________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहेमलघु'मृषू सहने च' मर्षति । 'भूषण क्षान्तावदन्तः मृषयति । 'मृषणि तितिक्षायाम्' युजादेरिति वा णिचि मर्षयते मर्षते । इति षान्तः सेट् । *णहींच्' इति । नाति नह्यते णोपदेशत्वात्-'अदुरुपसर्ग०' (२।३।११) इति णत्वे प्रणह्यते । 'वावाप्योः०' (३।२।१५६) इति पिर्वा अपिनाते पिनह्यते ।
अनात्सीत् अनाद्धां अनात्सुः । अनद्ध अनत्साताम् । नेहे ननाह । सनि निनत्सति । यङि नानह्यते। ५यङ्लुपि नानहीति नानद्धि । नद्धः । अपिनद्धः २ पिनद्धः २ । नवा संनह्य । घनि सन्नाहः । 'नीदांव' (५।२।८८ ) इति त्रुटि नी । 'क्रुत्संपदा. (५।३।११४) इति किपि, ‘गतिकारकस्य०' (३।२।८५) इति दीर्घ उपनाते उपानत् । उणादौ ऋपनहि० (५५७) इत्युषे नहुषो राजा । नहेर्भ च (६२१) इति णिदिः नाभिः अन्त्यः कुलकरश्च मध्यं देहावयश्च । नभ इति तु नभ्यतेरसि (९५२) नख इत्यपि नास्य खमस्तीति बहुव्रीहौ नखादित्वाददभावे । इति हान्तोऽनिट् । १० इत्युभयपदिनः । * इति दिवादिगणः श्यविकरणः *- ॥ १४०॥
पुष्यादयः सप्तषष्टिः सूयत्याद्या नवाष्ट च ।
शमादयः शतं चत्वारिंशं सर्वे विवादयः ॥ १३ ॥ यां शिष्योद्भुतकीर्तिकीर्तिविजयश्रीवाचकाहर्मणे
राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः। तस्यां शासितसाधुशब्दसरणौ खोपज्ञसत्प्रक्रिया
वृत्तौ सुष्टु विवादयः श्यविकृताः पूर्णीकृता धातवः ॥ १ ॥
SMS
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org