________________
७०८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुच्यत । अनिट्त्वात् सेक्ता सिक्तः । 'नीदांव०' (५।२।८८) इति करणे त्रटि सेक्त्रम् । सिंह इति हिंसेः सिम् च (५८८) इति हे हिंसेः । इति चान्तौ द्वावनिटौ । विलंती इति । विन्दतीति । अद्यतन्यां लदित्त्वादङि अविदत् । आत्मनेपदे 'धुड्ह्रस्वात्' (४।३।७०) इति सिचो लुपि
अवित्त । वेत्ता। वित्तः वित्तवान् । वित्तं धनप्रतीते इति निपातनान्नत्वाभावे वित्तं धनं प्रतीतं च । ५ कसौ 'गमहनविद्लूविशदृशो वा' (४।४।८३) इति वेटि विविदिवान् विविद्वान् । 'लिम्पविन्दः' ( ५॥१॥६०) इति शे विन्दः । अणपवादे 'निगवादे.' (५।११६१) इति शे गोविन्दः । अरविन्दः । 'यावतो विन्दजीवः' (५।४।५५) इति णमि यावद्वेदं भुते । इति दान्तोऽनिद । लप्लंती इति । लुम्पतीत्यादि । लोप्ता । लुप्तः । घनि लोपः उणादौ हुयामा० (४५१) इति त्रे लोत्रमपहृतं द्रव्यम् । 'लिपीत् उपदेहे' इति उपदेहो वृद्धिः । 'ह्वालिपसिचः' (३।४।६२ ) इत्यडि १० अलिपत् । 'वात्मने' (३।४।६३) अलिपत अलिप्त । 'लिम्पविन्दः' (५।१।६०) इति शे लिम्पः । 'निगवादे.' ( ५।१।६१ ) इति शे निलिम्पा नाम देवाः । णके स्रियामपि विलेपिका अ(नु?)लेपिका ।
इत्युभयपदिनः । ९६ अथ परस्मैपदिनः । कृतैत् इति । कृन्ततीत्यादि स्पष्टम् । सादावशिति ‘कृतचूत०' (४।४।५०) इति वेट्त्वात् क्तयोर्नेट् कृत्तः कृत्तवान् । ऐदित्त्वात् यङ्लुबन्तादनेक
खरादपि क्तयोर्नेट चरीकृत्तः चरीकृत्तवान् । विपि कृत् । नन्द्याद्यने कर्तनः । उणादौ कृतिपुतिलतिमि१५ दिभ्यः कित् (७६ ) इति किति तिके कृत्तिका नक्षत्रम् । कृत्यशौभ्यां स्नक (२९४) कृत्स्नं सर्वम् । कृतेः क्रूकृच्छौ च (३९५) इति रे क्रूरः कृच्छ्रम् । नदिवल्लयर्तिकृतेररिः ( ६९८) कर्तरिः । 'कृतैप वेष्टने' कृणत्ति । तान्त एक सेट् । 'खिदत् परिघाते' परिताप इत्यन्ये । खिन्दति अखेदीत् चिखेद खेत्ता खिन्नः । भिदायडि खिदा । 'खिदिंच दैन्ये' खिद्यते । 'खिदिप दैन्ये' खिन्ते इति दान्त एकोऽनिट् । पिशत् अवयवे पिंशति अपेशीत् पिपेश पेशिता उणादौ पिशेराचक (११६) पिशाचः । २० प्रज्ञाद्यणि पैशाचः । क्रुशिपिशि० (२१२) इति किति ते पिशितं मांसम् । पिशिमिथि० (२९०)
इति कित्युने पिशुनः । मृदिकन्दि (४६५) इत्यले पेशलः । किलिपिलि० (६०८) इत्यौ पेशिमांसलेशः । इति शान्त एकः सेट् । * वृत् मुचादिः । -
अथ प्रकृतवर्णक्रमेणैव धातवो निर्दिश्यन्ते । 'रिं पित् गतौ'। रियति अरैषीत् रिराय 'योऽनेकस्वरस्य' (२।१।५६) इति यत्वस्य बहिरङ्गत्वेनाऽन्तरङ्गे 'भ्वादेर्नामिन०' (२।१।६३) २५ इति दीघे कर्तव्येऽसिद्धत्वादीर्घाभावे रियतुः । रेता । रितः २ । पियति अपैषीत् पिपाय पेता पितः । घुयुहिपितुशो दीर्घश्च (२४) पीकः उपस्थः । पिक इति तु पापुलि० (४१) इति किति के पिबतेः । 'धिंत् धारणे' धियति अधैषीत् दिधाय दिध्यतुः । घेता । धितः २ । 'क्षित् निवासगत्योः' क्षियति अक्षैषीत् चिक्षाय 'योऽनेकखरस्य' (२।११५६) इति यापवादे
'संयोगात्' (२।१।५२) इतीयादेशे चिक्षियतुः चिक्षियुः । क्षेता। क्षितः २ । क्षितो ग्रामः । ३० क्षितमनेन । कर्मभावाभ्यामन्यत्र 'क्षेः क्षी चाच्यार्थे' (४।२।७४) ध्यार्थी भावकर्मणी ततोऽन्यस्मिन्नर्थे विहितयोः क्तयोस्तकारस्य क्षि इत्येतस्मात्परस्य नकारो भवति । तत्सन्नियोगे चास्य क्षी इत्ययमादेशो भवति । कर्तरि क्षीणः क्षीणवान् मैत्रः । अधिकरणे इदमेषां क्षीणम् । अध्यार्थ इति किम् ? 'क्षितमस्य' भावे क्तः । 'शिंषश् हिंसायाम्' इत्यस्य सानुबन्धत्वान्न ग्रहणम् । अन्यस्तु ३४ तस्यापि ग्रहणमिच्छति । 'वाक्रोशदैन्ये (४।२।७५) आक्रोशे दैन्ये च गम्यमाने प्रागुक्तं वा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org