणे वा 'क्रुत्संपदा० ' ( ५|३|११४ ) इति क्विपि ऋक् । अर्चिरिति तु रुच्यर्चि ० ( ९८९) इत्यर्चेः । औव्रश्चात् इति दन्त्योपान्त्योऽयम् । 'सस्य शषौ ' ( १|३|६१ ) इति शे ' ग्रहश्च ० ' ( ४|१|८४ ) इति वृति २५ वृश्चति । वत्रश्चेति संयोगान्तत्वादवित्परोक्षायाः कित्त्वाभावान्न वृत् वत्रचतुः वत्रधुः । औदित्वाद्वे । संयोगादिति शस्य लुकि 'यजसृज०' ( २।१।८७ ) चस्य षत्वे ब्रष्टा । पक्षे ब्रश्चिता । वेदत्वात् क्तयोर्नेट् 'सूयत्या ० ' ( ४|२|७० ) इति तस्य नत्वे, ' तादेशोऽषि ( २।१।६१ ) इति नस्यासत्वेन शस्य लुकि चस्य कत्वे च वृक्णः वृक्णवान् । अषीतिवचनात् षत्वे कर्त्तव्ये नत्वं सिद्धमेवेति धुडभावात् 'यजसृज०' (२।१।८७ ) न षत्वम् । क्त्वि 'जत्रश्च ० ' ( ४|४|११ ) इतीति 'क्वा' ३० (४।३।२९) इति कित्त्वाभावान्न वृत् त्रश्चित्वा । क्विपि मूलवृद् । उणादौ पापुलि० ( ४१ ) इति कितीके वृश्चिकः । ऋजिरिषि० (५६७ ) इति से वृक्षः । इति चान्ताः सेटः पञ्च । 'ऋछत् इन्द्रि - प्रलय मूर्तिभावयो:' इन्द्रियाणां प्रलये मोहे मूर्तिभावे च । गतावप्यन्ये । 'स्वरेभ्यः' ( १।३।३० ) इति छस्य द्वित्वे ऋच्छति । 'समो गमृच्छि०' ( ३।३८४ ) इत्यात्मनेपदे समृच्छते 'गुरुनाम्यादेर० ' ( ३।४।४८ ) इत्यत्र ऋच्छो वर्जनादामभावे 'अनात ० ' ( ४ । १।६९ ) इति पूर्वस्यात्वे ने च आनच्छे ३५
1
}
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org