________________
६९८ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअट्यपि, अभ्यष्यत् पर्यष्यत् । 'टुंग्क् स्तुतौ' अभिष्टौति परिष्टौति । सु तं दुःष्ठतम् । अट्यपि, अभ्यष्टौत् प्रत्यष्टौत् । 'स्तुभ ष्टभुङ् स्कभुङ् ष्टुभुङ् स्तम्भे' अभिष्टोभते परिष्टोभते । अट्यपि, अभ्यष्टोभत पर्यष्टोभत । उपसर्गादिति किम् ? दधि सुनोति, मधु सुनोति । पूजायां सोः पूजातिक्रमयोश्वातेरुपसर्गत्वाभावादिह न भवति । सुस्तुतं अतिस्तुतम् । येन धातुना युक्ताः प्रादयस्तमेव प्रत्युप५सर्गसंज्ञेति धात्वन्तरयोगे न भवति । निर्गताः सावकाः अस्मानिःसावको देशः । अभिसावकीयतीत्यत्र सावकीयतेरभिना योगो न तु सुनोतेरिति (न भवति) । शिड्नान्तरेऽपीत्यधिकारादटाव्यवधाने न प्राप्नोतीत्यट्यपीति ग्रहणम् । अपिशब्दोऽभावार्थः । अन्यथाऽट्येव स्यात् । अद्वित्वे इति किम् ? अभिसुसूषति । अत्र 'णिस्तोरेव०' (२।३।३७) इति सूत्रे षणि णिस्तोरेवेति नियमात्
द्वितीयसकारस्य मूलधातुरूपस्य षत्वं न, प्रथमस्य तु अद्वित्व इति निषेधान्न, अभिसिषासति । १० अभ्यसिषासत् । अत्र पूर्वसकारस्य षत्वं न भवति, मूलधातोस्तु यथाप्राप्तं षत्वं भवत्येव । पणि नियमात् अत्र कृतषत्वसनोभावानियमाप्राप्त्या द्वितीयस्यावयवस्य मूलधातुरूपस्य 'नाम्यन्तस्था०' ( २।३।१५) इत्यादिना षत्वं स्यादेवेत्यर्थः । केचित्तु उपसर्गपूर्वाणां सुनोत्यादीनां पञ्चानामपि सन्नन्तस्तौतिवर्जितानां द्वित्वे सति मूलप्रकृतेरपि षत्वं नेच्छन्ति । अभ्यसूसवत् अभिसुसाव अभिसो
सूयते । सो अभ्यसीसयत् अभिसेसीयते अभिसिसासति । स्तू अभितोस्तूयते अभितुस्ताव अभ्यतु१५ स्तवत् । स्तुभ तुस्तुभे अभितोस्तुभ्यते अभ्यतुस्तुभत् । इत्यादि । पदादौ प्रतिषेधे प्राप्ते वचनम् । एवं ह्यस्तन्यामभ्यषुणोदिति सिद्धम् । अद्यतन्यां अभ्यषावीत् अभ्यष्टौत् । अद्वित्वे इत्युक्तेः पूर्वस्य षत्वाभावे उत्तरस्य तु षोपदेशत्वान्नाम्यन्तस्थेति षत्वे परोक्षायां अभिसुषुवे अभिसुपाव । अभिषूयात् अभिषोषीष्ट । अभिषोता । 'सुगः स्यसनि' (२।३।६२ ) सुनोतेः सस्य स्ये सनि च पो न
भवति । अभिसोष्यति अभ्यसोष्यत । परिसोष्यति पर्यसोष्यत् । सनि सुसूषतेः क्विप सुसूः अभि२० सुसूः । अत्र धातोः षणि षत्वं 'णिस्तोरेव.' (२।३।३७) इति नियमेन निषिद्धमपि परे रुत्वे षत्वस्यासत्त्वात् 'सो रुः' (२।१।७२) इति रुत्वे कृते वर्णविधौ स्थानित्वाभावात् षणो भावेन अनिषेधात् पुनः प्राप्तं सत् 'सुगः स्यसनि' इति पुनर्निषिद्ध्यते । सुसूषतीति नोदाहियते णिस्तोरेव षणेति नियमेनैव व्यावर्तितत्वात् । अभिसुसूषतीत्यपि नोदाहियते । अद्वित्वव्यावृत्त्यैव निवर्तितत्वात् ।
यङि सोषूयते अभिसोषूयते । सोषवीति सोषोति । अभिसोषवीति अभिसोषोति । 'आसुयुवपिरपि२५ लपित्रपिडिपिदभिचम्यानमः' ( ५।१।२०) आयूर्वाभ्यां सौतिनमिभ्यां यौत्यादिभ्यश्च ध्यण् भवति
इति यापवादे व्यणि आसाव्यम् । 'संचाय्यकुण्डपाय्य०' (५।१।२२) इति ध्यणि निपातनात् राज्ञा सोतव्यो राजा सूयतेऽस्मिन्नति राजसूयः क्रतुः । 'सोमात्सुगः' (५।१।१६३) इति भूते किपि सोमसुत् । 'सुयजो निप्' (५।१।१७२) सुतवान् । उणादौ सुसितनितुसेर्दीर्घश्च वा (२०३) इति
ते सूतः सारथिः । सुतः पुत्रः । वृतुकुसुभ्यो नोन्तश्च (२४०) इति दे सुन्दो दैत्यः । सोरू च ३० (२६३) इति ने सूना वधस्थानम् । य्वसिरसि० (२६९-२७४) इत्यने सवनं ( यज्ञादि )।
युसुकु० (२९७) इति पे ऊत्वे च सूपः । अर्तीरि० (३३८) इति मे सोमः । ऋज्यजि० ( ३८८) इति किति रे सुरः सुरा । 'सुं प्रसवैश्वर्ययोः' । सवति । पुंक् प्रसवैश्वर्ययोः । सौति । ३३ टित्त्वं स्वादित्वज्ञापनार्थ सर्वत्र । इत्युदन्त एकः 'किंगट् बन्धने' । सिनुते सिनोति । पोपदेशत्वात्
१ विशेषविहितखेन पूर्व कृतमपि षवं परस्मिन्नडागमेऽसिद्धं स्यादिति । २ न पर्यष्टौत् परिपूर्वस्य 'स्तुखञ्ज' इति विकल्पभणनात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org