________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
भृज्जो भर्ज् ॥ ३ ॥ [ सि० ४ ४ ६ ]
भृञ्जतेरशिति भर्ज् वा स्यात् । अभार्थीत् । संयोगस्यादाविति स्कलुकि, अभ्राक्षीत् ५ । बभर्ज-बभ्रञ्ज बभर्जतुः बभ्रजतुः । संयोगाद्वित्परोक्षायाः कित्त्वाभावः बभर्जिथ बभर्ष्ट, वभ्रजिथ बभ्रष्ठ ६ । भृज्यात् ७ । भष्ट-भ्रष्टा ८ । भक्ष्र्क्ष्यति भ्रक्ष्यति ९ ॥ भृञ्जते ४ । अभष्ट- अभ्रष्ट ५ । ५बभर्जे बभ्रजे ६ । भर्क्षीष्ट-भ्रक्षीष्ट ७ । 'क्षिपत् प्रेरणे' । क्षिपति ४ । अक्षैप्सीत् ५ । क्षेप्ता ८ । क्षेप्स्यति ९ ॥ क्षिपते ४ । अक्षिप्त ५ । प्रत्यभ्यतेः क्षिपः ( ३|३ | १०२ ) परस्मैपदमेव । 'दिशत् अतिसर्जने' दाने इत्यर्थः । दिशति ४ । अदिशत् ५ । देष्टा ८ || दिशते ४ | अदिक्षत ५ । दिक्षीष्ट ७ । 'कृषींत् विलेखने' । कृषति कृपते ४ । स्पृशमृशेति वा सिजि, स्पृशादि सृपो वेत्यादागमे, अक्राक्षीत् अकाक्षत् अकक्षत् ५। क्रष्टा कष्ट ८ ।। अकृष्ट ५ । कुक्षीष्ट ७ । १० क्रक्ष्यते कर्क्ष्यते ९ । 'मुच्चंती मोक्षणे' १ 'षिचींत् क्षरणे' २ 'विदूंती लाभे' ३ 'लुप्लंती छेदने' ४ 'लिपींत उपदेहे' ५ 'कृतैत् छेदने' ६ 'खिदंत् परिघाते' ७ 'पिशत् अवयवे' ८ इत्यष्टौ मुचादयो ज्ञेयाः ॥ ३ ॥
७०६
'भृज्जो ० ' स्पष्टम् । भृज्यादिति । ननु परत्वाद् भर्जादेशे कथमत्र वृद्भवतीत्यत्रोच्यते परत्वाअर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण वरेण सह वृद्भवति । तथा च पक्षद्वयेऽपि भृज्यात् इति तुल्यमेव १५ रूपम् । एवं भृज्यते । भृष्टः भृष्टवान् । बरीभृज्यते इत्यादिष्वपि क्किति रूपद्वयस्यापि वृद्भवनेन तुल्यरूपत्वमेव । 'भृज्जो भर्ज' इत्यत्र लुप्ततिनिर्देशो यङ्लुत्निवृत्त्यर्थः । बरी रिर भृज्जीति । अत्र द्वित्वे स (ति) पूर्वस्य भर्जादेशो मा भूत् । किं चात्र 'लुप्यय्वृल्लेत्' (७|४|११२ ) इति परिभाषायां अय्वृलेनदित्युक्तेर्यङ्लुप्यपि वृत् सिद्धम् । सनि 'इवृध ० ' ( ४|४|४७ ) इति बेटि भर्जादेशविकल्पे च विभर्क्षति-बिभ्रक्षति-बिभर्जिषति - बिभ्रज्जिपति इति चातूरूप्यम् । 'ऋवर्ण ० ' ( ५|१|१७ ) इति व्यणि, २० ' क्तेऽनिट ० ' ( ४|१|१११ ) इति गत्वे, निमित्ताभावे दन्त्य सः । तस्य 'तृतीय ० ' ( १।३।४९ ) इति दः भ्रद्यं भर्ग्यं । भर्गः भ्रगः । भर्जनं भ्रज्जनम् । भ्रष्टुं भर्हुम् । कर्मणो णि नाम्युत्तरेत्युदादेशे उदभ्रज्यः । भीमादित्वादपादानत्तौ भृज्यतेऽस्यां भृष्टिः । उणादौ सूधूभूभ्रस्जिभ्यो वा ( २७४ ) एभ्यो नः स च किद्वा भवति । भृज्जनं अन्तरिक्षं अम्बरीषः पाकश्च । भ्रजनः पावकः । जिभ्रसृ० (४४७ ) इति त्रुटि वृद्धौ च भ्राष्ट्रम् । स्पशिभ्रस्जेः स्लुकू च ( ७३१ ) आभ्यां किदुः प्रत्ययः २५ सकारस्य लुग् भवति । भृगुः प्रपातः ब्रह्मणश्च सुतः । ' ग्रहश्च ० ' ( ४|१|८४ ) इति श्रुत् । 'न्यङ्कमेघादय:' ( ४।१।११२ ) इति गत्वम् । इति जान्त एकोऽनिट् । क्षिपत् इति । उपसर्गयोगे विशेषसूत्रम् ' प्रत्य० ' ( ३।३।१०२ ) प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति । ईदित्वात्फलवि प्राप्तस्यात्मनेपदस्यापवादोऽयम् । क्षेप्ता । क्षिप्तः । ' नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के क्षिपः । 'त्रसिगृधि०' (५।२।३२ ) इति नौ क्षेपशीलः क्षिप्नुः । ' क्षिपट' (५/२/६६ ) इति घिणि ३० परिक्षेप्यम्भसाम् । ‘वादेश्व णक:' ( ५|२|६७ ) इति णके परिक्षेपकः । उणादौ धूधून्दि० (२९) इति कित्यके पिकः वायुः । क्षिपकादित्वादित्वाभावे क्षिपका आयुधम् । ऋज्यजि० ( ३८८ ) इति किति रे क्षिप्रं शीघ्रम् । क्षिपेः कित् ( ६४२ ) इत्यणौ क्षिपणिः आयुधम् वडिशबन्धकः चर्मकृता पाषाणसर्जनी च । क्षिपेरणुक् ( ७७० ) इति कित्यणौ क्षिपणुः समीरणः । 'क्षिपंच प्रेरणे' क्षिष्यति । इति पाएकोsनिट् । दिशींत् इति देष्टा दिष्टं दैवम् | 'सम्पदा० ' ( ५|३|११४ ) इति विपि ३५ 'ऋदिशू ० ' (२।१।६९ ) इति पापवादे गे दिश्यते सेति दिकू । भिदाद्यङि दिशा । 'श्रवादिभ्यः '
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org