________________
७१० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु९६) इति वा स्सटि, 'असोङ्' (२।३।४८) इति षत्वे विष्किरो विकिरच पक्षी । 'युवर्ण०' (५।३।२८) इत्यलि 'वर्चस्का०' (३।२।४८) इति निपातनादवस्करः वर्चस्कम् । अवकरोऽन्यः । 'किरो लवने (४।४।९३) उपात्परस्य किरतेस्सडादिर्भवति, लबने लवनविषयश्चेत्तदर्थो भवति । उपस्कीर्य मद्रका लुनन्ति । 'उपात् किरो लवने' (५।४।७२) इति णम् । लवन इति ५किम् ? उपकिरति पुष्पम् । 'प्रतेश्च वधे' (४।४।९४) प्रतेरुपाच्च परस्य किरतेर्वधे हिंसायां विषयेऽभिधेये वा स्सडादिर्भवति । प्रतिस्कीणं हते वृषल ते भूयात् । हिंसानुबन्धी विक्षेपस्ते भूयादित्यर्थः । अभिधेये यथा 'सटाच्छटाभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्करे नखैः ॥ १॥ इति माघे प्रथमसर्गवृत्तम् ॥ ४७ ॥
उरो विदार्य हत इत्यर्थः । 'द्वितीयया' (५।४।७८) इति णम् । वध इति किम् ? प्रतिकीणं उपकीर्ण १० बीजम् । विक्षिप्तमित्यर्थः । उन्निपूर्वस्य 'किरो धान्ये' (५।३।७३) इति घनि उत्कारो निकारो
धान्यस्य । अलि उत्करो निकरोऽन्यस्य । उणादौ ऋतष्टित् (९) इति अप्रत्ययः । सरूपे द्वे रूपे कर्करः क्षुद्राश्मा । कर्करी गलन्तिका । दृकृनृ० (२७) इत्यके करको जलभाजनम् । करकोब्दोपले इति वचनाद्वर्षोपले त्रिलिङ्गः । करकः करकं करका। किरोङ्को रो लश्च वा (६२) करङ्कः समुद्गः । कलको लाञ्च्छनम् । कूर्चचूर्चादयः (११३ ) इति चटि निपातनात् कूचं श्मश्रु आसनं तन्तुवायो१५पकरणं यतिपवित्रकं च । कूर्चमिव कूर्चकः कूर्चिकेति च भवति । किरो लश्च वा (१४७) इति कित्याटे किलाटः किराटः । तृपि० (१५१) इति कीटे किरीटम् । विहडकहोड ० (१७२) इत्यडे निपातनात् केरडवैराज्ये राजा । क्रोडं अङ्कः । जुकृत० (१७३) इत्यण्डे करण्डः । इणुविश० (१८२) इति णे कर्णः । गए० (१८८) इति कित्यणि किरणः । ऋकृवृ० (१९६)
इत्युणि करुणा दया । करुणः करुणाविषयः । करुणं दैन्यम् । कृशसभ्य ऊर् चान्तस्य (२९८) २० इति पे कूपं भ्रूमध्यम् । कृशग० (३२९) इत्यभे करभस्त्रिवर्ष उष्ट्रः । कृशप० (४१८) इतीरे
करीरो वनस्पतिविशेषो वंशााकुर: कुम्भश्च । गौरादित्वात् ब्यां करीरी । कृतृभ्यामीषः (५५३) करीषः । नाम्युपान्त्य० (६०९) इति किदिः किरिः सूकरः । कृम ऋत उर् च (७३४ ) इत्युः कुरुः । 'कृग्श् हिंसायाम्' कृणाति कृणीते । गृत् इति । निगरणं भोजनम् । गिरतीत्यादि प्रक्रिया व्यक्ता ॥५॥ अत्रोपयोगि सूत्रम्
नवा खरे ॥६॥ [सि० २।३।१०२] गिरते रस्य लो वा स्यात् स्वरे परे । गिलति ४ । अगारीत् ५ । जगार ६ । गीर्यात् ७ । गरिता गरीता ८ । 'अवात्' (३३॥६७) गिर आत्मनेपदम् । अवगिरते । सम्पूर्वात्प्रतिज्ञार्थाद्वा स्याद् । वादं संगिरते संगिरति । 'ओव्रश्चौत् छेदने । वृश्चति ४ । वेट्त्वात् अब्रवीत् ।
सकारापदिष्टं शकारस्यापि अवाक्षीत् ५ । वव्रश्च वव्रश्चिथ वव्रष्ठ ६ । वृश्यात् ७ । व्रष्टा-ब्रश्चिता ३० 'प्रच्छंत् ज्ञीप्सायाम् । ग्रहव्रश्चेति वृत् पृच्छति ४ ॥६॥
'नवा.' स्पष्टम् । 'अवात्' (३।३।६७) इति सूत्रं स्पष्टम् । सम्पूर्वादित्यत्र सूत्रमेवम् 'समो गिरः' ( ३।३।६६) इति । ननु समं विना प्रतिज्ञायां गिरतेत्तिर्न दृश्यते ततः किं सम्ग्रहणेन ? । सत्यम् । केवलोऽप्यन्योपसर्गपूर्वोऽपि प्रतिज्ञायां वर्त्तते । 'अवादि'ति सूत्रवृत्तौ पृथग्योगात्प्रतिज्ञायामिति निवृत्तमिति भणनादन्यथा पृथग्योगादित्युक्तेरानर्थक्यं स्यादिति । कर्मकर्तरि किरादित्वाद् ३५ 'भूषार्थ०' (३।४।९३) इति क्यव्योः प्रतिषेधे निगिरते ग्रासः स्वयमेव । 'इटूसिजा०' (४।४।३६)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org