________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे खादय उभयपदिनः
६९७
६९७
ExnxxIOXXnxxcinmeg
अथ स्वादयः।
ExamRKER
'पुंगट् अभिषवे'
अथ स्वादयो वर्णक्रमेण निर्दिश्यन्ते । तत्रापि प्रसिद्ध्यनुरोधेनादौ 'धुंगट् अभिषवे' अभिषवः केदनं सन्धानाख्यं पीडनमन्थने वा । स्नानमिति चान्द्राः । शिति प्रत्यये सूत्रम्
खादेः भुः ॥१॥[सि० ३।४।७५] खादेः कर्तृविहिते शिति श्रुः स्यात् । उश्नोरिति गुणे, सुनोति सुनुतः सुन्वन्ति ॥१॥ ५ 'वादेः०' स्पष्टम् ॥ १॥ वादी मादौ च प्रत्यये सूत्रम्
वम्यविति वा ॥२॥ [सि० ४।२।८७] असंयोगात्परस्य प्रत्ययस्य उतो लुग् वा स्यात् अविति वादौ मादौ च परे । सुन्वः-सुनुवः सुन्मा-सुनुमः १ । सुनुयात् २ । सुनोतु-सुनुतात् । असंयोगादेरिति हेर्लुक्, सुनु-सुनुतात् सुनवानि ३ । असुनोत् । ४ । धूग्सुस्तोरितीटि, असावीत् ५। सुषाव ६ । सूयात् ७ । सोता१० ८ । सोष्यति ९ । असोष्यत् १० । सुनुते सुन्वाते सुन्वते । सुन्वहे-सुनुवहे १ । सुन्वीत २ । सुनुताम् सुनवै ३ । असुनुत ४ । असोष्ट ५ । सुषुवे ६ । सोषीष्ट ७ । सोता ८ । सोष्यते ९ । असोष्यत १० ॥२॥
'वम्य.' असंयोगात्परस्य प्रत्ययस्य उत इति । प्रत्ययादिति ओरिति च 'असंयोगादोः' (४।२। ८६) इति सूत्रात्पश्चम्यन्तमनुवर्तमानमपि व्यधिकरणषष्ठ्यन्ततया विपरिणम्यते । असंयोगात्परो य १५ उकारस्तस्य प्रत्ययसम्बन्धिनो लुग्वा स्यादित्यर्थः । वमीति किम् ? सुनुतः । अवितीति किम् ? सुनोमि । ओरित्येव क्रीणीमः । प्रत्ययस्येत्येव । युवः युमः । असंयोगादित्येव तक्ष्णुवः तक्ष्णुमः । असंयोगादित्योर्विशेषणादिहापि न भवति आप्नुवः आप्नुमः । यदि च असंयोगाद्य उकारान्तः प्रत्यय इति प्रत्ययविशेषणं स्यात्तदात्रापि स्यात् ॥ २॥ उपसर्गयोगे सूत्रम
उपसर्गात्सुग्रसुवसोस्तुस्तुभोऽध्यप्यद्वित्वे ॥ ३॥ [सि० २॥३॥३९] २० अद्वित्वे सति सुनोति सुवति स्यति स्तौति स्तोभतीनां सकारस्योपसर्गस्थानाम्यादेः परस्य सस्य षः स्यात् अट्यपि । अभिषुणोति । शिइनान्तरेऽपि, निःषुणोति । अव्यपि, अभ्यषुणोत् । 'चिंगट् चयने । चिनोति ४ । अचैषीत् ५ ॥३॥
'उप०' अद्वित्वे इति, द्विर्वचनाभावे । सुनोति सुवति स्यति स्तौति स्तोभतीनां सकारस्योपसर्गस्थात् नाम्यन्तस्थात्कवर्गात्परस्य षो भवति अट्यप्यडागमेऽपि सति अव्यवधानेऽपीत्यर्थः ।२५ सुग् अभिषुणोति परिषुणोति । शिड्नान्तरेऽपीत्यधिकारान्निःषुणोति दुःषुणोति । अभिषुण्वन्तं प्रयुङ्क्ते अभिषावयति । अत्रोपसर्गसम्बन्धे सति णिः ॥ ण्यन्तानां तूपसर्गसम्बन्धे न भवति । अभिसावयति परिसावयति ॥ अट्यपि, अभ्यषुणोत् पर्यषुणोत् । गिन्निर्देशात् सौतिसवत्योर्माभूत् । 'पुंक् प्रसवैश्वर्ययोः' अभिसौति । 'सुं प्रसवैश्वर्ययोः' अभिसवति । सुवः 'पुत् प्रेरणे' अभिषुवति परिषुवति । अट्यपि अभ्यषुवत् पर्यषुवत् । शनिर्देशात्सूतिसूयत्योर्न भवति । 'सूडौक् प्राणिगर्भविमोचने' अभिसूते । 'पूडौच् प्राणिप्रसवे' अभिसूयते । सो 'घोंच अन्तकर्मणि' अभिष्यति परिष्यति ।३१
है. प्रका० उत्त० ८८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org