________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे तुदादयः परस्मैपदिनः
७०९ स्यात् । आक्रोशे क्षीणायुः क्षितायुर्जाल्मः । दैन्ये क्षीणकः क्षितकः तपस्वी । अध्यार्थ इत्येव । क्षितं जाल्मस्य क्षितं तपस्विनः । कश्चित्तु भावेऽपि विकल्पमिच्छति । क्षीणमनेन क्षितमनेन । क्षेर्भावकर्मणो षायां [ लक्षणशास्त्रस्य न भवति किन्तु च्छन्दस्येवेत्यर्थः] क्त एव नास्तीति कश्चित् । 'क्षेः क्षीः' (४।३।८९) यपि प्रक्षीय । निरनुबन्धनिर्देशात् 'क्षिग्श् हिंसाया'मित्यस्य न भवति । प्रक्षित्य । अस्यापि ग्रहणमित्यन्ये । 'क्षय्यजय्यौ शक्ती' (४।३।९०) क्षेतुं शक्यः क्षय्यो व्याधिः । शक्यं ५ क्षेतुं क्षय्यं बहुना । शक्ताविति किम् ? अर्हे क्षेयम् । 'जीण्डक्षिपरिभूवमाभ्यमाव्यथः' (५।२। ७०) एभ्यः शीलादौ सत्यर्थे इन् स्यात् । क्षीति क्षिक्षितोर्ग्रहणम् । , क्षयशीलः क्षयी । स्त्रियां क्तौ क्षितिः । भिदाद्यङि क्षिया । आधारे 'पुंनाम्निः' (५।३।१३०) इति घे क्षयो गृहम् । वसतिः शरणं क्षय इति हेमकोषवचनात् । उणादौ अर्तीरि० (३३८) इति में क्षेमम् । हुयामा० (४५१) इति त्रे क्षेत्रम् । 'क्षिं क्षये' क्षयति । 'क्षिग्श् हिंसायाम्' क्षिणाति । इति इदन्ताश्चत्वारो-१० ऽनिटः । 'पुत् प्रेरणे' सुवति । 'उपसर्गात्सुग' (२।३।३९) इति षत्वे अभिषुवति । अव्यवायेऽपि अभ्यषुवत् । सुषाव सुषुवतुः । सविता । किति 'उवर्णात्' (४।४।५८) इति नेट् सूतः २ । सूत्वा । सनि 'ग्रहगुहश्च०' (४।४।५९) इति नेट् ‘णिस्तोरेव०' (२।३।३७ ) इति नियमात्षत्वाभावे सुसूषति । 'प्रात्सूजोरिन्' (५।२।७१ ) प्रसवशीलः प्रसवी । 'पूडौक् प्राणिगर्भविमोचने' सूते । 'पूडौच् प्राणिप्रस' सूयते । इत्यूदन्त एकोऽनिट् । मृत् इति ॥ ४ ॥ अत्र सूत्रम्
म्रियतेरद्यतन्याशिषि च ॥५॥ [सि० ॥३॥४२] अद्यतन्याशिषि च म्रियतेरात्मनेपदं स्यात् । अद्यतन्यामाशिषि शिद्विषये च नान्यत्र । ऋतो रिः इति रित्वे इयादेशे म्रियते ४ । अमृत ५ । ममार ६ । मृषीष्ट मृषीयास्ताम् ७ । मर्ता मर्तारौ ८ । मरिष्यति ९ । अमरिष्यत् १० । कृत् विक्षेपे । गृत् निगरणे । ऋतां क्लितीर गिरति ॥५॥
'म्रिय०' 'ऋवर्णात्' (४।३।३६) इति सिजाशिषोरात्मने कित्त्वाद्गुणाभावे अमृत मृषीष्ट । शिदादेरन्यत्र परस्मैपदे ममार मम्रतुः । 'हनृतः०' (४।४।४९) इतीटि मरिष्यति । मर्ता । मृतः। सनि मुमूर्षति । अचि अमरः । उगादौ लूम्रो वा (२०२) इति वा किति ते मृतो गतप्राणः । मतः ऋषिः प्राणी पुरुषश्च । स्वार्थे ये मर्त्यः । मृशीपसिवस्यनिभ्यस्तादिः (३६०) इति तादौ ये वा मर्यो मनुष्यः । मुस्त्युक् (८०५) मारयति मृत्युः कालो मरणं च । इति ऋकारान्तोऽनिट् ।२५ कृत् विक्षेपे । किरति इति । 'अपस्किरः' (३।३।३० ) इत्यात्मनेपदे 'अपाच्चतुष्पात् पक्षिशुनिहृष्टानाश्रयार्थे' (४।४।९५) इति स्सटि अपस्किरते वृषभो हृष्टः । हर्षाद्विलिख्य तटं विक्षिपतीत्यर्थः । अपस्किरते कुक्कुटो भक्ष्यार्थी । अपस्किरते श्वा आश्रयार्थी । भक्ष्यार्थी कुक्कुटोऽवकरमाश्रयार्थी श्वा च भस्म विक्षिपतीत्यर्थः । कर्मकर्तर्येकधाताविति बिक्यात्मनेषु प्राप्तेषु 'भृषार्थ.' (३।४।९३ ) इति भिक्ययोः प्रतिषेधे अवकिरते पांसुः स्वयमेव । 'इसिजाशिषोरात्मने' (४।४।३६) वृतः परयो-३० रात्मनेपदविषययोः सिजाशिषोरादिरिड्वा स्यात् । 'वृतो नवा०' (४।४।३५) इति वेटो दीर्धेऽनिट सिच् 'ऋवर्णात्' (४।३।३६) इति कित्त्वे अवाकीष्टं पांसुः स्वयमेव । पक्षे अवाकरिष्ट । करिता करीता । किति 'ऋवर्ण,यू०' (४।४।५७) इति नेट कीर्णः २ । कीर्वा । 'ऋस्मिपूङ (४।४। ४८) इति सनीटि चिकरिषति चिकरीषति । अस्वेटो न दीर्घ इत्येके । 'वौ विकिरो वा' (४।४।३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org