________________
६९४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधुभ्वादित्वात् प्रतपति । प्रतताप । नन्द्याद्यने तपनः 'द्विषंतप०' (५।१।१०८) इति निपातनात् द्विषन्तपः परन्तपः । एके तु 'तपिच् ऐश्वर्ये' इति धात्वन्तरं दिवादिमाहुः, अन्ये तु भ्वादेरेवैश्वर्ये सन्तापे च श्यात्मनेपदे वेच्छन्ति । इति पान्तौ द्वौ आद्यः सेट् , द्वितीयोऽनिट् । 'पूरैचि
आप्यायने' आप्यायनं वृद्धिः । पूर्यते । क्येऽपि पूर्यते 'दीपजन०' (३।४।६७) इति वा मिचि ५अपूरि अपूरिष्ट । पुपूरे पूरिषीष्ट पूरिता पूरिष्यते । सनि पुपूरिषते यङि पोपूर्यते यलुपि पोपूरीति पोपूर्ति पोपूर्तः पोपुरति । पूरयति अपूपुरत् । 'णौ दान्तशान्त०' (४।४।७४ ) इति वा निपातनात् पूर्ण पूरितः पूर्यमाणः । पूरिष्यमाणः पुपूराणः 'इडित०' (५।२।४४ ) इत्यने पूरणशीलः पूरणः । 'चर्मोदरात्पूरेः' (५।४।५६) इति णमि चर्मपूरं ददाति उदरपूरं भुङ्क्ते । वृष्टिमाने उलुक् चास्य वा
गोष्पदपूरं वृष्टो मेघः गोष्पदप्रम् । 'ऊर्ध्वात्पूःशुषः' (५।४।७०) ऊर्ध्वपूरं पूर्णः । 'घूरैङ्, जूरैचि १० जरायाम्' जरा वयोहानिः । घूर्यते अघूरिष्ट । जुध्रे । ऐदित्वात् क्तयोर्नेट् 'रदाद.' (४।२।६९)
इति क्तयोस्तस्य नत्वे घूर्णः २ । जूरै जूर्यते अजूरिष्ट जुजूरे जूर्णः २ । 'धूरैङ्क गूरैचि गतौ' धूर्यते गूर्यते अधूरिष्ट अगूरिष्ट दुधूरे जुगूरे धूर्णः २ गूर्णः २ । 'क्रुत्संपदा०' (५।३।११४ ) इति क्विपि धूर्यत इति धूः । मूदिगूरिभ्यां टिद्गजौ चान्तौ (४०४ ) इत्यरे गूर्जरः । टित्त्वात् गूर्जरी । 'शूरैचि स्तम्भे' तालव्यादिः शूर्यते अशूरिष्ट शुशूरे । शूर्णः २ । 'नाम्युपान्त्य०' (५।१।५४) १५इति के शूरः । 'तूरैचि त्वरायाम्' गतित्वरायामित्यन्ये तूर्यते अतूरिष्ट तुतूर । तूर्णः । ध्यणि
तूर्यम् । 'नाम्युपान्त्यः ' इति के तूरम् । 'इडित०' (५।२।४४.) इत्यने तूरणशीलः, तूरणः । उणादौ कावावी० (६३४) इति णौ तूर्णिस्त्वरा 'घूरादयो हिंसायां च' षडपि हिंसायां चकारात् यथायथमुक्तेषु जरादिषु तान्येवोदाहरणानि । 'चूरैचि दाहे' चूर्यते अचूरिष्ट चुचूरे । चूर्णः २ । उणादौ कावावी० (६३४ ) इति णौ चूर्णिः वृत्तिः । इति रान्ता अष्टौ सेटः । 'क्लिशिच् २० उपतापे' । क्लिश्यते क्येऽप्येवम् अक्लेशिष्ट चिक्लिशे चिक्लिशिमहे लेशिषीष्ट लेशिता क्लेशिष्यते । 'बौ व्यञ्ज.' (४।३।२५) चिक्लिशिषते चिल्लेशिषते । चिक्लिश्यते । चेक्लेष्टि, चेलीशीति । केशयति । अचिक्लिशत् । पूठिशीति क्तक्त्वासु वेट क्लिष्टः २ क्लिशितः २ । क्लिष्ट्वा । 'क्षुधक्लिश०' (४।३।३१) इति कित्त्वे क्लिशित्वा निन्दहिंस.' ( ५।२।६८) इति णके केशकः । उणादौ क्लिशः के च
(५३०) इति शे केशा मूर्द्धजाः। कीनाश इति तु कनेरीश्चातः (५३४) इत्याशे कनतेः । किशोर २५ इत्यपि कोरचोर० (४३४) इति निपातनात् ओरे कृशेः । 'क्लिशौश् बाधने' क्लिश्नाति । “लिशिंच्
अल्पत्वे' लिश्यते अद्यतन्यां 'हशिटो नाम्युपान्त्य०' (३।४।५५) इति सकि अलिक्षत । लिलिशे लेष्टा लिष्टः । 'माम्युपान्त्य०' ( ५।११५४) इति के लिशः । घनि लेशः । 'लिशं भक्तौ' लिशति । 'काशिच दीप्तौ' काश्यते अकाशिष्ट चकाशे काशितः । णौ के 'उपान्त्यस्य.' (४।२।३५) ह्रस्वे
अचीकशत् । ऋदिदयमित्येके तन्मते हखाभावे अचकाशत् अचि 'नामिनः काशे' ( ३।२।८७ ) ३० इति दीर्घे नीकाशः प्रतीकाशः। घनि अवकाशः काशः । उणादौ वनिकणि० ( १६२ ) इति ठे
काष्ठम् दारु, काष्ठा दिक् । 'काशृङ् दीप्तौ' काशते । 'वाशिच् शब्दे' वाश्यते पशुः । अवाशिष्ट काकः । ववाशे वाशिता । णौ डे अवीवशत् । ऋदिद्यमित्येके तेषां मते ह्रस्वाभावे अववाशत् । क्लेट०' (५।३।१०६) इत्यः वाशा । 'नाग्नि पुंसि च' (५।३।१२१) इति णके वाशिका । नन्द्याद्यने वाशनः । उणादौ वाश्यसि० (४२३) इत्युरे वाशुरः शकुनिर्गहभश्च । वाशुरा रात्रिः । ३५ इति शान्ताश्चत्वारो लिशंचवर्जाः सेटश्च । -* इत्यात्मनेपदिनः । *
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org