________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे खादयः परस्मैपदिनः
७०१ "संयो' प्रकटार्थम् । क्ये 'क्ययाशीर्ये' (४।३।१०) इति गुणे आस्तयते । यङि तास्तर्यते । विस्तीर्ण इति तु स्तृणातेः । 'कुंग हिंसायाम् । कृणोति कृणुते । अकार्षीत् अकृत । चकार चक्रे । कर्ता । 'दुवंग करणे' करोति, करति । वृगट् इति । परोक्षाधवि 'ऋवृव्येद इट्' (४।४।८०) इतीटि ववरिथेति । ‘स्क्रसृवृ०' (४।४।८१) इत्यत्रास्य वर्जनात् ववृव ववृमेति । आत्मनेपदे वृणुते इत्यादि स्पष्टम् ॥ ५ ॥ अद्यतन्यां सूत्रम् ।
इट् सिजाशिषोरात्मने ॥६॥ [सि० ४।४।३६ ] ___ वृभ्यामृदन्तेभ्यश्च परयोरात्मनेपदे सिजाशिषोरादिरिड्डा स्यात् । अवरिष्ट अवरीष्ट अवृत ५। वत्रे ६ । वृषीष्ट-वरिषीष्ट ७।
+7 इत्युभयपदिनः । 'इट' आशिषि दीर्घाभावे वरिषीष्टेति । सनि 'इवृध०' (४।४।४७) इति वेट विवरीषति १० वुवूर्षति । 'ऋवर्णश्यूणुग०' (४।४।५७ ) इति किति नेट वृत्वा । वृतः वृतवान् । 'वर्योपसर्यावद्यपण्यमुपेयर्तुमतीगीविक्रेये' (५।१।३२) इति निपातनात् वर्यमुपेयम् । स्त्री वर्या । अन्यस्तु 'दृवृग् स्तुजुषेतिशासः' (५।१।४०) इति क्यपि वृत्यः । बाहुलकाद् ध्यणि ण्यन्ताद्वा ये वार्यम् । 'भृवृजितृतपदमेश्च नाम्नि' (५।१।११२) इति खे पतिवरा कन्या । 'युवर्ण०' (५।३।२८) इत्यलि वरः । 'नेषुः' (५।३।७४) इति घनि नीवारा ब्रीहयः। 'वृगो वस्त्रे (५।३।५२) प्रपूर्वादृणोते-१५ र्वस्त्रविशेषे वाच्ये अल् भवति प्रवरः । पक्षे घबि 'घब्युपसर्गस्य०' (३।२।८६) इति दीर्घ प्रावारः । उणादौ विचिपुषि० (२२) इति के वृकः । जुकृत० ( १७३) इत्यण्डे वरण्डः कुड्यं तृणकाष्ठादिभारश्च । तृकशप० (१८७) इत्यणे वरणः वृक्षविशेषः । कृगशदृ० (४४१) इति वरदि वर्वरः कामः चन्दनं लुब्धकः । वर्वरी नदी भार्या च । वृग्न क्षि० (४५६) इत्यत्रे वरत्रा। ण्यन्तात् स्वरेभ्य० (६०६) इत्यौ वारिः गजग्रहणग" । वारि जलम् । अजिस्था० (७६८ ) २० इति णौ वणुः हृदः वाद्वारौ (९४४ ) इति निपातनात् किपि वार्जलम् । वरूथ इति तु जवृभ्यामूथः ( २३६) इति वृणातेः । वर्ण इत्यपि, इणुर्विश० ( १८२) इति णे वृणातेः । इति ऋदन्तास्त्रयो वृग्वर्जा अनिटश्च । एते नवोभयपदिनः ।
'हिंट गतिवृद्ध्योः ' । हिनोति ४ । अदुरुपसर्गेति णत्वे, प्रहिणोति । अहैषीत् ५ । अङे हिहनो हो घ इति, जिघाय ६ । हीयात् ७ । हेता ८ । हेष्यति ९ । 'श्रृंट् श्रवणे' । श्रौती-२५ त्यादिना, शृणोति ४ । अौषीत् ५ । शुश्राव शुश्रोथ ६ । 'शक्लृट् शक्तौ । शक्नोति शक्तः। भ्रूश्नोरित्युवादेशे, शकुवन्ति । संयोगादेहेश्च लोपाभावः । शकुवः । शकुहि ४ । लदित्वाद अशकत् ५। शशाक ६ । एवं 'आप्लंट् व्याप्तौ' । आमोति ।
इति परस्मैपदिनः । हिंट् इति । अदुरुपसर्ग० (२।३।७७ ) इति णत्वे प्रहिणोति । सनि जिघीषति । यडि जेपी-३० यते । ढे तु घाभावे प्राजीहयत् । हेता । प्रहितः । 'सातिहेति०' (५।३।९४) इति क्तौ निपातनात् हेतिः । अचि अलि वा हयः । गौरादित्वात् ड्यां हयी अश्वा उणादौ घुयुहि० (२४) इति किति के दीर्घ च हीकः पक्षी । क्षुहिभ्यां वा (३४१) इति वा किति मे हिमम् हेमम् । मनि हेम ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org