________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे तुदाद्यन्तर्गता मुचादयः
७०७ ( ५।३।९२ ) इति क्तौ दिष्टिः वितस्तिः । 'नाम्ना ग्रहादिशः' (५।४।८३) इति णमि नामादेशं दत्ते । 'तृतीयोक्तं वा' ( ३।१।५०) इति वा समासः । पक्षे नामान्यादेशम् । उणादौ वृमिथि दिशिभ्यस्थ यट्याश्चान्ताः (६०१) एभ्यः किदाः प्रत्ययो यथासङ्ख्यं थकार यकार ट्यकाराश्चैषामन्ता भवन्ति इत्याप्रत्यये, दिष्ट्या आनन्दोक्तौ निपातः । इति शान्तोऽनिट् । कृषीत् विलेखने । कृषति कृषते इत्यादि व्यक्तम् । उणादौ कृषेर्गुणवृद्धी च (३१) वेत्यके कर्षकः । कृषकः परशुः । कार्षक:५ कृषकः कुटुम्बी । पापुलि० (४१) इति कितीके कृषिकः पामरस्तुणजातिश्च । घृवीह्वा० (१८३) इति णे कृष्णो वर्णो विष्णुर्मगश्च । नाम्युपान्त्य० (६०९) इति किदिः कृषिः कर्षणं कर्षणभूमिश्च । कृषिचमि० (८२९) इत्यूः कः कुल्या अङ्गारपरिखा गर्त्तश्च । 'कृषं विलेखने' कर्षति ।
अथ मुचादयोऽष्टौ । तत्राद्याः पञ्चानिट उभयपदिनश्च त्रयः परस्मैपदिनस्तत्राद्यान्तौ सेटौ मध्यमोऽनिट् इति । मुच्लंतीति मोक्षणे ॥ ३ ॥ अत्र सूत्रम्
मुचादितृफटफगुफशुभोभः शे ॥ ४॥ [सि० ४।४।९९] एषां शे परे स्वरान्नोऽन्तः स्यात् । मुञ्चति १। अमुञ्चत् ४ । लदित्वाद, अमुचत् ५ । मोक्ता ८ । मुश्चते ४ । अमुक्त ५॥ सिञ्चति । ह्वालिप्सिच इत्यङि, असिचत् ५। सिञ्चते ४। वात्मने, असिचत्-असिक्त ५॥ विन्दति ४ । अविदत् ५। वेत्ता ८ । अवित्त ५। वेत्स्यते ९॥ लुम्पति ४ । अलुपत् ५ । लुम्पते ४ । अलुप्त ५ । लिम्पति ४ । अलिपत् ५। अलिपत १५ अलिप्त ५।
* इत्युभयपदिनः । 'कृतैत् छेदने' । मुचादित्वान्नोऽन्ते, कुन्तति ४ । अकर्तीत् ५ । चकर्त ६ । कृत्यात् ७ । कर्तिता ८ । कर्तिष्यति ९ । अकर्तिष्यत् १० । 'मुंत् प्राणत्यागे ॥४॥
'मुचादि०' एषामिति । मुचादीनां तृफादीनां च । तत्र मुचादयोऽनुपदं वक्ष्यन्ते । तृफादय-२० श्चैवम् । 'तृफ तुंफत् तृप्तौ' । 'दृफ इंफत् उत्क्लेशे' । 'गुफ गुंफत् ग्रन्थने' । 'शुभ शुम्भत् शोभार्थे' । 'उभ उम्भत् पूरणे' । तृफादयः सनकारान्ताश्च तुदादिषु पठ्यन्ते, तत्र तुम्फादीनां शे नस्य 'नो व्यञ्जनस्यानुदितः' (४।२।४५) इति लुग्भवतीति तृफादीनां नविधानम् । विधानसामर्थ्याच्चास्य लोपो न भवतीति । तृफति तृम्फतीत्यादि द्वैरूप्यं सिद्धम् । एषामिति किम् ? तुदति । श इति किम् ? मोक्ता मोक्तुम् । अद्यतन्यामात्मनेपदे 'धुड्तस्वात्' (४।३।७० ) इति सिचो लुपि २५ अमुक्तेति । सनि अव्याप्यस्य मुञ्चेर्मोग्वेति मोकादेशे द्वित्वाभावे च एकधाताविति क्यस्य 'भूषार्थ' (३।४।९३) इति प्रतिषेधे मोक्षते वत्सः स्वयमेव पक्षे मुमुक्षते । घधि निर्मोकः । उणादौ मावावदि० (५६४) इति से मोक्षः । नाम्युपान्त्य० (६०९) इति किदौ मुचिः । न मुञ्चति न न मुञ्चति वा नमुचिः । नखादित्वात्साधुः । सूत्रमिति तु सुमूखन्युषिभ्यः कित् (४४९) इति त्रटि 'मूङ् बन्धने' इत्यस्य रूपम् । षिचीत् इति । सिञ्चति । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५)३१ इति पत्वे सिषेचे । सिषेच । सोपसर्गस्य च 'स्थासेनि०' (२।३।४०) इत्यादिना सस्य पत्वे अभिपिञ्चति । अव्यवायेऽपि अभ्यषिञ्चत् । द्वित्वेऽपि, अभिषिषिक्षति । सोपसर्गात् सिञ्चतेो अभ्यपीषिचत् । ण्यन्तस्योपसर्गयोगे पूर्वस्य न षत्वम् अभ्यसीषिचत् । ‘णिस्तोरेव.' (२।३।३७ ) इति नियमात् षत्वाभावे सिसिक्षति । यङि 'सिचो यडि' (२।३।६०) इति निषेधे सेसिच्यते असेसि-३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org