________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खादय आत्मनेपदिनः
७०३
I
"
1
आप्ता । 'गत्यर्थ ० ' ( ५|१|११ )
।
( ५/१/५३ ) इति णिनि अपराधी, उपराधी । धनि राधः । 'घब्युपसर्गस्य ० ' ( ३।२।८६ ) इति वा दीर्घे अनूराधः । तौ राद्धिः । 'राधेच् वृद्धौ' राध्यति । साधं, सानोति ससाध । अषोपदेशत्वात् षत्वाभावे सिसात्सति, सिसाधयिषति । णौ नन्द्याद्यने साधनः । उणादौ कृवापाजि० ( १ ) इत्युणि साधुः । 'ऋधूट् वृद्धौ' ऋघ्नोति । ऋत्यारित्युपसर्गावर्णस्यारि प्राप्नोति परार्ध्नोति । 'अनात०' ( ४|१|६९ ) इति पूर्वस्यात्वे आनन्ते च आनर्ध आनृधतुः । आर्धिता । क्त्वि वेट् ऋध्वा अर्धित्वा १५ सनि 'इवृध०' (४|४|४७ ) इति वेट् अर्दिधिषति । पक्षे 'ऋध ई ( ४।१।१७ ) ईर्त्सति । वेट्त्वात् क्तयोर्नेट् ऋद्धः ऋद्धवान् । 'ऋधूच् वृद्धौ' ऋध्यति । इति धान्तास्त्रयस्तत्राद्यावनिटावन्त्यः सेट् । आप्लंट् इति आप्नोति । ऌदिवादङ् आपत् । आप । इति वा कर्त्तरि क्ते प्राप्तो धर्मम् । पक्षे कर्मणि प्राप्तो धर्मोऽनेन । भावे प्राप्तमनेन । सनि 'ज्ञप्यापो ज्ञीपी न च द्वि:' ( ४।१।१६ ) सिसनि ज्ञपेरापेश्व सकारादौ सनि परे यथासङ्ख्यं ज्ञीप् ईप् १० इत्यादेशौ वा भवतः । न चानयोरेकस्वरोंऽशो द्विर्भवति । आदेशे कृते द्वित्वं प्राप्नोतीति निषिध्यते । आदेश संयोगे च निषेधादन्यत्र द्वित्वं भवत्येव । सिसनीति किम् ? जिज्ञपयिषति । 'इवृध० ' इत्यादिना वेट्, अनेन ईपि द्वित्वाभावे च ईप्सति । यपि 'वाप्नो:' ( ४।३।८७ ) इति णेर्वा अय् प्रापय्य प्राप्य । 'व्याप्ये केनः ' ( २।२।९९ ) इति कर्मणि सप्तम्यां समाप्तमनेन श्रुतमितीष्टादेरितीति समाप्ती श्रुते । तौ प्राप्तिः । आपोपच ( २३८ ) इति दे अब्दः । आपः किप् हस्वश्चेति आपो १५ जलम् । अम्भ इति तु अमेर्भहौ चान्तौ ( ९६२ ) इत्यमेरसि । 'तृपट् प्रीणने' । क्षुम्नादित्वाण्णत्वाभावे तृप्नोति अतपत् ततर्प तर्पिता तृपितः । 'तृपौच प्रीतौ' । तृप्यति । तृप्तः । इति पान्तौ द्वौ । आद्योऽनिट् द्वितीयः सेट् । 'दम्भूद् दम्भे' दनोति अदम्भीत् ददम्भ । दम्भः । (४|१| २८) दम्भेरवित्परोक्षायां स्वरस्य ऐ: स्यात्तत्सन्नियोगे नस्य लुक्, न च द्विः । इति स्वरस्यैत्वे, नलुकि द्वित्वाभावे च देभतुः । 'थे वा' ( ४ । १ । २९ ) दम्भेः स्वरस्य थे परे एर्वा स्यात् । देभिथ २० ददृम्भिथ । दम्भिता । सनि ' इवृध ० ' ( ४|४|४७ ) इति वेटि दिदम्भिषति पक्षे 'दम्भोधिप् धीपू' ( ४।१।१८ ) न च द्विः धिप्सति, धीप्सति । ऊदित्त्वात् क्त्वि वेद् दब्ध्वा दम्भित्वा । क्तयोर्नेट् दब्धः २ । उणादौ ऋज्यजि० इति किति रे दभ्रः । इति भान्तः सेट् । 'कृवुट् हिंसाकरणयोः' 'श्रौतिकृवु०' ( ४।२।१०८ ) इति कृ आदेशे कृणोति । 'धिवुट् गतौं' प्रीणनेष्यन्ये 'श्रौति ०' इति धि आदेशे धिनोति । उदित्त्वान्नोन्ते अधिन्वीत अधिन्विष्टाम् अधिन्विषु । दिधिन्व २५ दिधिन्वतुः दिधिन्विम । धिन्व्यात् धिन्विषीष्ट । धिन्विता । धिन्विष्यति । सनि दिधिन्विषति । देधिन्व्यते । धिन्वयति । न्यदिधिन्वन् । धिन्वत् । धिन्विता । धिन्वितुम् । धिन्वित्वा । धिन्वितः २ । वान्तौ द्वौ सेटौ । 'ञिधृषाट् प्रागल्भ्ये' । धृष्णोति अधर्षीत् दधर्ष धर्षिता । "धृषशसः प्रगल्भे' ( ४।४।३६ ) इति क्तयोर्नेट् । धृष्टः २ | नीत्वात् 'ज्ञानेच्छा ० ' ( ५।२।९२ ) इति सति क्तः । प्रागल्भ्यार्थादन्यत्र इटि 'न डीशीङ्पूङ्धृषिक्ष्वि दिखिदिमिदः' ( ४।३।२७ ) इति कित्त्वा - ३० भावगुणे धर्षितः २ । आदित्वात् ' वा भावारम्भे' ( ४।४।७२ ) इति वा नेट् । धृष्टमनेन धर्षितमनेन प्रधृष्टः प्रधर्षितः । किपि 'ऋत्विगदिश् ० ' ( २।१।६१ ) इति गत्वे निर्देशादेव द्वित्वे दधृग् | ‘त्रसिगृधि०' ( ५/२/३२ ) इति क्तौ धर्षणशीलो धृष्णुः । ' तृषिधृषिस्वपो नजिङ्' (५|२| ८०) इति नजिङि धृष्णक् । 'शासूयुधि ० ' ( ५।३।१४१ ) इति खलपवादे ने दुर्द्धर्षणः । 'शक- ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org