________________
७०२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु(९११) कृसिकमि० (७७३) इति तुनि हेतुः । इति इदन्तोऽनिट् । 'श्रृंट श्रवणे । गतावित्यन्ये । [श्रोतिकृविति शुःशृणोति ] 'समो गमृच्छि०' (३।३३८४) इत्यात्मनेपदे संशृणुते । कर्मणि तु सति परस्मैपदे संशृणोति हितम् । 'क्रसृवृ.' (४।४।८१) इत्यत्र श्रोर्वर्जनादिडभावे शुश्रोथेति । सनि 'श्रुवो नाङ्०' (३।३१७१ ) इत्यात्मनेपदे शुश्रूषते धर्मम् । आप्रतेस्तु परस्मैपदे ५आशुश्रूषति प्रतिशुश्रूषति । 'प्रत्याङः श्रुवार्थिनि' (२।२।५६) इति चतुर्थ्यां मैत्राय प्रतिशृणोति
आशृणोति । श्रोता । श्रुतः २ । णौ सनि 'श्रुजुद्रुषुप्लुच्योः ' (४।१।६१) इति पूर्वस्योतो वेत्वे शिश्रावयिषति शुश्रावयिषति । ● 'असमानलोपे०' (४।१।६३ ) इति सन्वद्भावे अशिश्रवत् अशुश्रवत् । 'ग्रहादिभ्यः०' (५।१।१३) इति णिनि श्रावी । गणनिपातनात् ह्रस्वः श्रवीत्येके । 'श्रुसद.' (५।२।१) इति भूतमात्रे वा परोक्षा शुश्राव । पक्षे अश्रौषीत् अशृणोत् । 'तत्र कसु०' (५।२।२) १० इति कसौ शुश्रुवान् । विपूर्वात् 'क्षुषोः' (५।३।७१) इति घत्रि विश्रावः । 'वादिभ्य' (५।३।
९२) इति क्तौ श्रूयतेऽनयेति श्रुतिः । करणेऽनटि श्रवणं कर्णः । उणादौ तृकश० ( १८७) इत्यणे श्रवणः अश्वत्थः कर्णश्च । हुयामा० (४५१) इति त्रे श्रात्रम् । कावावी० (६३४ ) इति णौ श्रोणिः । अस् ( ९५२) इत्यसि श्रवः । “टुदुंट् उपतापे' दुनोति दुदाव दोता। 'दुगोरूच' (४।२।
७७) इति क्तयोस्तस्य नत्वे ऊत्वे च दूनः । 'वा ज्वलादि०' (५।११६२) इति वा णे दावः । पक्षे १५ अचि दवः । ट्वित्त्वादथौ ददथुः । '१ गतौ' दवथुः । इत्युदन्तावनिटौ च । 'ट् प्रीतो' पृणोति
पपार थवि 'ऋतः' (४।४।७९) इति नेट पपर्थ । पर्ता । सनि पुपूर्षति । 'धृक् पालनपूरणयोः' पिपर्ति । 'स्मृट् पालने च' चकारात्प्रीतौ । जीवनेऽपीत्यन्ये, । स्मृणोति सस्मार सस्मर्थ स्मर्ता । पोपान्त्योऽयमित्येके । स्पृणोति पस्पार स्पर्ता । इति ऋदन्तावनिटौ च । शक्लंट् इति अनिट्वात्
शक्तश्चैत्रः । 'शकः कर्मणि' (४।४।७३ ) अस्य कर्मणि विहितयोः क्तयोरादिरिड्वा स्यात् । शक्तः २० शकितो वा धर्मः कर्तुं चैत्रेण । सनि 'रभलभ.' (४।१।२१) इति स्वरस्य इत्वे द्वित्वाभावे च शिक्षति । 'शको जिज्ञासायाम्' (३।३।७३) इत्यात्मनेपदे विद्याः शिक्षते । 'शकितकि०' (५।१। २९) इति ये शक्यः । 'शकधृष०' (५।४।९०) इति ( तुमि ) शक्नोति भोक्तुम् । 'शकींच मर्षणे' शक्यते शक्यति । 'तिक, तिग, षघट् हिंसायाम्' । आद्यावास्कन्दनेऽपीत्यन्ये, तिनोति तितेक
तेकिता । 'नाम्युपान्त्य०' (५।१।५४ ) इति के तिकः । इति कान्तौ द्वौ, तत्राद्योऽनिट् द्वितीयः २५ सेट् । तिग, तिम्रोति तितेग तेगिता 'नाम्युपान्य०' (५।११५४) इति के तिगः । इति गान्तः
सेट् । षघट्, 'पः स०' (२।३।९८) इति सत्वे सनोति ससाघ षोपदेशत्वात् 'णिस्तोरेव० (२।३।३७) इति सत्वे सिषाघयिषति । अषोपदेशोऽयमित्येके। सिसाघयिषति । 'तिघ[व]षघ हिंसायामन्ये पेठुः' । तिनोति [व] पन्नोति इति घान्तः सेट् । 'राधं साधंट् संसिद्धौ' संसिद्धिः फल
संपत्तिः । 'यद्वीक्ष्ये' (२।२।५८) इति चतुर्थी मैत्राय रानोति । रराध आरराध गुरुम् । ३. अवित्परोक्षासेट्थवोरेः' (४।१।२३) राधेहिंसायां वर्तमानस्य अविति परोक्षायां थवि च
सेटि स्वरस्य एकारो भवति, न चायं द्विर्भवति । रेधतुः रेधः । रेधिथ शत्रुम् । अपरेधतुः अपरेधुः अपरेधिथ अपरेधिव अपरेधिम । वध इत्येव आरराधिथ । अनिद्वात् राद्धा राद्धः । सनि
राधेवधे (४।१।२२) वधे वर्तमानस्य राधेः सकारादौ सनि परे स्वरस्य इकारो भवति, न ३४ चास्य द्विः । प्रतिरित्सति अपरित्सति । वध इति किम् ? आरिरात्सति गुरून् । 'ग्रहादिभ्यः०'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org