________________
७०० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुश्येन इव चीयतेस्म श्येनचित् रथचक्रचित् (अग्न्यर्थक इष्टचय उच्यते )। 'हस्तप्राप्ये चेरस्तेये (५।३।७८) हस्तेनोपायान्तरनिरपेक्षेण प्राप्तुं शक्यं हस्तप्राप्यम् । तद्विषयाचिनोतेर्भावाकोंर्घञ् भवति । न चेद्धात्वर्थः स्तेये चौर्ये भवति । हस्तप्राप्यशब्देन प्रत्यासत्तिः प्राप्यस्य लक्ष्यते । तेन प्रत्यासत्तिविषये धात्वर्थे विधानम् । पुष्पप्रचायः फलावचायः फलोच्चायः । हस्तप्राप्य इति किम् ? ५पुष्पप्रचयं करोति तरुशिखरे । अस्तेय इति किम् ? स्तेयेन पुष्पप्रचयं करोति । 'चितिदेहावासोपसमाधाने कश्चादेः' (५।३।७९) चीयत इति चितिर्यज्ञेऽग्निविशेषस्तदाधारो वा । देहः शरीरम् । आवासो निवासः । उपसमाधानमुपर्युपरि राशीकरणम् । एष्वर्थेषु चिनोतेर्भावाकोंर्घञ् तत्सन्नियोगे चादेः ककारादेशो भवति । चितौ, आकायमाग्नं चिन्वीत । देहे कायः शरीरः ।
आवासे ऋषिनिकायः । उपसमाधाने गोमयनिकायः । कथं काष्ठनिचयः ? बहुत्वमात्रविवक्षायाम् । १० एष्विति किम् ? चयः । चः क इत्येव सिद्धे आदिग्रहणमादेरेव यथा स्यात् । तेन चेर्यङ्लुपि निके
चाय इत्येव भवति । 'सङ्घऽनूइँ' (५।३।८०) न विद्यते कुतश्चिदूर्ध्वमुपरि किञ्चिद्यस्मिन् सोऽनूर्ध्वस्तस्मिन् सङ्के प्राणिसमुदाये चिनोतेर्भावाकोंर्घञ् तत्सन्नियोगे चादेः को भवति । वैयाफरणनिकायः तार्किकनिकायः । सङ्घ इति किम् ? सारसमुच्चयः प्राण(प्रमाण)समुञ्चयः । अनूर्व
इति किम् ? सूकरनिचयः । सूकरा हि उपर्युपरि चीयन्ते । पूर्वेणापि व्यावृत्तिबलान्न भवति । माने १५ (५।३।८१) [माने गम्यमाने धातोर्भावाकोंर्घञ् भवति । सा च द्वेधा संख्या परिमाणं च । एको निघासः, द्वौ निघासौ, एकस्तण्डुलावक्षायः, एकस्तण्डुलनिश्चायः, एकः कारः, द्वौ कारौ त्रयः काराः द्वौ सूर्यनिष्पावौ । समित्संग्राहः तण्डुलसंग्राहः मुष्टिरित्यर्थः । मान इति किम् ? निश्चयः। अल एवायमपवादः । त्यादिभिस्तु बाध्यते । एका तिलोच्छृतिः द्वे प्रसृती] | उणादौ 'चिजि.' (३९२)
इति रे दीर्घ च चीरं, जीर्ण वस्त्रं वल्कलं च । चिमिदिशंसिभ्यः कित् (४५४) इति किति त्रे २० चित्रं आश्चर्य आलेख्यं वर्णश्च । चित्रा नक्षत्रम् इति इदन्ताश्चत्वारोऽनिटः । धूगट् इति । धुनोतीत्यादि स्पष्टम् । णौ 'धूनप्रीगोर्नः' (४।२।१८) इति ने धूनयति । 'लूधूसूखनिचरसहार्तेः' ( ५।२। ८७) इति इत्रे धूयतेऽनेनेति धवित्रमित्येके । वेट्त्वात् क्तयोर्नेट् अवधूतः २ । 'युवर्ण ०' (५।३। २८) इत्यलि धवः । उणादौ ध्रुधून्दि० (२९) इत्यादिना कित्यके धुवका आवपनविशेषः । विलिभिलि० (३४०) इति किति मे धूमः । कृधूतनि० (४४०) इति किति सरे धूसरः । उदन्तोऽ२५ निट् चायमित्यन्ये । धुनुते धुनोति । धुतः २ । 'धूत् विधुवने' धुवति । 'धूम्श् कम्पने' । धुनाति
धुनीते । 'धूग्ण कम्पने' धूनयति । णिजभावे धवति धवते । इत्यूदन्त एकः सेटः । 'स्तूंगट् इति । स्तृणोतीत्यादि स्पष्टम् ॥ ४ ॥ आत्मनेपदे सिजाशिषोः सूत्रम्
संयोगादृतः ॥ ५॥ [सि० ४।४।३७] संयोगात्परो य ऋस्ततः परयोरात्मनेपदे सिजाशिषोरादिरिड्वा स्यात् । अस्तरिष्ट अस्तृत ६ । तस्तरे ६ । स्तरिषीष्ट ७ । 'वृगट् वरणे' वृणोति ४ । अवारीत् ५। ववार ववरिथ ववृव ६ । ३१ बियात् ७ । वृतो नवेति वा दीर्घ, परिता वरीता ८ । वरिष्यति वरीष्यति ९ । वृणुते ४ ॥५॥
१ प्रतिषु केवलं सूत्रं दृष्टम् , बुत्तिस्तु सिद्धहेमबृहद्भुत्तेहीता-संपादकः। २ केचित्तु 'चिगण चयने' इति चुरादौ पठन्ति, तस्य च घटादित्वं चिस्फुरोर्नवेत्यात्वाभावं नेच्छन्ति । तन्मते चययति । आत्वमप्यन्ये चाययति । णिजभावे तु चयते चयति इत्यधिकं धातुपारायणे-संपादकः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org