________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे दिवादय उभयपदिनः
1
* "हींच बन्धने' । नह्यते ४ । 'नहाहोर्धतौ' अनात्सीत् ५ ननाह ६ नद्यात् ७ ना ८ नत्स्यति ९ । नह्यते ४ अनद्ध, अनत्साताम् ५ नेहे ६ नत्सीष्ट ७ नत्स्यते ९ ॥ १३ ॥
इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां हैमलघु प्रक्रियायां दिवादयः समाप्ताः ।
अथोभयपदिषु 'शकच् मर्षणे । मर्षणं क्षमा । फलवत्कर्त्तर्यात्मनेपदे शक्यते, अन्यत्र परस्मै - ५ पदे शक्यति । अशक्त अशाक्षीत् । शेके शशाक । शक्ता । शक्तम् । शक्तः २ । ‘शकः कर्मणि' (४।४।७३ ) क्ते वाऽनिट् शक्तिः शक्तो वा घटचैत्रेण कर्त्तुम् । सनि 'रभलभ० ' ( ४।१।२१ ) इति स्वरस्येत्वे द्वित्वाभावे च शिक्षते शिक्षति । 'शकित कि०' (५।१।२९) इति ये शक्यम् । अचि शकः । वनि शक्ता । 'णस्वर ० ' ( २।४।४ ) इति ङयां रत्वे च शक्करी । क्तौ शक्तिः । बाहुलकात् घञ शक्यतेऽनेन भोक्तुमिति शाकम् । 'शकधृष ० ' ( ५|४|९० ) इति तुमि शक्यते भोक्तम् । उणादौ १० दिव्यवि० ( १४२ ) इत्यटे शकटम् । कृशक्शा खेरोट : (१६०) शकोट: बाहुः । शकेरुनिः ( ६८४ ) शकुनिः । शकेरुन्तः ( २२३ ) शकुन्तः यम्यजि० ( २८८ ) इत्युने शकुनम् । भीवृधि ० ( ३८७ ) इति रे शक्रः । जठरक्रकर० (४०३ ) इत्यरे ( किदरे) शकरो हस्तिमल्लः । शामाश्या० (४६२ ) इत्यले शकुः मनोज्ञदर्शनो मधुरवाक् शक्तश्च । मृदिकन्दि० ( ४६५ ) इत्यले शलम् । शकेरुन्तिः ( ६६६ ) शकुन्तिः । कृपिशकिभ्यामटि : ( ६३० ) शकटिः । शक ऋतू ( ८९१ ) १५ शकृत् । अनीदयं मर्षणे इयविकरणोऽर्थान्तरे तु श्रुविकरणः स्वादिपतित एव इत्येके । शक्यति मृष्यते इत्यर्थः । पुष्यादित्वादङि अशकत् । मर्षणादन्यत्र नौ शक्नोति । ऌदित्वादङि अशकत् । अन्ये तु शकि भाषितो मर्षणे इति पठन्ति व्याचक्षते च मर्षणे शक्नोतेः परस्मैपदं श्ये विकल्प्यते । अङि टौ च शक्यते शक्यति । अशकीत् अशकत् । शक्ता शकिता । अन्यत्र शक्नोति । अशकत् शक्ता । इति कान्तोऽनिट् । ‘शुचृगैच् पूतिभावे' पूतिभावः क्छेदः । शुच्यते शुच्यति 'ऋदिच्छ्वि०': ( ३।४।६५ ) इति वाङि अशुचत् अशोचीत् । अशोचिष्ट शोचिता । ऐदित्त्वात् क्तयोर्नेट् शुक्तः २ । 'शुच शोके' शोचति । इति चान्तः सेट् । 'रञ्जींच् रागे' । रज्यते रज्यति । अरङ्क अराङ्क । अराङ्क्षीत् । ररञ्जे ररञ्ज रता । 'नो व्यञ्जनस्यानुदित : ' ( ४।१।४५ ) व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य किति परे लुक् स्यात् इति न लोपे रक्तः २ । 'अकटूधिनोश्च रजेः' (४/२/५० ) रञ्जरकटि शवि चोपान्त्यनस्य लुक् स्यादिति नलुकि रजकः । रागी, रजः रजनम् रजनिरित्यौणादिककित्प्रत्य - २५ यान्ताः । ‘रञ्जीं रागे' रजते रजति । इति जान्तोऽनिट् । ' शपींच् आक्रोशे' शप्यते शप्यति । अशप्त अशाप्सीत् शेपे शप्ता शप्तः २ । घनि शापः उणादौ शाशपि ० ( २३७ ) इति दे शब्दः । 'शर्पा आक्रोशे' शपते शपति । इति पान्तोऽनिट् । 'मृषीच् तितिक्षायाम्' तितिक्षा क्षमा । मृष्यते मृष्यति 'परेर्मृषश्च' ( ३।३।१०४ ) इति फलवत्कर्त्तर्यपि परस्मैपदे परिमृष्यति अमर्षीत् अमर्षिष्टम् अमर्षिषुः । अमर्षिष्ट अमर्षिषाताम् । ममर्ष ममृषतुः ममृषुः । ममर्षिथ ममृषिम । ममृषे ममृषि- ३० महे । मृष्यत् मर्षिषीष्ट । मर्षिता २ । मरीमृषते । मरी ३ मृषीति । मरि ३ मृष्टि । मर्षयति अमीमृषत् । ‘ऋत्तृष०' (४।३।२४ ) इति क्त्वो वा किवे मृषित्वा मर्षित्वा । परिमृष्य : ' मृषः क्षान्तौ' ( ४।३।२८) इति क्तयोः मर्षितः २ । क्षान्तेरन्यत्र धातूनामनेकार्थत्वाद्भूषणादिषु किन्त्वे मृषितः २ । नन्द्याद्यने मर्षणः । ' शासूयुधि ० ' ( ५/३ | १४१ ) इति खलपवादेऽने दुर्मर्षणः । ३४
२०
1
/
Jain Education International
६९५
For Personal & Private Use Only
www.jainelibrary.org