________________
७०४ . महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुधृष०' (५।४।९० ) इति तुमि धृष्णोति गन्तुम् । 'धृष प्रसहने' । 'युजादे'रिति वा णिचि धर्षयति धर्षति इति षान्तः सेट् । इति * इति परस्मैपदिनोऽष्टादश ।
'अशौटि व्याप्तौ । अश्नुते । अश्नुवीत ४ । आशिष्ट आष्ट ५। ऋदाद्यशाविति नुमि, आनशे ६ । अशिषीष्ट अक्षीष्ट ७ । अशिता अष्टा ८ । अशिष्यति अक्ष्यति ९ । आशिष्यत् ५आक्ष्यत् १०।
* इत्यात्मनेपदिनः । इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
हैमलघुप्रक्रियायां खादयो धातवः पूर्णाः। 'ष्टिघिट आस्कन्दने' । 'षः स०' (२।३।९८) इति षस्य सत्वे निमित्ताभाव इति दस्य तत्वे । १० 'इडित०' (३।३।२२) इत्यात्मनेपदे स्तिध्नुते । षोपदेशत्वात् 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे तिष्टिथे । स्तेघिता । अशौटि इति । सनि ऋस्मिपूङञ्जशौ० (४।४।४८) इतीटि, 'स्वरादेः०' (४।१।४) इति द्वितीयांशस्य द्वित्वे अशिशिषते । 'अट्यर्ति०' (३।४।१०) इति यडि अशाश्यते । वेट्त्वात् क्तयोर्नेट अष्टः अष्टवान् । णौ आशयति । डे आशिशत् । अष्टा अशिता ।
अष्ट्वा अशित्वा । अष्टुम् अशितुम् । कृवापा० (१) इत्युणि अभुते तेजसा सर्व केदारं वा इति १५ आशुः सूर्यो ब्रीहिश्च अशनं वा । आशु क्षिप्रम् । अश्नुते इति वा आशुः शीघ्रगामी शीघ्रकारी च ।
श्वशुरकुकुन्दुर० (४२६) इति निपातनात् आशुपूर्वात् शुपूर्वाद्वाऽश्नोतेर्वा उर प्रत्यय आकारलोपश्च श्वशुरः जम्पत्योः पिता । स्त्रियां 'नारीसखी' (२।४७६) इति निपातनादूङि श्वश्रूः । मीज्य जिमामद्यशौवसिकिभ्यः सरः (४३५) इति सरप्रत्यये अक्षरं वर्णः मोक्षपदं आकाशं च ।
अश्नोतेरीच्चादेः (४४२) इति वरद्प्रत्यये ईश्वरो विभुः, ईश्वरी स्त्री । इध्यशिमसिभ्यस्तकक् २०(७७) इति तककि अष्टकास्तिस्रोऽष्टम्यः पितृदैवत्यं कर्म । षप्यशोभ्यां तन् (९०३) 'षप
समवाये' । सप्त अष्टौ । उभे सये । लटिखटि. (५०५) इति वे अश्वः मावावदि० (५६४ ) इति से अक्षाः प्रासकाः । अक्षाणि इन्द्रियाणि रथचक्राणि च । अशोरश्चादिः (६२२) इति णिति इप्रत्यये धातो रादित्वे च राशिः समूहः, नक्षत्रपादनवरूपश्च मेषादिः । सदिवृति०
(६८०) इत्यनौ अशनिः इन्द्रायुधम् । अशो रश्चादिः (६८८) इति मौ रश्मिः । तद्भिवडि २५ (६९२) इति रौ अश्रिः कोटिः । अशेरान्नोन्तश्च (७१९) उप्रत्ययेऽकारात्परो नोन्तः अंशुः रश्मिः सूर्यश्च । प्रांशुदीर्घश्च । अशेर्यश्वादिः (९५८) इत्यसि यशः । अशेर्डित् खः प्रत्ययो भवति । अश्नुते इति खं आकाशं इन्द्रियं च । नास्ति खमस्मिन्नखः । शोभनानि खान्यस्मिन् सुखम् । दुःष्टानि खान्यस्मिन् दुःखम् । 'अशश् भोजने' अश्नाति । इत्यात्मनेपदिनौ द्वौ । 'उभयपदिनो नवाऽ. ष्टादश च परस्मैपदस्पृशो ज्ञेयाः । द्वावात्मनेपदस्थावेकोनत्रिंशदित्येवम्' । इति स्वादयः । .
यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रिया
वृत्तौ धातव इत्यमी निगदिताः स्पष्टं टितः स्वादयः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org